शिक्षा-मन्त्रिणा धर्मेंद्र-प्रधानेन ‘टीचर ऐप 2.0’ इत्यस्य शुभारम्भः कृतः
हिमसंस्कृतवार्ता। नवदिल्ल्यां शिक्षामन्त्री धर्मेंद्र प्रधानः ‘भारती एयरटेल’ तथा ‘सी.के. 12 फाउंडेशन’ इत्यनयोः सहयोगेन निर्मितस्य, कृत्रिम-बुद्धि (AI) चालितस्य ‘टीचर ऐप 2.0’ इत्यस्य उद्घाटनं कृतवान्। कार्यक्रमं सम्बोधयन् श्री प्रधानः अवदत् यत् एषः ऐप-प्रविधिः विद्यालयीयशिक्षकान् सशक्तिकर्तुं तथा तेभ्यः सहायतां प्रदातुं कृत्रिम-बुद्धि-आधारितः एकः ‘प्रौद्योगिकी-सहयोगी’ अस्ति।
तेन उक्तं यत् एतत् पटलं शिक्षणप्रक्रियां अधिकाधिकं आकर्षिकां उत्पादिकां च कर्तुं शिक्षकेभ्यः विविधानि उपकरणानि, पाठ्यसामग्रीं, ‘डैशबोर्ड’ सदृशाः सुविधाः च प्रदास्यति। श्री प्रधानः न्यगादीत् यत् सर्वकारः शिक्षाक्षेत्रे एआई (AI) इत्यस्य प्रयोगं प्रवर्धयितुं तीव्रगत्या कार्यं कुर्वन् अस्ति।अस्य ऐप-तन्त्रस्य शुभारम्भः देशे प्रचलन्त्यां एआई-क्रान्तौ गतिं प्रदास्यति। सः अवदत् यत् अनेन अधिगमस्य स्तरे परिष्कारं भवितुं शक्नोति, छात्राणां सहभागिता वर्धेत तथा च शिक्षायां ‘वैयक्तिकीकरणम्’ (Personalization) प्रोत्साहनं प्राप्स्यति।
श्री प्रधानः सहयोगी-संस्थाः ‘देशी-भाषा-शिक्षण-प्रतिमानानाम्’ (Native Language Learning Models) उपयोगं कर्तुं तथा च अधिकाधिकं भारतीयभाषासु प्रशिक्षण-साधनानि उपलब्धं कारयितुम् आग्रहं कृतवान्।
