गाजोल-महाविद्यालये महाकविकालिदासजयन्ती समारोहेण पालिता
गाजोल, आषाढस्य प्रथमदिने।
गत-मङ्गलवासरे गाजोल-महाविद्यालयस्य बाङ्ला-विभागस्य संस्कृत-विभागस्य च संयुक्तप्रयासेन महाकविकालिदासजयन्ती महता समारोहेण पालिता। महाविद्यालयस्य प्रेक्षागृहे आयोजिते अस्मिन् कार्यक्रमे छात्राः, छात्र्यः, अध्यापकाः, अध्यापिकाः तथा संस्कृतिप्रेमिणः जनाः बहुसंख्यया उपस्थिताः आसन्।
कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन अभवत्। ततः सरस्वतीवन्दनया औपचारिककार्यक्रमस्य प्रारम्भः कृतः। उपस्थितैः अतिथिभिः अध्यापकैश्च महाकविकालिदासस्य साहित्यसाधना, संस्कृतभाषायाः उन्नयने तस्य योगदानं तथा भारतीयसंस्कृतौ तस्य महत्त्वं स्मारितम्।
स्वागतभाषणं बाङ्ला-विभागस्य विभागाध्यक्षः डॉ. अमरचन्द्रकर्मकार-महोदयः अकरोत्। स्वीयभाषणे सः कालिदासस्य साहित्यकृतिनां सार्वकालिकमहत्त्वं तथा अद्यतनपीढ्यां तासां प्रासङ्गिकतां विवृतवान्। अनन्तरं महाविद्यालयस्य पूर्वतनकार्यवाहकाध्यक्षा डॉ. तन्मयसर्कार-महोदयः तथा अध्यापकपरिषदः सम्पादकः डॉ. निरङ्कुशचक्रवर्ती-महोदयः अपि स्ववक्तव्यानि प्रस्तुतवन्तः।
प्रधानवक्ता तथा महाविद्यालयस्य अध्यक्षा महोदयः कालिदासस्य काव्येषु, नाटकेषु तथा संस्कृतसाहित्ये तस्य अमरावदानस्य विविधपक्षान् विस्तरेण निरूपितवान्।
सांस्कृतिकपर्वणि पल्लवीघोष-महोदयया प्रस्तुतं सरस्वतीवन्दनं तथा “कालिदास जने जने” इति गीतं सर्वेषां हृदयानि जितवत्। तस्याः सुमधुरा प्रस्तुति कार्यक्रमस्य शोभां वर्धितवती।
कार्यक्रमस्य प्रमुखाकर्षणम् आसीत् गौडबङ्गविश्वविद्यालयस्य संस्कृतविभागस्य प्राध्यापकः डॉ. अनिन्द्यचौधुरी-महोदयस्य विशिष्टं भाषणम्। तेन महाकविकालिदासस्य साहित्यचिन्तनम्, नन्दनतत्त्वम्, भारतीयपरम्परायाः सह तस्य गाढसम्बन्धः च सम्यक् विवेचितः। विशेषतः तेन कालिदासस्य नाटकेषु कृषिविज्ञानस्य विविधपक्षाः प्रकाशिताḥ। तस्य तथ्यसमृद्धं प्राञ्जलं च भाषणं उपस्थितैः विशेषरूपेण प्रशंसितम्।
समग्रे कार्यक्रमे महाविद्यालयस्य विविधविभागानां अध्यापकाः, अध्यापिकाः, शिक्षाकर्मिणः तथा बहुसंख्यकाः छात्रछात्र्यः उत्साहेन सहभागित्वम् अकुर्वन्। उत्सवमुखरे वातावरणे सम्पन्ना एषा जयन्ती भारतीयसंस्कृतेः तथा साहित्यचर्चायाः संवर्धने महत्त्वपूर्णं योगदानं दत्तवती।
कार्यक्रमस्य सञ्चालनं संस्कृतविभागस्य अध्यापकः डॉ. अनिमेषमण्डल-महोदयः कुशलतया अकरोत्। अन्ते आयोजकैः सर्वेभ्यः अतिथिभ्यः, अध्यापकाध्यापिकाभ्यः तथा छात्रछात्रीभ्यः धन्यवादाः ज्ञापिताः। उपस्थितैः सर्वैः अभिप्रेतं यत् एषा प्रथमवारं पालिता कालिदासजयन्ती गाजोल-महाविद्यालयस्य इतिहासे स्मरणीयमध्यायत्वेन स्थास्यति। अत्र ७५ जनाः उपस्थिताः आसन् ।
