श्री नयना देवी जी – हिमाचलप्रदेशे श्रावण-अष्टमीमेलापके श्रीनैनादेवीमन्दिरे ध्वनिविस्तारयन्त्रे, ढक्का-दुन्दुभि: वादने प्रतिबन्ध:
हिमसंस्कृतवार्ता: – बिलासपुरम्।
रविवासरे निर्गतस्य वक्तव्यस्य अनुसारं २५ जुलैतः ३ अगस्तपर्यन्तं प्रचलति श्रावण-अष्टमीमेलायां श्रीनैनादेवीमदिरस्य परिसरे ध्वनिविस्तारयन्त्रस्य प्रयोगे, ढक्का-दुन्दुभि: इत्यादीनां वादने प्रतिबन्धः कृतः अस्ति। आदेशानुसारं जिलादण्डाधिकारी राहुलकुमारः मन्दिरपरिसरे संयाव:, नारिकेलं, प्रसादं च अर्पयितुं बंशस्य कण्डोलोपयोगे अपि प्रतिबन्धं कृतवान् अस्ति। सुविधां, सुरक्षां, स्वच्छतां च मनसि कृत्वा एषः निर्णयः कृतः अस्ति।
भक्तेभ्य: शान्तिं स्थापयितुम् आह्वानम्
विज्ञप्तौ उक्तं यत् मेलाकाले श्री नैनादेवीपरिसरे ध्वनिविस्तारयन्त्र- ढक्का-दुन्दुभि-इत्यादीनां ध्वनिप्रवर्धकयन्त्राणां प्रयोगे जिलादण्डाधिकारी पूर्णतया प्रतिबन्धं कृतवान् अस्ति। आवश्यकाः सार्वजनिकसन्देशाः वा घोषणाः केवलं नियन्त्रणकक्षद्वारा एव प्रसारिताः भविष्यन्ति। मेलाकाले प्रशासनेन निर्धारितानां नियमानाम् अनुसरणं कृत्वा मन्दिरपरिसरस्य शान्तिपूर्णं अनुशासितं च वातावरणं निर्वाहयितुम् सहकार्यं कुर्वन्तु इति मण्डलप्रशासनेन आह्वानं कृतम् अस्ति।
५०० गृहरक्षकाणां परिनियोजनाय निर्देशाः
जिल्लादंडाधिकारी राहुलकुमारः जनसमूहं नियन्त्रयितुं विधि-व्यवस्थां निर्वाहयितुम् जिलप्रशासनेन पर्याप्तव्यवस्था कृता इति उक्तवान्। गृहरक्षकाणां पञ्चमवाहिनी, बिलासपुरस्य मेलायां ५०० गृहरक्षकान् (महिलागृहरक्षकान् सहितम्) नियोजयितुं निर्देशः दत्तः अस्ति। मेलायां नियुक्तानां गृहरक्षकानां वेतनं वृत्तिश्च श्रीनैनादेवीमंदिरन्यासद्वारा क्रियते। मेलाकाले टोबातः श्री नैनादेवीजीमन्दिरपर्यन्तं मार्गे बृहद्वाहनानां गमने अपि प्रतिबन्धः कृतः अस्ति।
ततः परं यदि ट्रकयानानि, टेम्पोयानानि, ट्रैक्टरयानानि वा यात्रिकाणां वहन्त: दृश्यन्ते तर्हि तेषां हिमाचलप्रदेशस्य सीमातः परं श्री नैनादेवीजीं प्रति गरामोडात: ग्वालथाईत: (भाखड़ा) अग्रे गन्तुं अनुमतिः न भविष्यति, भक्ता: बसयानेषु वा टैक्सीयानेषु वा आरुह्य गन्तुं प्रवृत्ताः भविष्यन्ति।