HP News – राज्यस्य पंचायतानां कृते ६८.६५ कोटि-रूप्यकाणां विनियोगः
हिमसंस्कृतवार्ता:- शिमला।
पञ्चदश- वित्तायोगस्य अन्तर्गतं राज्यस्य पंचायती- राज- विभागाय अनटाइड-निधेः द्वितीयं अन्तिमं च राशिभागं ६८.६५कोटि-रूप्यकाणि प्राप्तानि। टाइड-निधेः अन्तर्गतं १०२ कोटि- रूप्यकाणां द्वितीयांशम् अद्यापि आगन्तव्यम् अस्ति।
अतः प्राप्ता एषा अनटाइड-निधेः राशि: पंचायतानां निर्वाचित-प्रतिनिधीनां पदच्युत्यनन्तरम् अपि प्रशासकैः पूर्व-प्रस्तावित-योजनासु व्ययितुं शक्यते। अनेन पंचायतस्तरे विकासकार्याणां गतिः वर्धिष्यते, स्थगित-कार्याणि च पूर्णानि भविष्यन्ति।
अनटाइड-निधेः व्यय-क्षेत्राणि
स्थानीय-निकायानां प्राप्तराशौ- टाइडनिधिः स्वच्छता, पेयजल-व्यवस्था इत्यादिषु निर्दिष्टकार्येषु एव व्ययितव्यं भविष्यति।
अनटाइडनिधिः पंचायत-विकास-कार्येषु, यथा पदमार्ग-निर्माणेषु, ग्राम- स्तरीय- आधारभूत- सुविधासु अन्ये विकास-उपक्रमेषु च उपयुज्यते।
३५२२ पंचायतेषु प्रशासकाः नियुक्ताः
राज्ये केलाङ्गक्षेत्रस्य ३२, पाङ्गीक्षेत्रस्य १९, कुल्लूक्षेत्रस्य च ४ पंचायतेषु निर्वाचित-प्रतिनिधीनां कार्यकालः अद्यापि अवशिष्टः अस्ति, ते एव कार्यभारं वहन्ति। अन्येषु ३५२२ पंचायतेषु खण्ड- विकास- अधिकारिण: (BDO) अध्यक्षतायां प्रशासकीयसमितयः सङ्घटिता:। पंचायत-समितिषु जिला-परिषदत्सु च मुख्य-कार्यकारी-अधिकारिणां अध्यक्षतायां प्रशासकीय-समितिभ्यः उत्तरदायित्वं समर्पितम्। एतासां समितीनां वित्तीय-अधिकाराः प्रदत्ताः सन्ति, येन पूर्व-स्वीकृत-योजनासु निधेः विनियोगः कर्तुं शक्यते। अनेन विनियोगेन ग्राम- विकासकार्येषु त्वरिता प्रगति: अपेक्ष्यते।
