By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः   
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > वित्तीयवार्ता > Computer > Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः   
ComputerUncategorizedअन्ताराष्ट्रीयवार्ताःउत्तराखण्डवार्ताःचलचित्रवार्ताःपञ्चागम्बोधकथाराजनैतिक वार्तावित्तीयवार्तासंस्कृतगतिविधयःसंस्कृतबोधकथाहिमाचलवार्ता

Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः   

डॉ मनोज शैल
Last updated: 2024/12/08 at 9:08 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Shimla News : फागलीसंस्कृतमहाविद्यालये, किशोरशर्मा अध्यक्षः नरेन्द्रश्च उपाध्यक्षः   

हिमसंस्कृतवार्ताः,शिमला।

शिमलाया: फागलीसंस्कृतमहाविद्यालये पूर्वविद्यार्थीसङ्घस्य उपवेशनं शिमलानगरे आयोजितम्, यस्मिन् पूर्वविद्यार्थीसङ्घस्य कार्यकारिण्याः चयनं जातम्। उपप्राचार्यः डॉ. दिनेशशर्मा अवदत् यत् १९१७ तः प्रचलितस्य अस्य महाविद्यालयस्य इतिहासः गौरवपूर्णः अस्ति। अयं महाविद्यालयः महामहोपाध्यायः आचार्य दिवाकरदत्तशर्मा इत्यस्य कार्यस्थलम् अभवत्, यः अस्य राज्यस्य नाम हिमाचलम् इति कृतवान्। तस्य समर्थमार्गदर्शने अस्मिन् महाविद्यालये अनेके विद्वांसः उत्पन्नाः। अद्यत्वे अपि अयं महाविद्यालयः सर्वथा राज्यस्य मुख्यमहाविद्यालयेषु अन्यतमः अस्ति। तदनन्तरं आयोजितेषु निर्वाचनेषु कार्यकारिणीनिर्माणप्रक्रिया निर्वाचकेन सीतारामशर्मा इत्यनेन आरब्धा। यस्मिन् किशोरशर्मा, यः सूचनाप्रौद्योगिकीविशेषज्ञः अस्ति, सः अध्यक्षः चयनितः तत्रैव नरेन्द्रशर्मा सोनू च उपाध्यक्षः निर्वाचितः। शालिग्रामः कोषाध्यक्षः, डॉ. सुनीलः महासचिवः, कमलकान्तः संयुक्तसचिवः निर्वाचितः। राष्ट्रपतिपुरस्कारेण सम्मानितस्य महामहोपाध्यायः आचार्यकेशवशर्मा इत्यस्य नाम कार्यकारिण्याः संरक्षकत्वेन आदरपूर्वकं अनुमोदितम्। परामर्शकमंडले प्रसिद्धः ज्योतिर्विद् डॉ. मस्तराम शर्मा, सीताराम शर्मा, डॉ. नरेशः, पंकजः, इशिता श्यामः, परीक्षितश्च मनोनीताः। सदस्येषु धर्मप्रकाशः, रोहितः, पवनः, कपिलः, सुनीलः, अंजलिः, श्रुतिः, खेमराजः, राजेशः, विनयः इत्येतेषां चयनं जातम्।

अध्यक्षः किशोरशर्मा अवदत् यत् महाविद्यालयस्य सर्वोन्मुखविकासे अस्माकं पूर्णसहकार्यं भविष्यति इति। प्राचार्य: डॉ. मुकेशशर्मा इत्यस्य कुशलमार्गदर्शने महाविद्यालयः सर्वतोन्मुखीं प्रगतिं कुर्वन् अस्ति, अस्मिन् च पूर्वछात्रसङ्घ: सर्वथा सहायकः भविष्यति।

You Might Also Like

भक्तिवेदान्तपरिसरे दशदिवसीया संस्कृतसम्भाषणकार्यशाला सम्पन्ना

सरलमनुष्यस्य दायित्वम्

सूर्य: अस्तं गच्छति, वयम् अपि वा?।

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

TAGGED: cmo himachal, Daily Sanskrit News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal government, Himachal news, Himachal Sanskrit Academy, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, narendra modi, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, Today Sanskrit Nerws, varta, vartah, आज के संस्कृत समाचार, दिव्य हिमाचल समाचार, दैनिक समाचार, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal Weather : शिमला- कुफरी- चूड़धार- किलाड़म् इत्यत्र च ऋतो: प्रथमः हिमपातः
Next Article जोधपुरे सीमासुरक्षाबलस्य भूमिकायाः प्रशंसाम् अकरोत् केन्द्रीयगृहमन्त्री श्री अमितशाहः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?