By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रदेशाय ३१ मई पर्यन्तं सज्जा भवतु पोषणनीतिः, मुख्यमन्त्रिणः निर्देशाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > प्रदेशाय ३१ मई पर्यन्तं सज्जा भवतु पोषणनीतिः, मुख्यमन्त्रिणः निर्देशाः
हिमाचलवार्ता

प्रदेशाय ३१ मई पर्यन्तं सज्जा भवतु पोषणनीतिः, मुख्यमन्त्रिणः निर्देशाः

डॉ मनोज शैल
Last updated: 2026/05/12 at 9:31 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

प्रदेशाय ३१ मई पर्यन्तं सज्जा भवतु पोषणनीतिः, मुख्यमन्त्रिणः निर्देशाः

हिमसंस्कृतवार्ता: – शिमला।

हिमाचलप्रदेश-सर्वकारेण राज्ये स्वास्थ्यसेवाः सुदृढीकर्तुं जनेभ्यः च उत्तमं पोषणं उपलब्धं कारयितुं महान् पदक्षेपः स्वीकृतः। मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना स्वास्थ्यविभागः ३१ मई पर्यन्तं राज्यस्य पोषणनीतिं निर्मातुं निर्दिष्ट। सोमवासरे सायङ्काले स्वास्थ्यविभागस्य वरिष्ठैः अधिकारिभिः सह आयोजिते उपवेशने मुख्यमन्त्रिणा उक्तं यत् ‘फिट हिमाचलम्’ (स्वस्थ-हिमाचलम्) इति लक्ष्यं प्राप्तुं जनान् पोषणयुक्त-भोजनस्य महत्त्वं प्रति जागरूकं करणं अत्यन्तम् आवश्यकम् अस्ति।

 

अस्मिन् विषये देशस्य प्रथमं राज्यं भवितुं शक्नोति हिमाचलप्रदेश:

सर्वकारस्य विश्वास: अस्ति यत् हिमाचलप्रदेशः व्यापकां पोषणनीतिं सज्जीकर्तुं देशस्य प्रथमं राज्यं भवितुं गच्छति। मुख्यमन्त्रिणा उक्तं यत् उत्तमस्वास्थ्याय केवलं चिकित्सा एव न, अपितु उचितं खानपानं पोषणं चापि अनिवार्यं वर्तते। एतदेव विचिन्त्य सर्वकारः पोषणनीतिं अन्तिमरूपं दातुं संलग्णः अस्ति।

रुग्णानां सम्पूर्णं विवरणं ‘अङ्कीकृतं भविष्यति

उपवेशनस्य अन्तराले मुख्यमन्त्रिणा स्वास्थ्यसेवासु अङ्कीकरणं (Digitization) तीव्रं कर्तुं निर्देशाः दत्ताः। तेन उक्तं यत् रुग्णानां सम्पूर्णं विवरणं (Data) अन्तर्जालपुटे (Online) उपलब्धं कारयितव्यं, येन जनेभ्यः पञ्जीकरणाय, परीक्षण-प्रतिवेदनेभ्यः (Reports) अन्य-प्रपत्रेभ्य: च चिकित्सालयेषु कष्टं सोढव्यं न भवेत्। अनेन स्वास्थ्यसेवाः पूर्वमपेक्षया सरलाः प्रभाविन्यः च भविष्यन्ति।

आईजीएमसी-चिकित्सालयात् आरप्स्यते ‘पायलट-परियोजना’

मुख्यमन्त्रिणा इन्दिरागान्धी-आयुर्विज्ञान-महाविद्यालये चिकित्सालये च (IGMC) परीक्षण-प्रकल्पत्वेन (Pilot Project) पैथोलॉजी, रेडियोलॉजी, माइकोलॉजी, बायो-केमिस्ट्री तथा फार्मेसी विभागानां सम्पूर्णं विवरणं अङ्कीकर्तुं निर्देशाः दत्ताः। अस्य कृते पर्याप्त-कर्मचारिणां प्रदाने अपि आश्वासनं दत्तम्। सर्वकारस्य योजना अस्ति यत् पश्चात् एषा व्यवस्था ‘आईजीएमसी’ इत्यस्य सर्वेषु विभागेषु राज्यस्य अन्य-आयुर्विज्ञान-महाविद्यालयेषु च विस्तारयिष्यते।

 

स्वास्थ्यसुविधासु ३००० कोटि-रूप्यकाणि व्ययिष्यति सर्वकारः

मुख्यमन्त्रिणा उक्तं यत् प्रदेशवासिभ्यः विश्वस्तरीयाः स्वास्थ्यसुविधाः दातुं सर्वकारः कटिबद्धः अस्ति। स्वास्थ्य-व्यवस्थां सुदृढीकर्तुं अत्याधुनिक-यन्त्राणां उपकरणेषु च प्रायः ३००० कोटि-रूप्यकाणां व्यय-योजना निर्मिता अस्ति। एतदतिरिच्य त्रिषु आयुर्विज्ञान-महाविद्यालयेषु स्वचालित-प्रयोगशालानां (Automatic Labs) स्थापनाय ७५ कोटि-रूप्यकाणि स्वीकृतानि। सर्वकारः आयुर्विज्ञान-महाविद्यालयेषु ‘सीनियर रेजिडेंट’ वैद्यानां स्थानानि द्विगुणानि कर्तुं कार्यं करोति। मुख्यमन्त्रिणा उक्तं यत् चिकित्सालयानां उत्तम-सञ्चालने रुग्णानां गुणात्मक-चिकित्सायां च एतेषां वैद्यानां प्रमुखा भूमिका भवति।

You Might Also Like

HP PANCHAYAT ELECTION -जिलापरिषदः सङ्घर्षः, अधुना प्रतिष्ठायाः विषयः सञ्जातः

चिट्टा-विक्रयिणः अधिकारिणः कर्मचारिणः च भविष्यन्ति पदच्युताः, सेवनकर्तृणां भविष्यति अन्वेषणं विभागीय-सचिवेभ्य: प्रदत्ता सूची 

विकसितभारत-जी-राम-योजनायाः हिमाचलप्रदेशे प्रवर्तनम्

शिमला-: हिमाचलप्रदेशोच्चन्यायालयेन शास्त्री-अध्यापकानां नियुक्तौ अन्तरिम-प्रतिबन्धः आरोपितः

हिमाचलप्रदेश-उच्चन्यायालयेन 2023 तमवर्षस्य चयनप्रक्रिया-अन्तर्गतं बी.एड. (B.Ed.) अभ्यर्थिनां नियुक्तौ प्रतिबन्धः स्थापितः

TAGGED: him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, Himsanskritam, Himsanskritnews, HP NEWS, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अभी अभी, हिमाचल कांग्रेस, हिमाचल समाचार, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP PANCHAYAT ELECTION -जिलापरिषदः सङ्घर्षः, अधुना प्रतिष्ठायाः विषयः सञ्जातः
Next Article राष्ट्रिय-शिक्षा-नीत्याः अन्तर्गतं कौशल-शिक्षायाः सुदृढीकरणस्य आवश्यकता: शिक्षामन्त्री धर्मेन्द्र प्रधानः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?