By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: चिट्टा-विक्रयिणः अधिकारिणः कर्मचारिणः च भविष्यन्ति पदच्युताः, सेवनकर्तृणां भविष्यति अन्वेषणं विभागीय-सचिवेभ्य: प्रदत्ता सूची 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > चिट्टा-विक्रयिणः अधिकारिणः कर्मचारिणः च भविष्यन्ति पदच्युताः, सेवनकर्तृणां भविष्यति अन्वेषणं विभागीय-सचिवेभ्य: प्रदत्ता सूची 
हिमाचलवार्ता

चिट्टा-विक्रयिणः अधिकारिणः कर्मचारिणः च भविष्यन्ति पदच्युताः, सेवनकर्तृणां भविष्यति अन्वेषणं विभागीय-सचिवेभ्य: प्रदत्ता सूची 

डॉ मनोज शैल
Last updated: 2026/05/12 at 9:21 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

चिट्टा-विक्रयिणः अधिकारिणः कर्मचारिणः च भविष्यन्ति पदच्युताः, सेवनकर्तृणां भविष्यति अन्वेषणं विभागीय-सचिवेभ्य: प्रदत्ता सूची 

हिमसंस्कृतवार्ता: – शिमला।

हिमाचलप्रदेश-सर्वकारेण ‘चिट्टा’ तथा अन्य-‘एनडीपीएस’ प्रकरणेषु संलिप्तानां सर्वकारीय-अधिकारिणां कर्मचारिणां च विरुद्धं कठोरा कार्यविधि: प्रारब्धा। अधुना चिट्टा-विक्रयिणः सर्वकारीय-अधिकारिणः कर्मचारिणः च पदच्युताः (बर्खास्त) भविष्यन्ति, सेवनकर्तृणां च विभागीय-अन्वेषण-प्रक्रिया भविष्यति। मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना उक्तं यत् प्रदेश-सर्वकारः मादकद्रव्य-विरुद्धं व्यापकम् अभियानं चालयति, मादकद्रव्य-तस्करेषु संलिप्तानां सर्वकारीय-कर्मचारिणां कृते च ‘शून्य-सहनशीलता’ (Zero Tolerance) नीतिः स्वीकृता। मङ्गळवासरे प्रदेश-सचिवालये आयोजिते उपवेशने चिट्टा-प्रकरणेषु संलिप्तानां कर्मचारिणां सूची विभागीय-सचिवेभ्य: प्रदत्ता।

अधुना चिट्टा-प्रकरणेषु एवं भविष्यति कार्यविधि:

मुख्यमन्त्रिणा उक्तं यत् अधुना कार्यविधि: अस्य आधारेण भविष्यति यत् सम्बन्धितः अधिकारी कर्मचारी वा चिट्टा-व्यापारे संलिप्तः अस्ति उत सेवन-प्रकरणे गृहीतः। तेन स्पष्टीकृतं यत् ये कर्मचारिणः नशा-व्यापारे संलिप्ताः प्राप्स्यन्ते, ते सेवायाः निष्कासिताः भविष्यन्ति, सेवनकर्तृणां विरुद्धं च नियमानुसारं कार्यविधि: भविष्यति। सर्वकारस्य अङ्किकानुसारं प्रदेशे अधुना यावत् १२२ सर्वकारीय-अधिकारिणः कर्मचारिणः च चिट्टा तथा अन्य-एनडीपीएस-प्रकरणेषु संलिप्ताः प्राप्ताः। एतेषु ३१ कर्मचारिणां सेवाः समाप्ताः कृताः सन्ति। मुख्यमन्त्रिणा सर्वान् प्रशासनिक-सचिवान् ईदृशेषु प्रकरणेषु कठोरां विभागीय-कार्यविधिं सुनिश्चितं कर्तुं निर्देशः दत्तः।

सर्वाधिक-प्रकरणानि आरक्षक-विभागे

सूची-अनुसारं सर्वाधिकानि २१ प्रकरणानि हिमाचलप्रदेश-आरक्षक-विभागात् प्राप्तानि, सर्वे २१ कर्मचारिणः च सेवायाः पदच्युताः कृताः। विद्युत्-मण्डलस्य १३ कर्मचारिषु एकः निष्कासितः, शिक्षा-विभागस्य १० कर्मचारिणः अन्वेषण-परिधौ सन्ति। बैङ्किङ्ग-जलशक्ति-विभागयोः ९-९ कर्मचारिणः प्रकरणेषु संलिप्ताः प्राप्ताः। सेना-नौसेनाभ्यां सम्बद्धानां ८ कर्मचारिणां नामानि अपि सूच्यां अङ्कितानि सन्ति। ‘एचआरटीसी’ (HRTC) इत्यस्य ८ कर्मचारिषु २ कर्मचारिणां सेवाः समाप्ताः। वन-विभागस्य लोक-निर्माण-विभागस्य च ६-६ कर्मचारिणः अन्वेषण-परिधौ सन्ति। स्वास्थ्य-विभागस्य ४ तथा ‘बीडीओ’ कार्यालयस्य ३ कर्मचारिणां विरुद्धं कार्यविधि: पञ्जीकृता, येषु बीडीओ-कार्यालयस्य २ कर्मचारिणौ पदच्युतौ कृतौ। एतदतिरिच्य खाद्य-आपूर्ति, पशुपालन-अन्य-विभागानां कर्मचारिषु अपि विभागीय-कार्यविधि: प्रचलति। सर्वकारेण स्पष्टीकृतं यत् नशा-तन्त्रात् (Drug network) सम्बद्धः कोऽपि कर्मचारी न त्यक्ष्यते।

You Might Also Like

प्रदेशाय ३१ मई पर्यन्तं सज्जा भवतु पोषणनीतिः, मुख्यमन्त्रिणः निर्देशाः

HP PANCHAYAT ELECTION -जिलापरिषदः सङ्घर्षः, अधुना प्रतिष्ठायाः विषयः सञ्जातः

विकसितभारत-जी-राम-योजनायाः हिमाचलप्रदेशे प्रवर्तनम्

शिमला-: हिमाचलप्रदेशोच्चन्यायालयेन शास्त्री-अध्यापकानां नियुक्तौ अन्तरिम-प्रतिबन्धः आरोपितः

हिमाचलप्रदेश-उच्चन्यायालयेन 2023 तमवर्षस्य चयनप्रक्रिया-अन्तर्गतं बी.एड. (B.Ed.) अभ्यर्थिनां नियुक्तौ प्रतिबन्धः स्थापितः

TAGGED: Himachal news, Himsanskrit news, Himsanskritnews, Himsanskritvarta, HP NEWS, अमर उजाला, दिव्य हिमाचल समाचार, पंजाब केसरी, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमसंस्कृतवार्ताः हिम संस्कृतम्, हिमाचल अभी अभी, हिमाचल न्यूज़, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article बिहार-राज्ये मुख्यमन्त्री-सम्राट-चौधरी-इत्यस्य नेतृत्वे मन्त्रिमण्डलस्य विस्तारः
Next Article HP PANCHAYAT ELECTION -जिलापरिषदः सङ्घर्षः, अधुना प्रतिष्ठायाः विषयः सञ्जातः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?