Mandi News – 11 दिनाङ्के करसोगम् आगमिष्यति मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता: – मण्डी।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मण्डीमण्डलस्य करसोगक्षेत्रस्य दिवसव्यापी भ्रमणार्थं आगच्छति। अस्मिन् भ्रमणकाले मुख्यमन्त्री करसोगक्षेत्रस्य जनानां समक्षं विविधाः विकासात्मकाः परियोजनाः समर्पयिष्यति। मण्डीजनपदस्य उपायुक्तेन अपूर्वदेवगनेन उक्तं यत् मुख्यमन्त्री ११ अक्टोबर्-दिनाङ्के प्रातः ११ वादने करसोगक्षेत्रस्य कुन्हों -चक्रविमान-स्थले आगमिष्यति, ततः करसोगस्य संयुक्तकार्यालयभवनं प्रति प्रस्थास्यति। मुख्यमन्त्री विभिन्नविभागानाम् अन्तर्गतविकासात्मकपरियोजनानां उद्घाटनं, आधारशिलास्थापनं च करिष्यति। अस्मिन् अवसरे मुख्यमन्त्री जनसभाम् अपि सम्बोधयिष्यति, जनविषयान् सम्बोधयिष्यति च।

