HP News – कृषकेभ्य: गोधूमसस्यस्य ७.२४ कोटिरूप्यकाणां भुक्तिः
हिमसंस्कृतवार्ता: – शिमला।
गोधूमसस्यस्य ७.२४ कोटिरूप्यकाणां भुक्तिः राज्यस्य कृषकाणां कृते मुक्ता अस्ति। गोधूमक्रयणकेन्द्रेषु कृषकाणां गोधूमसस्यं तीव्रगत्या विक्रीयते। अधुना यावत् गोधूमक्रयणकेन्द्रेषु कृषकाणां कृते २९८९.९० मेट्रिकटनं गोधूमसस्यं क्रीतम् अस्ति । राज्यस्य कृषकेभ्य: गोधूमस्य क्रयणं प्रारब्धम् अस्ति। एप्रिलमासस्य ८ दिनाङ्कात् अधुना यावत् कृषकेभ्य: २९८९.९० मेट्रिकटनं गोधूमसस्यं क्रीतम् अस्ति । राज्ये एप्रिलमासस्य ८ दिनाङ्कात् गोधूमक्रयणकेन्द्राणि उद्घाटितानि आसन्।गोधूमक्रयणकेन्द्राणां उद्घाटनानन्तरं अधुना कृषकाः स्वसस्यविक्रयणार्थं गोधूमक्रयणकेन्द्रेषु आगताः सन्ति। कृषकाः स्वगोधूमसस्यस्य विक्रयणार्थं विभागस्य पटले पञ्जीकरणं आरब्धवन्तः। विभागस्य पटले १३४८ कृषकाः पञ्जीकरणं कृतवन्तः, येषु एतावता १२९९ कृषकाणां पञ्जीकरणस्य सत्यापनम् अभवत् । एतदतिरिक्तं १,१२३ कृषकाणां गोधूमसस्यस्य विक्रयणार्थं कूटसंख्या: निर्मिताः सन्ति ।
गोधूमसस्यं राज्यनागरिकपूर्तिनिगमेन कृषकेभ्य: क्रेष्यते। विभागेन प्रदेशस्य भिन्न-भिन्न स्थानेषु केन्द्राणि उद्घाटितानि सन्ति। एतेषां विपणीनाम् माध्यमेन कृषकेभ्य: गोधूमसस्यस्य क्रयणं भविष्यति।
राज्ये कृषकाणां न्यूनतमं समर्थनमूल्यं प्रतिक्विन्टलं २४२५ रुप्यकाणि इति निर्धारितम् अस्ति। कृषकै: HPAPPP.NIC.IN पटलंगत्वा स्वसस्यस्य विवरणं पूरयित्वा स्वस्य गोधूमसस्यस्य विक्रयणार्थं पञ्जीकरणं कर्तव्यं भविष्यति। विभागस्य पटलं पञ्जीकरणार्थं उद्घाटितम् अस्ति। राज्यस्य खाद्यापूर्तिविभागस्य पटले कृषकै: ऑनलाइन पञ्जीकरणानन्तरं कृषकाणां गोधूमसस्यस्य विक्रयणस्य टोकनसङ्ख्या, तिथिः च सूचिता भविष्यति। पटले उल्लिखिततिथ्यानुसारं कृषकाः गोधूमक्रयणकेन्द्रं गत्वा टोकनसङ्ख्यासहितं स्वसस्यं विक्रेतुं शक्नुवन्ति। एकस्मिन् दूरभाषसंख्यायां केवलम् एकं पञ्जीकरणं सम्भवति।
गोधूमसस्यस्य विक्रयणस्य भुक्तिः विभागेन केवलं कृषकलेखेषु एव भविष्यति। खाद्य आपूर्तिविभागेन गोधूमक्रयणार्थं कृषकाणां पञ्जीकरणार्थं विभागेन www.hpappp.nic.in पटलस्य संकेतं सज्जीकृतम् अस्ति। गोधूमक्रयणसम्बद्धाः सर्वविधाः सूचनाः विभागस्य अस्मिन् पटले उपलभ्यन्ते । राज्यस्य कृषकविभागस्य अस्मिन् पटले कस्मिन् अपि कम्प्यूटर-केन्द्रे, कस्मिन् अपि लोक-मित्रकेन्द्रे गत्वा ततः मोबाईल-फोन-माध्यमेन पटल-मध्ये पञ्जीकरणं कर्तुं शक्यते । पटले पञ्जीकरणं कृत्वा कृषकाणां पञ्जीकरणार्थं विभागस्य पटले आधारसङ्ख्या, वित्तकोषसंख्या, सस्यभूमिविवरणं इत्यादीनि अद्यतनं कर्तव्यानि भविष्यन्ति।