*पं. प्रताप नारायण मिश्र युवा साहित्यिकपुरस्कारः – 2025 इत्यनेन सम्मानेन विभूषिता विदूषी डा. दीपिकादीक्षितमहोदया*
हिमसंस्कृतवार्ता
* केन्द्रीयसंस्कृतविश्वविद्यालयस्य (मुख्यालयस्य) भारतीयज्ञानप्रणालीप्रकोष्ठे (IKS) सहायकाचार्यापदे (हिन्दुअध्ययनम्) संस्थिता डा दीपिका दीक्षितमहोदया २०२५ वर्षस्य कृते प्रतिष्ठितेन “पं. प्रतापनारायणमिश्रयुवासाहित्यपुरस्कारेण” सम्मान्यते इति उद्घोषिता जाता।
विगतदशकत्रयात् कथा-साहित्यम्, काव्यम्, पत्रकारिता, बालसाहित्यम्, संस्कृतभाषा, अन्यभारतीयभाषाः चेत्यादिषु क्षेत्रेषु ये उत्कृष्टं योगदानं दत्तवन्तः तादृग्भ्यः युवलेखकेभ्यः अयं पुरस्कारः प्रदीयते।
डॉ. दीपिका दीक्षितः न केवलं प्रतिभाशालिनी शैक्षणिकी शोधकर्त्री चास्ति, अपितु प्रख्यातस्य संस्कृतस्य ई-शोधपत्रिकायाः जाह्नवी इत्यस्याः सम्पादिका अप्यस्ति। तदुपरि सा *संस्कृतान्तर्वीक्षायाः तथा वेबिनारश्रृङ्खला – ०६* इत्यस्य मुख्यसमन्वयिका अपि अस्ति । तस्याः नेतृत्वे “जाह्नवी” पत्रिका राष्ट्रिय-अन्ताराष्ट्रीय-स्तरयोः सुदृढतया सुविदिता जाता ।
उल्लेखनीयं यत्, डॉ. दीक्षितवर्यया कतिपयदिनेभ्यः पूर्वं केन्द्रीयसंस्कृतविश्वविद्यालयस्य *अष्टदशीपरियोजनायाः* अन्तर्गतं दशलक्षरूप्यकाणां महत्त्वपूर्णसंशोधनपरियोजनायै (प्रधानान्वेषकरूपेण) अनुमोदनं जातम्, या परियोजना “पञ्चतन्त्रस्य” अध्ययनस्य तान्त्रिकप्रस्तुत्याः चोपरि आधारितास्ति।
तस्याः इयम् उपलब्धिर्न केवलं संस्कृतसाहित्यस्य अनुसन्धानजगतश्च कृते गौरवस्य विषयः, अपितु विश्वविद्यालयपरिवारस्य, संस्कृतान्तर्वीक्षा-जाह्नवी-समूहस्य च प्रेरणादायका उपलब्धिरस्ति ।
संस्कृतान्तर्वीक्षायाः, वेबिनारश्रृङ्खला-०६ इत्यस्याः तथा जाह्नवी संस्कृत ई-शोधपत्रिकापरिवारस्य कृते परमहर्षस्य वार्ता एषा। अतो डॉ. दीपिकादीक्षितायै सर्वेऽपि अभिनन्दनानि शुभकामनाश्च विज्ञापितवन्तः।

