By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Mandi Cloudburst – केन्द्रीयदलेन थुनाग-जंजैहली-स्थलयोः आपदाप्रभावितक्षेत्रेषु क्षतिविषये निरीक्षणं कृतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > Mandi Cloudburst – केन्द्रीयदलेन थुनाग-जंजैहली-स्थलयोः आपदाप्रभावितक्षेत्रेषु क्षतिविषये निरीक्षणं कृतम्
प्रादेशिकवार्ताहिमाचलवार्ता

Mandi Cloudburst – केन्द्रीयदलेन थुनाग-जंजैहली-स्थलयोः आपदाप्रभावितक्षेत्रेषु क्षतिविषये निरीक्षणं कृतम्

डॉ मनोज शैल
Last updated: 2025/07/20 at 10:18 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Mandi Cloudburst – केन्द्रीयदलेन थुनाग-जंजैहली-स्थलयोः आपदाप्रभावितक्षेत्रेषु क्षतिविषये निरीक्षणं कृतम्

हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।

मण्डीमण्डले वर्षर्तौ मेघविस्फोटस्य, जलप्रलयस्य, भूस्खलनस्य च क्षते: आकलनाय आगतं केन्द्रीयदलं रविवासरे थुनाग उपविभागस्य प्रभावितक्षेत्राणां भ्रमणं कृतवान्।

केन्द्रीयदलेन बगस्याड़े, तत्समीपस्थे शरणग्रामे च जनानां गृहेषु अन्येषु च सम्पत्तिषु क्षतिः जाता तस्य आकलनं कृतम्। अस्मिन् काले अत्र स्थितानां औद्योगिकप्रशिक्षणसंस्थानानाम् अन्येषां च क्षतिग्रस्तसंरचनानां निरीक्षणमपि दलेन कृतम् । ग्रामपंचायतमुरहागस्य फनयारे महता भूस्खलनेन क्षतिविषये अपि च ढांगुधारे छड़ी-उपनद्यां निर्मितपेयजलयोजनाया: क्षतिविषये सूचना प्राप्ता। तदनन्तरं केन्द्रीयदलेन थुनागविपण्यां गृहेषु, आपणेषु, विविधसंस्थासु च या क्षतिः जाता तस्याकलनं कृतम्आ। एतेन सह थुनाग-विपण्यां, अत्रत्याम् अर्थव्यवस्थायां च प्रचण्डजलप्रलयस्य प्रभावस्य विषये सूचना अपि प्राप्ता ।

आपदि दुर्गतिरूपेण प्रभाविते देजीग्रामे जलप्रलयेन प्रक्षालितस्य मार्गस्य अन्येषां सार्वजनिकसम्पत्त्याः च क्षतिः केन्द्रीयदलेन गृहीता। उपायुक्तः अपूर्वदेवगनः एतेषु क्षेत्रेषु व्यापकक्षतिविषये केन्द्रीयदलं बोधितवान्। अत्र क्रियमाणस्य जीर्णोद्धारकार्यस्य विषये अपि सः सूचनां दत्तवान् ।

केन्द्रीयदलेन लम्बथाचस्य शैक्षणिकसंस्थानां क्षतिः, पाण्डवशिला-कुथाहयोः मार्गाणाम् अन्यसार्वजनिकनिजीसम्पत्त्याः च क्षतिः, बुङ्गरैलचतुष्पथि मार्गमूलसंरचनाया:, स्थानीयविपण्यादिमूलसंरचनाया: च क्षतिः इति सम्यक् निरीक्षणं कृतम्।

अस्मिन् समये स्थानीयविधायकः विपक्षनेता च जयरामठाकुरः अपि केन्द्रीयदलेन सह उपस्थितः भूत्वा क्षेत्रे आपद: क्षतिविषये सूचनां प्रकटीकृतवान्।

विशेषसचिवः (राजस्वः आपदाप्रबन्धनम्) डी.सी.राणा इत्यनेन आपद्-प्रभावितक्षेत्रेषु राज्यसर्वकारेण क्रियमाणस्य आश्रयपुनर्वासकार्यस्य विषये केन्द्रीयदलाय सूचना दत्ता।

अस्मिन् केन्द्रीयदले गृहमन्त्रालये संयुक्तसचिवः (CS & Public, Judicial) जी. पार्थसारथी, उपसचिव: (एफसीडी) कंदर्प वी. पटेल:, वित्तमंत्रालयस्य अंतर्गतं व्ययविभाग:, वसीम अशरफ, निदेशक: सीडब्ल्यूसी शिमला जलशक्तिमंत्रालयस्य अंतर्गतम्, करण सरीन:, ऊर्जामन्त्रालयस्य अंतर्गतम्, सीईए उपनिदेशक: , मुख्याभियंता ए.के. कुशवाहा, क्षेत्रीयकार्यालय: शिमला, पथपरिवहनं एवं राजमार्गमन्त्रालय: , ग्रामीणविकासमन्त्रालयस्य अवरसचिव: दीपशेखर: सिंघल: एवं कृषि तथा कृषककल्याणमन्त्रालयस्य अन्तर्गतं गोधूमविकासनिदेशालयस्य संयुक्तनिदेशक: डॉ. विक्रांतसिंह: उपस्थिता: अभवन्।

अस्मिन्नवसरे अतिरिक्तपुलिसाधीक्षक: सचिन हिरेमठ:, अतिरिक्तजिलादंडाधिकारी डॉ. मदनकुमार:, एसडीएम थुनाग: रमेशकुमार: एवं संबंधितविभागानां वरिष्ठाधिकारिण: उपस्थिता: अभवन्।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Cloudburst, HP NEWS, Mandi News, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal Disaster – केन्द्रीयगृहमन्त्री अमितशाहः बहुक्षेत्रीयकेन्द्रीयदलस्य सङ्घटनस्य निर्देशं दत्तवान्
Next Article श्री नयना देवी जी – हिमाचलप्रदेशे श्रावण-अष्टमीमेलापके श्रीनैनादेवीमन्दिरे ध्वनिविस्तारयन्त्रे, ढक्का-दुन्दुभि: वादने प्रतिबन्ध:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?