By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *पं. प्रताप नारायण मिश्र युवा साहित्यिकपुरस्कारः – 2025 इत्यनेन सम्मानेन विभूषिता विदूषी डा. दीपिकादीक्षितमहोदया*
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *पं. प्रताप नारायण मिश्र युवा साहित्यिकपुरस्कारः – 2025 इत्यनेन सम्मानेन विभूषिता विदूषी डा. दीपिकादीक्षितमहोदया*
संस्कृतगतिविधयः

*पं. प्रताप नारायण मिश्र युवा साहित्यिकपुरस्कारः – 2025 इत्यनेन सम्मानेन विभूषिता विदूषी डा. दीपिकादीक्षितमहोदया*

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/10/25 at 10:30 PM
डॉ.निशिकान्तः पाण्डेयः
Share
1 Min Read
SHARE

 

 

 

*पं. प्रताप नारायण मिश्र युवा साहित्यिकपुरस्कारः – 2025 इत्यनेन सम्मानेन विभूषिता विदूषी डा. दीपिकादीक्षितमहोदया*

 

हिमसंस्कृतवार्ता

 

* केन्द्रीयसंस्कृतविश्वविद्यालयस्य (मुख्यालयस्य) भारतीयज्ञानप्रणालीप्रकोष्ठे (IKS) सहायकाचार्यापदे (हिन्दुअध्ययनम्) संस्थिता डा दीपिका दीक्षितमहोदया २०२५ वर्षस्य कृते प्रतिष्ठितेन “पं. प्रतापनारायणमिश्रयुवासाहित्यपुरस्कारेण” सम्मान्यते इति उद्घोषिता जाता।

 

विगतदशकत्रयात् कथा-साहित्यम्, काव्यम्, पत्रकारिता, बालसाहित्यम्, संस्कृतभाषा, अन्यभारतीयभाषाः चेत्यादिषु क्षेत्रेषु ये उत्कृष्टं योगदानं दत्तवन्तः तादृग्भ्यः युवलेखकेभ्यः अयं पुरस्कारः प्रदीयते।

 

डॉ. दीपिका दीक्षितः न केवलं प्रतिभाशालिनी शैक्षणिकी शोधकर्त्री चास्ति, अपितु प्रख्यातस्य संस्कृतस्य ई-शोधपत्रिकायाः जाह्नवी इत्यस्याः सम्पादिका अप्यस्ति। तदुपरि सा *संस्कृतान्तर्वीक्षायाः तथा वेबिनारश्रृङ्खला – ०६* इत्यस्य मुख्यसमन्वयिका अपि अस्ति । तस्याः नेतृत्वे “जाह्नवी” पत्रिका राष्ट्रिय-अन्ताराष्ट्रीय-स्तरयोः सुदृढतया सुविदिता जाता ।

 

उल्लेखनीयं यत्, डॉ. दीक्षितवर्यया कतिपयदिनेभ्यः पूर्वं केन्द्रीयसंस्कृतविश्वविद्यालयस्य *अष्टदशीपरियोजनायाः* अन्तर्गतं दशलक्षरूप्यकाणां महत्त्वपूर्णसंशोधनपरियोजनायै (प्रधानान्वेषकरूपेण) अनुमोदनं जातम्, या परियोजना “पञ्चतन्त्रस्य” अध्ययनस्य तान्त्रिकप्रस्तुत्याः चोपरि आधारितास्ति।

 

तस्याः इयम् उपलब्धिर्न केवलं संस्कृतसाहित्यस्य अनुसन्धानजगतश्च कृते गौरवस्य विषयः, अपितु विश्वविद्यालयपरिवारस्य, संस्कृतान्तर्वीक्षा-जाह्नवी-समूहस्य च प्रेरणादायका उपलब्धिरस्ति ।

 

संस्कृतान्तर्वीक्षायाः, वेबिनारश्रृङ्खला-०६ इत्यस्याः तथा जाह्नवी संस्कृत ई-शोधपत्रिकापरिवारस्य कृते परमहर्षस्य वार्ता एषा। अतो डॉ. दीपिकादीक्षितायै सर्वेऽपि अभिनन्दनानि शुभकामनाश्च विज्ञापितवन्तः।

You Might Also Like

प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति – प्रधानमन्त्री नरेन्द्रमोदी

मुंबई-नगरे श्रीमन्नारायणीयपारायण-प्रतियोगिता तथा प्रश्नोत्तरी सफलतया सम्पन्ना

आम आदमी पार्टी दलस्य आन्तरिककलहः-: राघव चड्ढा उपनेतृपदात् निष्कासितः

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयेन भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति अखिलभारतीयशोधसम्मेलनं परिपालितम्

गीर-सोमनाथस्य लघुबालकेन रचितः इतिहासः ७०० श्लोकान् कण्ठस्थीकृत्य प्राप्ता ‘गीताभूषण’ उपाधिम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणवर्गस्य शुभारम्भः जातः* 
Next Article प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )-डा० विमलेशझा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?