सर्वकारः जनसामान्यं सम्मुखीभवितुं न शक्नोति, अतः पंचायतनिर्वाचनं स्थगितम् – जयरामठाकुरः
हिमसंस्कृतवार्ता: – शिमला ।
पूर्वमुख्यमन्त्री विपक्षस्य नेता च जयरामठाकुरः दिसम्बरमासस्य नियतपञ्चायतनिर्वाचनस्य निरस्तीकरणविषये उक्तवान् यत् मुख्यमन्त्री सर्वकारश्च राज्यस्य जनानां सम्मुखीकरणं कर्तुं न शक्नुवन्ति। अत एव प्राकृतिक आपद: आच्छादने पंचायतनिर्वाचने विलम्बं कुर्वन्ति। सः अवदत् यत् निर्वाचनस्य परिणामं सर्वकारः पूर्वमेव जानाति, काङ्ग्रेसस्य कृते मर्दनपराजयः निश्चितः इति। एतादृश्यां परिस्थितौ प्रथमं ते नगरनिगम-नगरपरिषद्-निकाय-निर्वाचनं परिहरन्ति स्म, अधुना पंचायत-निर्वाचनमपि स्थगितवन्तः । आपदानामधेयेन ते प्रथमं मण्डलोपायुक्तान् पत्राणि लेखितुं प्रेरितवन्तः, तत्क्षणमेव निर्वाचनं स्थगितम् । सर्वं सर्वकारेण एव निर्धारितम् आसीत् । आपदानामधेयेन सर्वकारः निर्वाचनं स्थगयति, परन्तु ईश्वरस्य दयायाः कारणात् अत्यन्तं आपदाग्रस्तान् जनान् त्यक्तवान्। सर्वकारेण स्वविफलतानां पलायनस्य स्थाने जनसामान्यं सम्मुखीकृत्य निर्धारितसमये निर्वाचनं करणीयम्।

