GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्
भारतीय-स्टेट्-बैङ्क् (SBI) इत्यस्य अद्यतन-प्रतिवेदनानुसारं, चलितवित्तवर्षस्य तृतीय-त्रैमासिके देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः अङ्किता। प्रतिवेदने उक्तं यत् ३१ दिसम्बर २०२५ दिनाङ्के समाप्ते त्रैमासिके आर्थिक-गतिविधयः सुदृढाः आसन्। वैश्विक-आव्हानानां (global challenges) सत्यपि अर्थव्यवस्था स्वकीयां विकास-गतिं स्थिरां रक्षितवती इति अपि अस्मिन् सूचितम्।
प्रतिवेदने प्रतिपादितं यत् कृषि-अकृषि-क्षेत्रयोः उत्साहवर्धक-प्रवृत्तीनां कारणात् ग्रामीण-क्षेत्रेषु उपभोगः (consumption) सुदृढः वर्तते। राजकोषीय-प्रोत्साहनेन (fiscal stimulus) गत-उत्सव-कालात् नगरेषु अपि उपभोगस्य निरन्तर-वृद्धिः अङ्किता। अयं अङ्कः तादृशे समये आगतः यदा भारतं स्वस्य ‘सकल-घरेलू-उत्पादस्य’ (GDP) आधार-वर्षं २०११-१२ तः संशोध्य २०२२-२३ इति कर्तुं गच्छति। नूतना ‘जीडीपी-श्रृङ्खला’ २७ फरवरी २०२६ दिनाङ्के प्रसारिता भविष्यति।
GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
