KKSU Ramtek – ‘विश्वमन’-संकल्पनायाः विषये अधिकं शोधं करणीयम् – प्रो. मधुसूदन-पेन्ना
भारतीय-मनोविज्ञाने ‘मनसः’ अवधारणाम् आधुनिक-परिभाषया स्पष्टीकर्तुं आवश्यकता – डॉ. अतुल-वैद्य

हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे, नागपुरम्।
कविकुलगुरुकालिदास-संस्कृत-विश्वविद्यालयस्य संस्कृत-भाषा-साहित्य-विभागेन ‘भारतीय-मनोविज्ञानम्’ इति विषये एकदिवसीया राष्ट्रीय-संगोष्ठी रामटेके सम्पन्ना। अस्याः संगोष्ठ्याः कृते केन्द्रीयसंस्कृतविश्वविद्यालयतः आर्थिक-अनुदानं प्राप्तम्।
संगोष्ठ्याः उद्घाटन-कार्यक्रमस्य अध्यक्षतां माननीय-कुलपतिः डॉ. अतुल-वैद्य कृतवान्। प्रमुख-अतिथिरूपेण प्रख्यातः संस्कृत-विद्वान् महाकविश्च प्रो. मधुसूदन-पेन्ना, संचालकः संस्कृत-अकादमी-हैदराबाद: उपस्थितः आसीत्। सारस्वत-अतिथिरूपेण डॉ. दिनेश-रसालः, प्राध्यापकः संस्कृत-प्राकृत-विभागे सावित्रीबाई फुले पुणे विश्वविद्यालय: विशेष-अतिथिरूपेण वेदविद्या-संकायस्य अधिष्ठाता प्रो. हरेकृष्ण-अगस्ती उपस्थिताः आसन्। कुलसचिवः डॉ. रोशन-अलोने अपि मंचे विराजमानः आसीत्। संगोष्ठ्याः संयोजिका प्रो. कविता-होले तथा समन्वयकः प्रो. पराग-जोशी विशेषतया उपस्थितौ।कार्यक्रमः दीप-प्रज्ज्वलनेन आरब्धः। प्रास्ताविकं समन्वयकः प्रो. पराग-जोशी अकरोत्। संयोजिका प्रो. कविता-होले उक्तवती यत् अस्याः संगोष्ठ्याः मंथनात् शोधार्थिनां कृते भारतीय-मनोविज्ञानस्य नूतनाः विचाराः संकल्पनाश्च स्पष्टाः भविष्यन्ति, नूतन-शोध-विषयाश्च प्राप्स्यन्ते।
अन्तःकरण-चतुष्टये मनः सर्वासां मानसिक-वृत्तीनां केन्द्रम्
प्रमुख-अतिथिः प्रो. मधुसूदन-पेन्ना स्व-बीज-भाषणे भारतीय-मनोविज्ञानस्य गम्भीरं विश्लेषणं प्रस्तुतवान्। तेन भारतीय-पाश्चात्य-दर्शनयोः दृष्ट्या ‘मनसः’ संकल्पना स्पष्टीकृता। तेनोक्तं यत् भारतदेशे मनसः अत्यन्तं सूक्ष्मं विश्लेषणं कृतम्, अन्तःकरण-चतुष्टये मनः सर्वासां मानसिक-वृत्तीनां केन्द्रम् अस्ति। वेद-उपनिषद्-योगदर्शनेषु मनसः साक्षीभावः, अभिव्यक्तिः, अनुभूतिः, चिन्तनं च विवृता, तस्य नियन्त्रणोपायाश्च निरूपिताः। मनः स्वभावतः चञ्चलं भवति, तस्य नियन्त्रणस्य उपायाः पतञ्जलि-मुनिना निर्दिष्टाः। मनोनिग्रहस्य अर्थः उचित-अनुचित-विवेकः इति। ‘तर्क’ तथा ‘सत्तर्क’ इत्येतयोः भेदं स्पष्टीकृत्य तेनोक्तं यत् मनोनिग्रहः निरन्तराभ्यासेन एव सिद्ध्यति। ‘विश्वमन’-संकल्पनायाः विषये अधिक-शोधस्य आवश्यकता वर्तते। नव-शोधकर्तृभिः मूल-संस्कृत-ग्रन्थानामध्ययनं कृत्वैव शोधः करणीयः, अन्यथा वैचारिक-विभ्रमः सिद्धान्त-विरोधश्च सम्भवति इति तेन प्रतिपादितम्।
अध्यक्षीय-भाषणे कुलपतिः डॉ. अतुल-वैद्य अवदत् यत् भारतीय-दर्शने मनसः विचारः अतीव प्रगल्भः वैज्ञानिकश्च अस्ति। अद्य तस्य आधुनिक-वैज्ञानिक-भाषया परिभाषया च प्रस्तुतीकरणस्य आवश्यकता वर्तते, येन सामान्य-जनाः अपि तत् सुबोधं कर्तुं शक्नुयुः। सूक्ष्म-जीवात् आरभ्य मनुष्य-पर्यन्तं जीवन-प्रेरणा मनसः एव जायते। यदा आवश्यकं भवति तदा मनः विषयेन सह संयोजयितुं, अनावश्यकतायां तस्मात् पृथक्कर्तुं च शक्यते—एवमेव मानसिक-सुदृढतायाः लक्षणम् इति।
उद्घाटनानन्तरं विशेष-परिसंवादः आयोजितः। डॉ. दिनेश-रसालः सन्त-साहित्ये भारतीय-मनोविज्ञानस्य विषये विचारान् प्रस्तुतवान्। डॉ. अमृता-भुस्कुटे (बिंझाणी-महिला-महाविद्यालयात्) भारतीय-मानसिक-स्वास्थ्याय पञ्चकोश-पुरुषार्थ-प्रारूपयोः विषये मन्तव्यम् अकरोत्। परिसंवादस्य अध्यक्षतां प्रो. कलापिनी-अगस्ती कृतवती।
विविध-सत्रेषु समग्रतया ७५ शोधार्थिभिः शोधपत्राणि प्रस्तुतानि। कार्यक्रमस्य सञ्चालनं डॉ. श्वेता-शर्मा अकरोत्।
समापन-कार्यक्रमः प्रो. कविता-होले-अध्यक्षतायां सम्पन्नः। समापन-सत्रे विशेष-अतिथिरूपेण विश्वविद्यालय-योजना-विकास-मण्डलस्य निदेशकः प्रो. प्रसाद-गोखले तथा परिसर-निदेशकः प्रो. हरेकृष्ण-अगस्ती उपस्थितौ।
प्रस्तुतानां ७५ शोधपत्राणां मध्ये सिमरन-ठाकुर, प्राजक्ता-पेंदाम, अनघा-निल्दावार, गणेश-नाईकवाडे तथा मनीषा-कदम इत्येते उत्कृष्ट-शोधपत्र-प्रस्तुतीकरणार्थं प्रमाणपत्रैः, स्मृति-चिह्नैः, नगद-पुरस्कारैश्च सम्मानिताः।
सह-समन्वयिका डॉ. श्वेता-शर्मा संगोष्ठ्याः प्रतिवेदनं प्रस्तुतवती, समन्वयकः प्रो. पराग-जोशी धन्यवाद-ज्ञापनं कृतवान्। राष्ट्रगानेन सह कार्यक्रमस्य समापनम् अभवत्।
