कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य महाकविकालिदास-संस्कृतव्रति- राष्ट्रियपुरस्कारस्य आवेदन/नामनिर्देशनपत्राणाम् आह्वानम्
महाराष्ट्रराज्ये विद्यमानस्य कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य पक्षतः स्थानिक-प्रशासनस्य सहकार्येण प्रतिवर्षं पं. रामनारायणशर्मणः स्मृतिप्रीत्यर्थं महाकवि-कालिदास-संस्कृतव्रति-राष्ट्रिय-पुरस्कारः प्रदीयते। यैः विद्वज्जनैः संस्कृतभाषायाः संवर्धनाय, रक्षणाय प्रसारप्रचारार्थं च स्वकीयं जीवनं समर्पितम् अपि च यैः संस्कृतसंशोधनक्षेत्रे विशिष्टं कार्यं विहितं तेभ्यः यथोचितं गौरवप्रदानमिति प्रस्तुतपुरस्कारस्य प्रयोजनम्। वर्षेऽस्मिन्नपि विश्वविद्यालयस्य पक्षतः अस्य पुरस्कारस्य कृते आवेदनपत्राणि/ नामनिर्देशनानि आहूयन्ते।
अयं पुरस्कारः ज्येष्ठविद्वद्भ्यः तथा युवविद्वद्भ्यश्च दीयन्ते । ज्येष्ठविद्वत्प्रवर्गे आवेदकानां वयः अष्टचत्वारिंशत् (above age 48 yrs ) तदधिकं वा भवेत् । तथा युवप्रवर्गे आवेदकानां वयः पंचत्रिंशत् वर्षत: अष्टचत्वारिंशत्पर्यंन्तं (age from 35 to 48 yrs.) भवितुमर्हति । यैः संस्कृतक्षेत्रमभिलक्ष्य विशिष्टं कार्यं कृतमस्ति ते सर्वेऽपि स्वीयम् आवेदनपत्रं चतसृभिः प्रतिलिपिभिः सह तथा च अङ्कीयप्रतिसहितं (सॉफ्टकॉपीसहितं) 30 जून 2026 पर्यन्तं कार्यालयं प्रति प्रेषयन्तु। तथा च सन्मान्यसंस्कृतसंस्थायाः प्रमुखाः अथवा संस्कृतविद्वद्वरेण्याः अपि अस्य पुरस्कारार्थं नामनिर्देशनं कर्तुं शक्नुवन्ति ।
आवेदनपत्राणां प्रेषणाय सङ्केतस्थानम् – कुलसचिवः, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, प्रशासकीयभवनम्, मौदामार्गः, रामटेकम् – 441106, जनपदः – नागपुरम् , महाराष्ट्रम्
आवेदनप्रेषणाय अणुसंकेत: registrar@kksu.org/pro@kksu.org
