By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हरिद्वारे एकविंशतदिवसीयः संस्कृतशिक्षकप्रशिक्षणवर्गः समारब्धः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > हरिद्वारे एकविंशतदिवसीयः संस्कृतशिक्षकप्रशिक्षणवर्गः समारब्धः
संस्कृतगतिविधयः

हरिद्वारे एकविंशतदिवसीयः संस्कृतशिक्षकप्रशिक्षणवर्गः समारब्धः

डॉ.अमनदीप शर्मा
Last updated: 2026/06/18 at 7:25 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

केन्द्रीय- संस्कृत- विश्वविद्यालयस्य, उत्तराखण्ड- संस्कृत- विश्वविद्यालयस्य संयुक्ततत्त्वावधाने हरिद्वारे एकविंशतदिवसीयः संस्कृतशिक्षकप्रशिक्षणवर्गः समारब्धः
(हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल:, शिवमत्रिपाठी, हरिद्वारम्) उत्तराखण्ड- संस्कृत- विश्वविद्यालये हरिद्वारे एकविंशतदिवसीयः संस्कृतशिक्षकप्रशिक्षणवर्गः समारब्धः। ज्येष्ठशुक्लप्रतिपदारभ्य आषाढ- कृष्ण- सप्तमीपर्यन्तम् (१५ जूनतः ७ जुलाई २०२६ पर्यन्तम्) प्रचलिष्यति अस्य प्रशिक्षणवर्गस्य मुख्योद्देश्यं संस्कृतशिक्षणस्य गुणवत्तावर्धनमध्यापनकौशलस्य परिष्कारः, शिक्षणप्रक्रियायां नवदृष्टेः समावेशः तथा कुशलसंस्कृतशिक्षकनिर्माणं च वर्तते। कार्यक्रमस्य शुभारम्भः वैदिकमङ्गलपाठेन वाग्देव्या: समर्चनेन च सम्पन्नः। तदनन्तरं दीपप्रज्वलनपूर्वकम् उद्घाटनसत्रस्यौपचारिकसत्रम् आरब्धम्। प्रास्ताविकभाषणे डॉ. विश्वजित्प्रामाणिकमहोदयाः संस्कृताध्ययनकेन्द्रस्य कार्यपरिकल्पनां, प्रशिक्षणवर्गस्य प्रयोजनं तथा भावीकार्यदिशां च सम्यक् प्रतिपादितवन्तः। उद्घाटनसत्रस्य अध्यक्षतां वहन्तः मुक्तस्वाध्यायपीठस्य निदेशकाः प्रो. रत्नमोहनझामहोदयाः स्वीयाध्यक्षीयोद्बोधने अवदन् यत् शिक्षकस्य जीवनं समाजस्य मार्गदर्शकरूपेण परिगण्यते। आदर्शशिक्षकः विद्यानिष्ठः, चरित्रसम्पन्नः, अनुशासनशीलः, कर्तव्यपरायणः, विद्यार्थिहितरतश्च भवितुमर्हति। शिक्षणकार्यं केवलं ज्ञानसंप्रेषणस्य साधनं न, अपि तु संस्कारनिर्माणस्य तथा व्यक्तित्वविकासस्य आधारभूतप्रक्रियेति तैः प्रतिपादितम्।मुख्यातिथिरूपेण उपस्थिताः उत्तराखण्डशासनस्य संस्कृतशिक्षासचिवाः दीपककुमारगैरोलामहोदयाः संस्कृतभाषायाः गौरवं महत्त्वं च विवेचयन्तः उक्तवन्तः यत् संस्कृतं भारतीयसंस्कृतेः प्राणतत्त्वम् वर्तते। अस्यां भाषायां निहितं ज्ञानवैभवं मानवसमाजस्य अमूल्यधरोहररूपेण विद्यते। संस्कृतस्य संरक्षणं, संवर्धनं च सांस्कृतिकस्वाभिमानस्य दृढीकरणाय अत्यावश्यकमिति तैः प्रतिपादितम्। कार्यक्रमे सन्निधि: कुर्वन्तः उत्तराखण्ड- संस्कृत- विश्वविद्यालयस्य कुलपतयः प्रो. रमाकान्तपाण्डेयमहोदयाः प्रशिक्षणवर्गस्य उपादेयताम् अवदन् यत् युगानुरूपशिक्षणपद्धतीनां ज्ञानं तथा अध्यापनदक्षतायाः अभिवृद्धिः शिक्षकेभ्यः अनिवार्या विद्यते। एतादृशाः प्रशिक्षणवर्गाः शिक्षकेषु व्यावसायिक- दक्षतामात्मविश्वासं तथा शैक्षिकप्रतिबद्धतां वर्धयन्ति इति तै: प्रतिपादम्।
सारस्वतातिथिरूपेण उपस्थिताः उत्तराखण्ड आयुर्वेद विश्वविद्यालयस्य कुलपतिचराः प्रो. सुनीलकुमारजोशिमहोदयाः संस्कृतभाषायाः वैज्ञानिकस्वरूपं, सार्वभौमिकप्रासङ्गिकतां, मूल्यपरकजीवननिर्माणे च तस्याः योगदानं विशदयन्तः अवदन् यत् संस्कृतं न केवलं भाषारूपेण, अपि तु जीवनदर्शनरूपेण अपि मानवसमाजं दिशानिर्देशं करोति। आदर्शशिक्षकः स्वाचरणेन विद्यार्थीन् प्रेरयन् समाजे सद्भावनां, नैतिकमूल्यानि तथा कर्तव्यबोधं च प्रतिष्ठापयतीति तैः अभिमतम्। कार्यक्रमस्य कुशलसञ्चालनं प्रो. अरविन्दनारायणमिश्रमहोदयाः अकुर्वन्। अन्ते उत्तराखण्ड- संस्कृत- विश्वविद्यालयस्य कुलसचिवः दिनेशकुमारमहोदयः समागतानां सर्वेषामतिथीनां, विद्वज्जनानां, प्रशिक्षकाणां, प्रतिभागिनां कृतज्ञतां प्रकटयन् धन्यवादज्ञापनमकरोत्। प्रशिक्षका: रोशनमहोदय:, काथरुपा:, पियालीसाश्मल, नाडूगोपाल:, बप्पादास: सागरचौधरी, पिंकीदोलई, विष्णुप्रियामहोदया: पलकमहोदया: तत्रोपस्थिता आसन्। शान्तिमन्त्रस्य सस्वरपाठेन उद्घाटनसत्रस्य सम्पूर्तसत्रमभवत्।

You Might Also Like

पतञ्जलौ बालेभ्यः प्राप्यमाणाः संस्काराः कस्यचित् स्वप्नस्य साकाररूपम् इव – प्रदीप-बत्रा

पतञ्जलि-विश्वविद्यालये द्विपञ्चाशत्तमम् (५२ तमम्) अखिलभारतीय-प्राच्यविद्या-सम्मेलनं सम्पन्नम्, सनातनपरम्परात: आरभ्य कृत्रिमप्रज्ञां (ए.आई.) यावत् विषयेषु सञ्जातं मन्थनम्

अखिलभारतीय-प्राच्यविद्या-सम्मेलने वैज्ञानिकग्रन्थस्य “वैदिक-आख्यान-विज्ञानम्” इत्यस्य वैज्ञानिकग्रन्थस्य गरिमामयं लोकार्पणम्

स्वामि-रामदेवस्य महत् अभियानम्, धर्मग्रन्थानां शुद्धीकरणाय निर्मिता समितिः, काऽस्ति सम्पूर्ण-योजना ?

52th AIOC – अखिलभारतीय-प्राच्यविद्या-सम्मेलनम् – सनातनशास्त्रशुद्धिः हरिद्वारे सनातनशास्त्र-शुद्धीकरणस्य महाभियानम्, सन्तैः कृतं मन्थनम्

TAGGED: हरिद्वारे
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article मेसिना भङ्गितः रोनाल्डो-वर्येण स्थापितः कीर्तिमानः, पादकन्दुक-विश्वचषके सर्वाधिक-गोलकर्ता क्रीडकः
Next Article भारत-ब्रिटेन देशयोः व्यापक-आर्थिक-व्यापार-सन्धिः (सीईटीए) जुलाई-मासस्य १५ दिनाङ्कात् प्रभावी भविष्यति, प्रधानमन्त्रिणा मोदिना व्यापारे नूतन-गतेः आशा व्यक्ता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?