By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP CABINET MEETING- सीबीएसई- विद्यालयेषु १५०० शिक्षकाणां पूरणसहितं विविधानां विभागानां २२१५ पदानां कृते मन्त्रिमण्डलस्य अनुमोदनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP CABINET MEETING- सीबीएसई- विद्यालयेषु १५०० शिक्षकाणां पूरणसहितं विविधानां विभागानां २२१५ पदानां कृते मन्त्रिमण्डलस्य अनुमोदनम्
हिमाचलवार्ता

HP CABINET MEETING- सीबीएसई- विद्यालयेषु १५०० शिक्षकाणां पूरणसहितं विविधानां विभागानां २२१५ पदानां कृते मन्त्रिमण्डलस्य अनुमोदनम्

डॉ.अमनदीप शर्मा
Last updated: 2026/05/23 at 7:20 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
5 Min Read
SHARE

HP CABINET MEETING- सीबीएसई- विद्यालयेषु १५०० शिक्षकाणां पूरणसहितं विविधानां विभागानां २२१५ पदानां कृते मन्त्रिमण्डलस्य अनुमोदनम्
हिमसंस्कृतवार्ता:- शिमला। हिमाचलप्रदेशस्य सर्वकारीय- सीबीएसई- विद्यालयेषु १५०० शिक्षकाणां पूरणसहितं विविधानां विभागानां २२१५ तः अधिकानि पदानि पूरयिष्यन्ते। ‘इन्दिरागान्धी-प्रियभगिनी- महिलासम्माननिधि:’ योजनायाः अन्तर्गतं प्रतिमासं १५०० रूप्यकाणि अधुना लक्षद्वयात् (२ लाख) न्यूनायवतीभ्यः महिलाभ्यः एव प्रदास्यन्ते। पर्यटन- ऋतौ प्रदेशे आपणानि (दुकानें) २४ होराः यावत् उद्धाटिताः स्थास्यन्ति। शुक्रवासरे राज्यसचिवालये मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खुमहोदयस्य अध्यक्षतायां सञ्जातायां मन्त्रिमण्डलस्य (कैबिनेट) उपवेशने एतेषाम् अतीव प्रमुखाणां निर्णयानां अनुमोदनं जातम्। शिक्षा- रोजगार- सामाजिकसुरक्षासु च मन्त्रिमण्डलस्य विशेषमवधानम् आसीत्।
आपणानि २४ होराः यावत् उद्घाटयितुं मन्त्रिमण्डलस्य निर्णयः
प्रदेशे पञ्चायत-निर्वाचनकारणात् प्रवृत्तायाः ‘निर्वाचन- आचारसंहितायाः’ हेतोः सर्वकारेण अस्मिन् मन्त्रिमण्डलस्य उपवेशनस्य निर्णयान् विज्ञापयितुं काऽपि आधिकारिकी प्राकाश्य-वार्ता न कृता। विभागीय-अधिकारीभिः विज्ञापितं यत् मन्त्रिमण्डलेन राज्ये व्यापारिक-प्रवृत्तीनां वर्धनाय पर्यटन- आधारित- अर्थव्यवस्थायाः गत्यै च आपणानि २४ होराः यावत् उद्घाटयितुं स्वीकृतिः दत्ता। अनेन पर्यटनस्थलानां, नगरीक्षेत्राणां, सेवाक्षेत्रस्य च महती सहायता भविष्यति। होटल्-भोजनशाला-औषधालयानाम्, अन्यासाम् आवश्यकीनां सेवानां च व्यवसायिभ्यः महत् संबलं मिलिष्यति।

एताभ्यः महिलाभ्यः प्राप्स्यन्ते १५००-१५०० रूप्यकाणि
उच्चशिक्षाक्षेत्रेण सम्बन्धे एकेन प्रमुखनिर्णयेन महाविद्यालय-प्राध्यापकानां सेवानिवृत्ति-आयुः ६२ वर्षतः वर्धयित्वा ६३ वर्षं कर्तुं स्वीकृतिः विहिता। सर्वकारस्य मान्यता अस्ति यत् अनेन अनुभवीनां शिक्षकाणां सेवानां लाभः संस्थाभ्यः सुदीर्घकालं यावत् प्राप्स्यते। मन्त्रिमण्डलेन मुख्यमन्त्रिणः घोषणाम् अनुसृत्य एतादृशानां परिवाराणां महिलाभ्यः प्रतिमासं १५०० रूप्यकाणि दातुं प्रस्तावः स्वीकृतः, येषां वार्षिकी आयः लक्षद्वय- रूप्यकेभ्यः न्यूना अस्ति। एषा काङ्ग्रेस-पक्षस्य मुख्या निर्विचनप्रतिज्ञायोजना आसीत्। सर्वकारस्य पक्ष: अस्ति यत् अनेन आर्थिकरूपेण दुर्बलानां परिवाराणां महिलाभ्यः साक्षात् वित्तीय-सहायता प्राप्स्यते।
एतेषु विभागेषु पूरयिष्यन्ते पदानि, सीबीएसई- विद्यालयेषु अपि भविष्यति नियुक्तिः
मन्त्रिमण्डलेन आरक्षकविभागे लिपिकानां १२ पदानां पूरणाय अपि स्वीकृतिः दत्ता। ‘सीनियर रेजिडेंट’ चिकित्सकानां १०५ पदानां, ‘एपीआरओ’ (APRO) पदस्य चतुर्ण्णां पदानां पूरणाय च अनुमोदनं विहितम्। अपरतः, विद्यालयीय- शिक्षा- मण्डलेन सम्बद्धेषु ३०० विद्यालयेषु सीबीएसई- विद्यालयानां सदृशाः सुविधाः प्रदास्यन्ते। राज्यस्य सीबीएसई-सम्बद्धेषु सर्वकारीय-विद्यालयेषु १५०० पदानां पूरणाय अपि स्वीकृतिः प्राप्ता। ‘जेओए आईटी’ इत्यस्य ५०० पदानां तथा ‘आईटीआई’ इत्यत्र ‘क्राफ्ट इंस्ट्रक्टर’ इत्यस्य ९४ पदानां पूरणाय अपि अनुमतिः दत्ता।
एतेषां मानदेयराशिः वर्धिष्यते-
‘मिड-डे मील’ कर्मचारिणाम्, ‘एसएमसी’, ‘मल्टी टास्क’ कर्मचारिणां च मानदेये ५०० रूप्यकाणां वृद्धिं कर्तुं निर्णयः स्वीकृतः। पञ्चायत-द्वारपालानां ५०० रूप्यकाणि तथा सीवन-अध्यापिकानां मानदेये १००० रूप्यकाणां वर्धनम् अपि मन्त्रिमण्डलेन स्वीकृतम्। लोकनिर्माणविभागे ‘मल्टी टास्क’ कर्मचारिणां मानदेयं ५५०० रूप्यकेभ्यः वर्धयित्वा ६००० रूप्यकाणि कर्तुं निर्णयः जातः। मन्त्रिमण्डलेन बद्दीक्षेत्रे ‘हिम चण्डीगढ़ परियोजनायाः’ कृते अष्ट-सहस्र-बीघा (८००० बीघा) भूमिं प्रदातुम् अपि अनुमतिः दत्ता।
विद्यालयीय-शिक्षा-मण्डलस्य ३०० विद्यालयेषु सीबीएसई- सदृशाः सुविधाः
शिक्षाक्षेत्रे बृहन्तं निर्णयं स्वीकुर्वता मन्त्रिमण्डलेन हिमाचलप्रदेश- विद्यालयीय- शिक्षा- मण्डलेन सम्बद्धेषु ३०० विद्यालयेषु सीबीएसई-विद्यालयानां सदृशाः सुविधाः प्रदातुं निश्चितम्। एतेषु आधुनिक- शिक्षा- प्रणाली, स्मार्ट-कक्षाप्रकोष्ठाः, सुदृढा आधारभूत-संरचना तथा गुणात्मक- शिक्षण- व्यवस्थायाः विकासस्य योजना वर्तते।
‘मत्स्यग्रहण-स्वत्वशुल्के’ महती सान्त्वना, परागपुर-क्षेत्राय प्राप्त: ‘एसडीएम’ कार्यालय:
मत्स्यक्षेत्रेण सम्बद्धेभ्यः जनेभ्यः सान्त्वनां प्रदातुं सर्वकारेण ‘फिशिंग’ (मत्स्यग्रहणम्) कृते स्वत्व- शुल्कं ७ प्रतिशततः न्यूनीकृत्य १ प्रतिशतं कर्तुं स्वीकृतिः प्रत्ता। मुख्यमन्त्रिणा अस्य घोषणा आयव्ययकसत्रे (बजट सत्र) कृता आसीत्। मन्त्रिमण्डलेन परागपुरक्षेत्रे ‘एसडीएम’ कार्यालयस्य उद्घाटनार्थम् अपि स्वीकृतिः विहिता। अनेन क्षेत्रस्य जनेभ्यः प्रशासनिकसेवाः स्थानीयस्तरे एव उपलप्स्यन्ते, जनेभ्यः च सुदीर्घ-दूरी न चरितव्या भविष्यति।
मन्त्रिमण्डलस्य निर्णयान् निरस्तं कर्तुं भाजपादलेन निर्वाचन- आयोगे कृता उपालम्भ- पत्रिका- हर्षमहाजनः
भाजपा-पक्षस्य राज्यसभा-सांसदेन हर्षमहाजनेन निर्वाचन-आयोगात् सद्यः प्रभावतः मन्त्रिमण्डलस्य उपवेशनस्य निर्णयानां समीक्षां कर्तुं तथा निर्वाचनप्रक्रियायाः समाप्तिं यावत् एतादृशानां निर्णयानां कार्यान्वयने प्रकाशने च स्थगनं प्रदातुं अभ्यर्थना कृता। अस्मिन् विषये भाजपादलेन आयोगे उपालम्भपत्रिका प्रदत्ता। तेन उक्तं यत् भाजपा लोकतन्त्रस्य निष्पक्ष-निर्वाचन-प्रक्रियायाः च रक्षणार्थं प्रत्येकं संविधानात्मकं पदक्षेपं स्वीकरिष्यति। शुक्रवासरे निर्गते बयाने हर्षमहाजनेन कथितं यत् हिमाचलसर्वकारेण आचारसंहितायाः मध्ये मन्त्रिमण्डलस्य उपवेशनं कृत्वा लोकतान्त्रिक-मर्यादानां उल्लङ्घनं कृतम्। सम्पूर्णे प्रदेशे पञ्चायत, बीडीसी, जिलापरिषद्- निर्वाचनानां कारणात् आचारसंहिता (‘कोड ऑफ कंडक्ट’) प्रवृत्ता अस्ति। एतादृशे समये मन्त्रिमण्डलस्य उपवेशनस्य आह्वानं स्वयमेव बहून् सन्देहान् जनयति। तेन प्रोक्तं यत् मन्त्रिमण्डले एतादृशाः बहवः निर्णयाः स्वीकृताः, ये साक्षात् निर्वाचनस्य परिणामान् प्रभावितं कर्तुं शक्नुवन्ति। सर्वकारेण महिलानां प्रलोभनार्थं घोषणाः कृताः, नूतनानां पदानां सृजनं कृतं, इतः पर्यन्तं नूतन- एसडीएम-कार्यालयस्य ईएनसी- कार्यालयस्य च स्वीकृतिः दत्ता। एतत् सर्वं निर्वाचनप्रक्रियायाः मध्ये करणीयम् काङ्ग्रेस-सर्वकारस्य दुर्भावनां स्पष्टयति। तेन अङ्कितं यत् काङ्ग्रेसपक्षः तस्य नेतारश्च सर्वदा नैतिकतायाः संविधानस्य च वार्तां कुर्वन्ति, परन्तु यदा स्वस्य उपरि नियम-पालनस्य वार्ता आगच्छति तदा तेषां द्विरूपं चरित्रं (दोहरा चरित्र) सम्मुखम् आयाति। सत्तायाः दुरुपयोगं कृत्वा निर्वाचनानि प्रभावितं कर्तुम् एषः प्रयासः अतीव निन्दनीयः लोकतन्त्राय च सङ्कटपूर्णः वर्तते।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article तर्कसंग्रहकार-अन्नमभट्ट-स्मृतौ चतुश्चत्वारिंशत्तमः संस्कृत-शिक्षण-सम्भाषण-शिविरः सम्पन्नः
Next Article भारत-साइप्रस देशयोः मध्ये नवदिल्ल्याम् आतंकवादावरोधस्य नवान्वेषण-तन्त्रज्ञानयोः विषये सन्धिपत्राणां आदानप्रदानम् अभवत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?