By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )-डा० विमलेशझा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )-डा० विमलेशझा
राष्ट्रीयवार्ताःदिवसविशेषःधर्मसंस्कृतिःबिहारवार्ताः

प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )-डा० विमलेशझा

डॉ.अमनदीप शर्मा
Last updated: 2025/10/26 at 6:52 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
6 Min Read
SHARE

प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )

प्रतिहारषष्ठीपूजा भारतस्य अतिप्राचीनं, पवित्रं च पर्व अस्ति। एतत् पर्व विशेषतः पूर्वभारते, विशेषतः बिहार-झारखण्ड-उत्तरप्रदेश-मिथिलाञ्चलप्रदेशेषु च अतीव श्रद्धया आचर्यते। अस्मिन् पर्वणि सूर्यदेवस्य उपासना भवति। प्रतिहारषष्ठीपूजाया: आरम्भः वेदकाले एव अभवत् इति विद्वांसः मन्यन्ते। ऋग्वेदे अपि सूर्योपासनाविषये अनेके मन्त्राः दृश्यन्ते । प्राचीनकाले मनुष्यः सूर्यं जीवनस्य आधारं मन्यते स्म । सूर्यः प्रकाशं, ऊष्मां, आरोग्यम्, ऊर्जां च ददाति। एतस्मात् कारणात् एतस्य पूजा अनिवार्या भवति । इतिहासे अपि कथा अस्ति यत् यदा श्रीरामः सीतया सह अयोध्यां प्रत्यागतवान् तदा सीतामाता प्रथमं सूर्यदेवं अर्चयत्। तस्मात् इदं पर्व त्रेतायुगात् आरभ्य प्रचलितम् इति विद्वद्भि: कथ्यते। अन्यस्यां महाभारतकथायां द्रौपदी अपि सूर्योपासना कृतवती आसीत् । अतः अत्रेदं वक्तुं शक्नुमो यत् प्रतिहारषष्ठीपूजा केवलं धार्मिकी नास्ति, अपितु ऐतिहासिकी, पौराणिकी, सामाजिकी , सांस्कृतिकी च महत्तां धारयति।
एतत् पर्व कार्तिकमासस्य शुक्लपक्षस्य षष्ठीतिथौ आचर्यते। दीपावलिपर्वण: षडदिनानन्तरं प्रतिहारषष्ठीपूजा भवति । अपि च केचित् जनाः चैत्रमासे अपि षष्ठीपूजां कुर्वन्ति, सा ‘चैत्रछठपूजा’ इति कथ्यते। एतत् पर्व चतुर्दिवसानां कृते आचर्यते । प्रथमदिवसे व्रतिनः जना: मानसिकसंकल्पं स्वीकृत्य नदीषु तडागेषु कूपेषु वा स्नानं कृत्वा शुद्धवस्त्राणि धारयन्ति। ते गृहं स्वच्छं कुर्वन्ति, पवित्रं निरामिषभोजनं च पचन्ति । अयं दिवस: “नहायखाय” इतिरूपेण ज्ञायते। द्वितीयदिवसे ते सर्वे अर्चका: सम्पूर्णदिनं व्रतं कृत्वा सायंकाले सूर्यास्तसमये भगवन्तं भास्करं सम्पूज्य एकभुक्तरूपेण शर्करायुक्तपायसफलादिनी गृह्णन्ति । तदनन्तरं सर्वे भक्ता: अपि प्रसादं स्वीकुर्वन्ति। अयं दिवस: “खरना” इति नाम्ना ज्ञायते । तृतीयदिवसे सर्वे जना: स्वस्वगृहे प्रसादनिर्माणं कुर्वन्ति । प्रसादे अपूप(ठेकुआ), तण्डुलपिष्टमोदकादीनां निर्माणं क्रियते। अपि च शाकफलमिष्टान्नादीनि वस्तूनि वंशनिर्मितपात्रेषु ताम्ररजतपात्रेषु वा सज्जीकृत्य वंशपेटिकायां स्थापयित्वा नवी नवस्त्रेण बद्ध्वा स्वसिरसां उपरि स्वीकृत्य भक्ताः आराधनायाः कृते सन्ध्याकाले सन्ध्याकालीनार्घ्यदानावसरे नदीतटस्य तडागतटस्य कृते वा गच्छन्ति। स्त्रिय: पुरुषाश्च दीपं, पुष्पं, फलानि, नारिकेलं च नद्यातीरे स्थापयन्ति ।अत्र सूर्यास्तसमये सूर्यदेवाय प्रथमम् अर्घ्यं दीयते। सायंकाले ते अस्ताचलगामिसूर्यदेवस्य गीतानि, भजनानि च गायन्ति। सर्वे जनाः भगवत: भावपूर्णं दर्शनं कुर्वन्ति। तत्र व्रतिन: जले स्थित्वा सूर्यदेवं सम्पूज्य सर्वाणि प्रसादवस्तूनि समर्पयन्ति । व्रतिन: सर्वाणि वंशडल्लकानि ताम्ररजतपात्राणि वा भगवत: भास्करस्य सम्मुखे अर्पयित्वा पुनः सर्वाणि प्रसादवस्तूनि नीत्वा गृहं प्रति आगच्छन्ति । पुनः अन्तिमचतुर्थदिवसे प्रात:कालीनार्घ्यदानावसरे व्रतिन: भक्ताश्च ब्रह्ममुहुर्ते सर्वाणि पूजाप्रसादवस्तूनि स्वीकृत्य तटेषु गच्छन्ति । तत्र आदित्यदेवस्य कथाश्रवणपूर्वकं पंचोपचारपूजनं कुर्वन्ति। प्रातः सूर्योदयसमये द्वितीयम् अर्घ्यं दीयते। व्रतिन: उदयमानस्य सूर्यस्य दर्शनं कृत्वा प्रार्थनां कुर्वन्ति ।
सर्वाणि वस्तूनि समर्प्य व्रतस्य समापन कुर्वन्ति । अत्र केचन भक्ता: सायंकालत: प्रात:कालं यावत् तटेषु एव स्थित्वा प्रात:काले एव गृहं प्रति आगच्छन्ति । अत्रेदं ध्यातव्यं यत् द्वितीयदिवसस्य सायंकाले व्रतिन: यत् किंचित् प्रसादं स्वीकृतवन्त: तदनन्तरं चतुर्थदिने एव व्रतस्य समापनानन्तरम् पारणं कर्तुं शक्नुवन्ति। अस्मिन् पर्वणि प्रत्येकं दिवसस्य विशिष्टं धार्मिकं महत्त्वं अस्ति।
इयं पूजा केवलं धार्मिकी नास्ति, अपितु सामाजिकस्य एकतायाः प्रतीकः अपि अस्ति। अस्मिन् पर्वणि स्त्रिय: पुरुषाः, बालकाः, वृद्धाः च समानभावेन सहभागिनो भवन्ति। अस्मिन् जातिभेदो, वर्गभेदो, वर्णभेदो च न दृश्यते। सर्वे जनाः एकत्र गत्वा जलतीरे गीतं गायन्ति, आरात्रिकं कुर्वन्ति, आनंदिता: भवन्ति।
ग्रामेषु, नगरेषु,मार्गेषु, नद्याः तीरेषु च सर्वत्र स्वच्छता दृश्यते। जनेषु परस्परं भ्रातृभावो दृश्यते । कस्यचित् जनस्य गृहे यदि कापि समस्या भवति,तर्हि बहव: जना: समाधानाय अग्रे आगच्छन्ति । इत्थम् इदं पर्व सामूहिकभक्तेः परिचायकम् अस्ति। आध्यात्मिकदृष्ट्या अपि इदं पर्वं महत्त्वपूर्णं वर्तते।
सूर्यः ‘प्रत्यक्षदेवता’ अस्ति इति वेदेषु वर्णित: विद्यते । सूर्यस्य उपासना आरोग्यं, तेजः, बलं च ददाति। सूर्यः केवलं भौतिकप्रकाशस्य एव स्रोतः नास्ति, अपितु आध्यात्मिकप्रकाशस्य अपि स्रोत: अस्ति। प्रतिहारषष्ठीपूजायां उपवाससंयमशुद्धभावादय: आवश्यका: भवन्ति।
व्रतिनो जना: निराहारा: निर्जलाश्च अहोरात्रं तिष्ठन्ति। एतत् पर्व तपसः रूपं भवति। एतस्मात् शरीरशुद्धिः, मनःशुद्धिः च भवति। उपासका: आत्मानं प्रकृतेः समीपं अनुभवन्ति। अस्मिन् पर्वणि वयं प्रकृतिं प्रति कृतज्ञतां प्रदर्शयाम: यतो हि अस्यां पूजायां सर्वे मानवा: नदी:, तडागान् , सरांसि ,मार्गान् च स्वच्छं कुर्वन्ति। अपि च जनाः नद्याः तीरे दीपं प्रज्वालयन्ति, पुष्पाणि,फलानि च अर्पयन्ति । अतः इदं पर्व पर्यावरणसंरक्षणाय अपि आवश्यकं वर्तते।
वैज्ञानिकदृष्ट्या अपि सूर्योपासना उपयोगिनी भवति। सूर्यकिरणाः शरीरस्य कृते “विटामिन्-डी” इत्यस्य निर्माणे सहायकाः भवन्ति। प्रातःकाले सूर्यस्नानं स्वास्थ्याय हितकरं भवति। उपवासेन अपि शरीरं स्वस्थं भवति। प्राचीनकालवत् आधुनिककाले अपि प्रतिहारषष्ठीपूजा समानश्रद्धया आचर्यते। न केवलं बिहार-उत्तरप्रदेशयोः , अपितु सम्पूर्णे भारतदेशे तथा विदेशेषु अपि प्रवासिभारतीयैः इदं पर्व आचर्यते। यद्यपि आधुनिकता, प्रौद्योगिकी, द्रुतजीवनशैली च आगता, तथापि एतत् पर्व प्रति श्रद्धायां न्यूनतां नागच्छत् । सम्प्रति नगरेषु कृत्रिमतडागानां निर्माणं कृत्वा सूर्योपासनायां जना: मग्नाः भवन्ति।
एतस्यां पूजायां स्त्रीणां भूमिका अत्यन्तं महत्त्वपूर्णा भवति । गृहलक्ष्म्यः एव एतत् व्रतम् आचरन्ति। ताः सर्वकार्याणि स्वहस्तेन कुर्वन्ति – स्वयम् प्रसादं पचन्ति ।
एतस्मिन् पर्वणि स्त्रियः विशिष्टानि भक्तिगीतानि गायन्ति। एतानि गीतानि मैथिलीभोजपूरीमगहीभाषासु च रच्यन्ते। गीतैः सम्पूर्णवातावरणं भक्तिमयं भवति।
इदं पर्व स्त्रीशक्तेः, मातृभावस्य च उत्सवः इति कथ्यते। व्रतसमये सर्वे जनाः अहिंसां, शौचं, सत्यं, संयमादीनां च पालनं कुर्वन्ति । प्रतिहारषष्ठीपूजायां मनसा वाचा कर्मणा च पूर्णसात्त्विकता अनिवार्या भवति। भारतीयसंस्कृतसाहित्ये ‘सूर्याष्टकम्’, ‘आदित्यहृदयम्’ इत्यादीनि स्तोत्राणि सूर्योपासनाया: उदाहरणानि सन्ति ।
प्रतिहारषष्ठीपूजा न केवलं एकं धार्मिकम् अनुष्ठानम् अस्ति, अपितु एतत् जीवनदर्शनस्य एकं पवित्रम् अंगं वर्तते। प्रतिहारषष्ठीपूजया वयं सत्य-संयम- स्वच्छता-पर्यावरणरक्षा-सामूहिकतादीनां च शिक्षां प्राप्नुम:। अतः अस्माभिः सर्वैः एतस्य पर्वण: तत्त्वं ज्ञात्वा, श्रद्धया, स्वच्छतया, प्रेम्णा च तस्य आचरणं कर्तव्यम्। अत्र वयं वक्तुं शक्नुमो यत् भगवान् भास्कर: सर्वेभ्यो शुभफलदायको भवतु इत्यस्ति मे मंगलकामना। अन्ते च-जपाकुसुम संकाशं काश्यपेयं महाद्युतिम्।। ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्”। इत्यलम् ।।

डा० विमलेश झा
डीएवी पब्लिकस्कूल , बरारी,भागलपुर,बिहार

You Might Also Like

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

विदेशमन्त्री डा. एस्. जयश‌ङ्करः फ्रान्स-देशस्य राष्ट्रपतिना इमेनुएल मैक्रों इत्यनेन सह मिलितवान्

TAGGED: छठ पूजा, प्रतिहारषष्ठी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article *पं. प्रताप नारायण मिश्र युवा साहित्यिकपुरस्कारः – 2025 इत्यनेन सम्मानेन विभूषिता विदूषी डा. दीपिकादीक्षितमहोदया*
Next Article कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणकार्यशालायाः सफलसमापनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?