By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*
संस्कृतगतिविधयः

*पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/05/13 at 11:31 PM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

*पश्चिमबङ्गे ऐतिहासिकः राजनीतिकपरिवर्तनः : संस्कृतशपथग्रहणेन स्पन्दितं समग्रभारतम्।*

पश्चिमबङ्गराज्येस्य समग्रजनपदे २०२६ तमे वर्षे विधानसभानिर्वाचने भारतीयजनतापक्षस्य(BJP) अभूतपूर्वा विजयः समग्रदेशवासिनः विस्मयचकितान् तथा हर्षोल्लासेन आप्लावितान् अकरोत्। द्विशतचतुःनवतिसदस्ययुक्तायां पश्चिमबङ्गविधानसभायां भारतीयजनतापक्षः स्वबलमेव आश्रित्य  सप्तधिकंद्विशतं (२०७) आसनानि विजित्य स्पष्टबहुमतं प्राप्तवान्। स्वतन्त्रभारतस्य इतिहासे प्रथमवारं पश्चिमबङ्गराज्ये भारतीयजनतापक्षस्य सर्वकारस्य गठनं सम्पन्नम्। राजनैतिकविश्लेषकाणां मते एषा विजयः केवलं दलविशेषस्य सफलता न, अपि तु जनमानसस्य व्यापकपरिवर्तनस्य स्पष्टप्रतीकः अस्ति।

अद्य नव-निर्वाचितविधायकानां शपथग्रहणसमारोहः अत्यन्तगौरवेण सम्पन्नः। अस्मिन् ऐतिहासिके आयोजने मालदाजनपदस्य इङ्ग्लिशबाजार-विधानसभाक्षेत्रस्य विजयी विधायकः *माननीयः अम्लानभादुड़ी-महोदयः तथा मालदाजनपदस्य वैष्णवनगर-विधानसभाक्षेत्रस्य विधायकः *माननीयः राजूकर्मकार-महोदयः* संस्कृतभाषायां शपथवाक्यं पठित्वा सर्वेषां विशेषं ध्यानम् आकर्षितवन्तौ।

यदा ताभ्यां वेदानां भाषा, रामायणस्य भाषा, उपनिषदां भाषा, श्रीमद्भगवद्गीतायाः भाषा, देवभाषा च संस्कृतभाषायां शपथः पठितः, तदा समग्रं सभामण्डपं राष्ट्रभावनया, आध्यात्मिकगौरवेण, सांस्कृतिकचेतनया च परिपूर्णम् अभवत्। उपस्थिताः जनाः करताडनैः अभिनन्दनं प्रकटितवन्तः। संस्कृतभाषायाः एषः प्रयोगः भारतीयसंस्कृतेः सनातनपरम्परायाः च पुनर्जागरणस्य प्रतीकरूपेण परिगणितः।

एषः शपथग्रहणसमारोहः विविधदूरदर्शनमाध्यमेषु प्रत्यक्षरूपेण सम्प्रसारितः। संस्कृतभाषायाः मधुरोच्चारणं श्रुत्वा देशस्य विभिन्नप्रदेशेषु स्थिताः दर्शकाः भावविभोराः अभवन्। सामाजिकमाध्यमेष्वपि अस्य समारोहस्य व्यापकः प्रतिसादः दृष्टिगोचरः अभवत्। विद्वांसः, संस्कृतप्रेमिणः, सांस्कृतिकचिन्तकाः च एतादृशं प्रयासं भारतीयसंस्कृतेः गौरवस्य पुनर्स्थापनाय महत्त्वपूर्णं पदक्षेपम् इति वर्णितवन्तः।

अनेकानां सनातनधर्मानुयायिनां मते पश्चिमबङ्गस्य एतन्निर्वाचनं “सनातनधर्मरक्षणस्य निर्णायकः संघर्षः” आसीत्। तेषां कथनानुसारं गतपञ्चवर्षेषु राज्ये बहवः सामाजिकाः तथा राजनीतिकाः तनावाः दृष्टाः। अनेकाः जनाः आरोपितवन्तः यत् तृणमूलदलस्य कपटाचारिकतिपयदुष्कृतिनां हिंसाचारैः त्रिशतैकविंशत्यधिकत्रिशत (३२१) देशभक्ताः सनातनधर्मावलम्बिनः हताः। तदतिरिक्तं विगतपञ्चदशवर्षेषु सनातनधर्मावलम्बिनः स्वधर्माचरणे, सांस्कृतिककार्येषु, तथा स्वमतप्रकाशने विविधाः बाधाः अनुभूतवन्तः इति अपि जनानां मध्ये व्यापकः अभिप्रायः आसीत्।

अस्य निर्वाचनस्य परिणामः अनेकैः *“नवयुगस्य आरम्भः”* इति कथ्यते। पश्चिमबङ्गराजनीतौ जातः एषः परिवर्तनः न केवलं प्रशासनिकपरिवर्तनस्य सूचकः, अपि तु सांस्कृतिकचेतनायाः, धार्मिकस्वातन्त्र्यस्य, लोकतान्त्रिकमूल्यानां च पुनः प्रतिष्ठापनस्य घोषणापत्रमिव दृश्यते।

You Might Also Like

विनोबाभावेविश्वविद्यालयस्य स्नातकोत्तरसंस्कृतविभागे भारतीयसेनया विशेषव्याख्यानमायोजितम्

कामेश्वरसिंह- दरभंगा- संस्कृत- विश्वविद्यालये सर्वासां समस्याणां समाधानं भविष्यति- महामहिमः

डॉ. मोहन भागवत: ‘प्रणव’ इति संस्कृतभारत्याः नूतनकार्यालयस्य उद्घाटनं कृतवान्

प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति – प्रधानमन्त्री नरेन्द्रमोदी

मुंबई-नगरे श्रीमन्नारायणीयपारायण-प्रतियोगिता तथा प्रश्नोत्तरी सफलतया सम्पन्ना

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article हिमन्ता बिस्व शर्मा असम-राज्यस्य मुख्यमन्त्री रूपेण शपथं गृहीतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?