Himachal Weather : शिमला- कुफरी- चूड़धार- किलाड़म् इत्यत्र च ऋतो: प्रथमः हिमपातः
हिमसंस्कृतवार्ता: – शिमला।
बहुकालानन्तरं हिमाचलप्रदेशे वातावरणं परिवर्तनं कृतवान्। रविवासरे शिमलानगरस्य रिजभूमौ, सिरमौरस्य कुफरी-चूड़धारे, नौहराधार-हरिपुरधारे, चम्बाजनपदस्य किलाड़े च ऋतो: प्रथमः हिमपातः अभवत्, शिमलानगरस्य रिजभूमौ अपि हिमपातः अभवत् लाहौलस्पीतौ रोहताङ्गदर्रा, बारालाचा, कोकसर-सिस्सु-दार्चा, जिस्पा, कुन्जुम-दर्रा इत्यादिषु उच्चतरशिखरेषु हिमपातः अभवत्। कुल्लौ बिलासपुर-जनपदस्य च नयनादेव्यां लघुवृष्टिः अभवत्।
राज्ये दिवसं यावत् शीतलवायुः प्रवहति स्म, यस्मात् कारणात् सम्पूर्णस्य राज्यस्य अधिकतमं तापमानं ५ तः ६ डिग्रीपर्यन्तं न्यूनीकृतम् अस्ति। राज्यस्य सप्तक्षेत्रेषु न्यूनतमं तापमानं शून्यसमीपं प्राप्तम् अस्ति। ताबो-क्षेत्रस्य न्यूनतमं तापमानं -१३.१ डिग्रीपर्यन्तं जातम्, यत् अस्मिन् ऋतौ अद्यावधि सर्वाधिकं न्यूनम् अस्ति। एतदतिरिक्तं शिमलाजनपदस्य नारकण्डा अपि माइनस मध्ये आसीत्, मनाली-सोलन-नगरयोः पारा शून्यं प्राप्तवान्। हिमपातस्य कारणेन अटलकन्दरा- सिस्सुक्षेत्रयोः स्खलितमार्गेभ्यः वाहनानि अटन्ति स्म। सम्मर्दस्य मध्ये निरुद्धा: १०० पर्यटकाः उद्धारिताः। लाहौल-स्पीतौ हिमपातः आरब्धः, अतः पर्यटकाः वातावरणं मनसि कृत्वा यात्रां कुर्वन्तु इति पुलिस-अधीक्षकः मयङ्क-चौधरी अवदत्। चम्बामण्डलस्य पाङ्गी आदिवासीक्षेत्रे सच्चे जोत इत्यत्र ३० सेमी हिमपातः अभवत्। एतदतिरिक्तं मण्डलस्य हुडान-भटोरी, सुराल- भटोरी, चस्क-भटोरी, थांदलम् इत्यत्र १५ से. मी. पर्यन्तं हिमपातः अभवत्। अपरपक्षे भरमौरस्य कुगति, मणिमहेश, चौबिया च इत्यत्र षट् सेन्टिमीटर् यावत् हिमपातः अभवत्।
सायं ६ वादने राजधान्या: शिमला-नगरस्य रिजस्थले हिमबिन्दव: पतितः, येन पर्यटकानां मुखयोः सुखं जातम्। रविवासरे आदिनं वायुप्रवाहस्य कारणेन नगरे परिसरेषु च शीतलता भवति स्म। अस्य ऋतो: प्रथमः हिमपातः ठियोग- कुफरीक्षेत्रयोः पर्यटकानां , स्थानीयजनानाञ्च मध्ये उत्साहं जनयति स्म। ठियोगक्षेत्रस्य न्यूनतमं तापमानं शून्यस्य समीपे प्राप्तम् अस्ति, अतः शीतस्य वृद्धिः अभवत्।
सप्तजनपदेषु वर्षा-हिमपातस्य पीत-सचेतना
ऋतुविज्ञानकेन्द्रशिमलाया: अनुसारं सोमवासरे राज्यस्य केषुचित् स्थानेषु सामान्या वर्षा- हिमपातस्य, १० दिसम्बर-दिनाङ्के मध्य- उच्च- पर्वतीयक्षेत्रेषु वर्षा-हिमपातस्य सम्भावना वर्तते। मण्डी-बिलासपुरयोः जलाशययोः परितः १०, ११ दिनाङ्केषु घननीहारस्य पीतसचेतना प्रसारिता अस्ति। ११ तः १४ पर्यन्तं सम्पूर्णे राज्ये वातावरणं प्रतिकूलं भविष्यति।