हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्
हिमसंस्कृतवार्ता: – शिमला। विपक्षनेता जयरामठाकुरः हिमाचलप्रदेशस्य वित्तीयस्थितिं विषयं स्वीकृत्य नवदेहल्यां केन्द्रीयवित्तमन्त्रिणा निर्मलासीतारमण महोदयया सह मिलितवान्। अस्मिन् अवसरे सः ‘राजस्वहानि-अनुदानस्य’ (RDG) समाप्त्या उत्पन्नां स्थितिं केन्द्रात् प्राप्यमाणां वित्तीयसहायतां च प्रमुखतया चर्चितवान्। सः उदारवित्तीयसाहाय्यार्थं प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे कार्यं कुर्वते केन्द्रसर्वकाराय आभारं प्रकटितवान्।नवदेहल्यां मिलनानन्तरं शिमलातः प्रसारिते स्वकीये निवेदने विपक्षनेता राज्यसर्वकारस्य कार्यप्रणाल्यां प्रश्नान् उत्थापितवान्। सः अवदत् यत् मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खू महोदयस्य नेतृत्वे सम्पूर्णं मन्त्रिमण्डलं नवदेहलीं प्राप्तवत्, परन्तु ते न तु प्रधानमन्त्रिणा सह मिलितवन्तः न च वित्तमन्त्रिणा सह। सः आरोपं कृतवान् यत् अस्मिन् काले सर्वे मन्त्रिणः स्व-स्व-नेतृणां मेलने राजनैतिक-समीकरणानां व्यवस्थापने च व्यस्ताः आसन्। सः अवदत् यत् हिमाचलस्य यदि कापि सहायता भविष्यति, तर्हि सा केन्द्रसर्वकारस्य, प्रधानमन्त्रिणः वित्तमन्त्रिणः च माध्यमेन एव भविष्यति।
सः विस्मयं प्रकटितवान् यत् प्रधानमन्त्रिणा वित्तमन्त्रिणा च सह मिलितुं केनापि प्रयासः न कृतः। सः आरोपं कृतवान् यत् एतत् प्रमाणं वर्तते यत् काङ्ग्रेस-नेतारः केवलं राजनीतिं कर्तुं इच्छन्ति, हिमाचलस्य हितानां नाम्नि च ‘नक्रेः अश्रृणि’ (घड़ियाली आँसू) स्रावयन्ति। सः मुख्यमन्त्रिणं प्रति परामर्शं दत्तवान् यत् ‘हिमाचल भवनं’ सदनं च सदृशाणां राज्यप्रतिष्ठायाः प्रतीकानां प्रयोगः षड्यन्त्रार्थं न करणीयः। सः अवदत् यत् यदा तः केन्द्रे भाजपा-सर्वकारः अस्ति, तदा तः प्रदेशाय ‘विशेषराज्यस्य स्थानम्’ इत्यनेन सह उदारा वित्तीयसहायता च मिलिता अस्ति। विशेषराज्यस्य कारणेन केन्द्रपोषितासु १९१ योजनासु प्रदेशस्य सहभागिता केवलं १० प्रतिशतं भवति, अवशिष्टं ९० प्रतिशतं व्ययं केन्द्रसर्वकारः एव वहति।
अस्मिन् मासे केन्द्रात् ३,००० कोटिरूप्यकाणां प्रकल्पाः लब्धाः
जयरामठाकुरः अवदत् यत् हिमाचलप्रदेशाय बाह्यसहायताप्राप्त-परियोजनानां (EAP) माध्यमेन केन्द्रेण ३,००० कोटिरूप्यकाणां साहाय्यं कृतम् अस्ति।
१. जायका-२ (JICA 2): स्वास्थ्यसुविधानां सुदृढीकरणाय १,६१७ कोटिरूप्यकाणां परियोजना स्वीकृता, यस्यां केन्द्रेण १,१६५ कोटिरूप्यकाणि वहिष्यन्ते। अनेन ५ चिकित्सा-महाविद्यालयानां ८६ स्वास्थ्यसंस्थानां च व्यवस्था परिष्करिष्यति।
२. विश्वबैङ्क-परियोजना: आपदा-पुनर्निर्माणाय विश्वबैङ्क-पक्षतः १,९९२ कोटिरूप्यकाणां परियोजना स्वीकृता, यस्यां केन्द्रसर्वकारः १,७९२ कोटिरूप्यकाणां भुगतानं करिष्यति।
हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
