By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Trainee Policy – हिमाचलप्रदेशे प्रशिक्षुनीतिः कार्यान्वितुं युनां कर्मचारिणां च मध्ये महदाक्रोशः, पुनर्विचारस्य आग्रहः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Trainee Policy – हिमाचलप्रदेशे प्रशिक्षुनीतिः कार्यान्वितुं युनां कर्मचारिणां च मध्ये महदाक्रोशः, पुनर्विचारस्य आग्रहः
हिमाचलवार्ता

HP Trainee Policy – हिमाचलप्रदेशे प्रशिक्षुनीतिः कार्यान्वितुं युनां कर्मचारिणां च मध्ये महदाक्रोशः, पुनर्विचारस्य आग्रहः

डॉ मनोज शैल
Last updated: 2025/07/20 at 9:25 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Trainee Policy – हिमाचलप्रदेशे प्रशिक्षुनीतिः कार्यान्वितुं युनां कर्मचारिणां च मध्ये महदाक्रोशः, पुनर्विचारस्य आग्रहः

कर्मचारीसङ्घटनानि स्वस्य “सुप्तावस्थां” परित्यज्य एकीकृत्य अन्यायपूर्णनीतेः विरुद्धं स्वरं उत्थापयन्तु

हिमसंस्कृतवार्ता: -। हिमाचलप्रदेशसर्वकारेण अनुबन्धनीतिं समाप्तं कृत्वा प्रशिक्षुनीतिं कार्यान्वितुं निर्णयं कृत्वा राज्यस्य अनुद्योगियुवकेषु सेवारतकर्मचारिषु च गभीरा असन्तुष्टिः वर्तते। अस्याः नूतनायाः नीतेः अन्तर्गतं द्विवर्षीयं प्रशिक्षुकालं सम्पन्नं कृत्वा अभ्यर्थिनः पुनः परीक्षायां उपस्थिताः भवेयुः येन सर्वकारीयं कार्यं प्राप्तुं शक्यते। युनः विविधाः कर्मचारीसङ्घटनानि च अस्य प्रावधानस्य विषये तीक्ष्णप्रतिक्रियाम् अददन्, “एष: निर्णय: अनुद्योगिभ्य: महान् अन्यायः” इति उक्तवन्तः ।

अस्मिन् निर्णये गम्भीरान् प्रश्नान् उत्थापयन् राज्यस्य सर्वेभ्यः क्षेत्रेभ्य: स्वराः उत्थापिताः सन्ति यत् सर्वकारस्य कार्याणां संस्थानां च समाप्त्यर्थं “षड्यंत्रं” कुर्वन्तं सर्वकारं कः एतादृशं “असत्यपरामर्शं” ददाति। राज्यस्य युनां आरोपः अस्ति यत् प्रशासनिकाधिकारिणः स्वपदं सुरक्षितं कृतवन्तः चेदपि एतया नीत्या कर्मचारिणां भविष्यं संकटग्रस्तं जातम्।

युनां कर्मचारिणां च संस्थाः स्पष्टतया वदन्ति यत् एषा नीतिः न केवलं युनां स्वप्नान् मर्दयिष्यति, अपितु सर्वकारीयक्षेत्रे अनिश्चिततां अस्थिरतां च प्रवर्धयिष्यति। तेषां मतं यत् वर्षद्वयस्य परिश्रमस्य प्रशिक्षणस्य च अनन्तरम् अपि पुनः परीक्षणस्य प्रावधानं सर्वथा अयुक्तं अन्यायपूर्णं च अस्ति।

विभिन्नाः वर्गाः हिमाचलप्रदेशसर्वकारेण अस्य निर्णयस्य तत्क्षणं पुनर्विचारं कृत्वा निरस्तं कर्तुं आग्रहं कुर्वन्ति। अपि च, एतादृशेभ्यः “असत्यपरामर्शदातृभ्यः” सावधानाः भवितुम् अपि सर्वकाराय सचेतना दत्ता अस्ति ।

अस्मिन् गम्भीरे विषये हिमाचलप्रदेशस्य सर्वेभ्यः कर्मचारीसंस्थाभ्यः अपि दृढं आह्वानं कृतम् अस्ति यत् ते स्वस्य “सुप्तावस्थातः” जागृत्य एकीकृत्य अस्याः अन्यायपूर्णनीतेः विरुद्धं स्वरं उत्थापयन्तु। यदि संस्थाः कालान्तरे ठोसपदं न गृह्णन्ति तर्हि तेषां स्वस्य अस्तित्वस्य समाप्तिः भविष्यति इति सचेतना दत्ता अस्ति ।

अयं निर्णयः हिमाचलप्रदेशस्य लक्षशः युनां भविष्ये, सर्वकारीयसेवासंरचनायां च दूरगामी नकारात्मकं प्रभावं कर्तुं शक्नोति। जनहिताय एतस्य तत्कालं संज्ञानं कृत्वा न्यायपूर्णं समाधानं अन्वेष्टुं सर्वकाराद् अनुरोधः कृतः अस्ति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, HP Trainee Policy, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ‘सैयारा’ चलचित्रं दृष्ट्वा महेशबाबू: अवदत् ‘किम् अद्भुतं चलच्चित्रं निर्मितम्, यस्मिन् कथा प्रामाणिकतया कथिता’ इति
Next Article Himachal Disaster – केन्द्रीयगृहमन्त्री अमितशाहः बहुक्षेत्रीयकेन्द्रीयदलस्य सङ्घटनस्य निर्देशं दत्तवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?