जी-7 इत्यस्य नेतारः वैश्विकस्थिरतां, सुरक्षा-सहकारं, बहुराष्ट्रिय-सङ्ङ्घठित-अपराधस्य प्रतिकार-प्रयत्नाञ्च केन्द्रीयमानाः घोषणानाम् श्रृङ्खलाः स्वीकृतवन्तः।
जी 7 देशैः वैश्विक स्थिरतायाः, सुरक्षा-सहयोगस्य अथ सीमापार-सङ्घटित-अपराध-निवारणस्य उद्देश्येन विभिन्नाः प्रमुखाः घोषणाः विहिताः। मुख्यवक्तव्ये नेतृभिः अमरीका-ईरान-देशयोः मध्ये सञ्जातं संधिनिश्वयम् अभिनन्दितम्। सहैव होरमुज जलसंधौ सुरक्षित-समुद्रीय-परिवहनस्य महत्त्वं प्रतिपादितं, क्षेत्रीय-सुरक्षा-संवर्धनाय च समर्थनं प्रदत्तम् । अन्य-घोषणापत्रे, जी-7 देशैः मादकद्रव्यस्य अवैधकार्यं निरोद्धं सङ्कल्पो विहितः। अस्मिन् अभियाने ब्राजील-दक्षिणकोरिया देशौ अपि सहमतिं प्रदर्शितवन्तौ। अवैधमार्गान् रोद्धं ‘जी-7 प्लस पोर्ट्स नेटवर्क’ इति नव-मञ्चस्य प्रस्तावः दत्तः।
फ्रांस-देशस्य ‘एवियन’ नगरे चलायमाने जी-7 शिखरसम्मेलने प्रधानमन्त्री नरेन्द्रमोदी ‘सर्वहितकारि-सतत-आर्थिक-विकासः’ इत्याख्ये मुख्यविषये आयोजितायां महत्त्वपूर्णकार्यगोष्ठ्याम् भागं ग्रहीतवान् ।
फ्रांस-देशस्य ‘एवियन’ नगरे चलायमाने जी-7 शिखरसम्मेलने प्रधानमन्त्री नरेन्द्रमोदी ‘सर्वहितकारि-सतत-आर्थिक-विकासः’ इत्याख्ये मुख्यविषये आयोजितायां महत्त्वपूर्णकार्यगोष्ठ्याम् भागं ग्रहीतवान् । सत्रेऽस्मिन् जी-7 देशाः, सहभागी-राष्ट्राणि, अन्ताराष्ट्रिय-मुद्राकोषस्य ओ.ई.सी.डी. इत्यस्य च प्रतिनिधयः उपस्थिताः सन्ति। अत्रावधेयं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः अमरीका-राष्ट्रपतिना डोनल्ड ट्रम्पेन सह बहुप्रतीक्षिता द्विपक्षीय-वार्ता कृतवान् । पंचविंशत्युत्तर-द्विसहस्रतमवर्षस्य फरवरीमासात् परं द्वयोः नेत्रोः इदं प्रथमं प्रत्यक्षतया सम्भाषणमस्ति । अमेरिका-ईरान-युद्धविरामस्य अथ होर्मुज-जलसंधेः पुनः उद्घाटनस्य पृष्ठभूमौ एषः संवादः अतीव महत्त्वपूर्णो वर्तते। उभौ नेतारौ द्विपक्षीय-व्यापार-संधिं समेत्य अतिरिक्तं वैश्विक समाह्वानानां समाधानाय चर्चा कृतवन्तौ । एतदतिरिच्य, प्रधानमन्त्री ‘कृत्रिम बुद्धिमत्तायाः सुरक्षित-प्रभावी-उपयोगः इति विषमधिकृत्य कार्य-मध्याह्नभोजे अपि भागं ग्रहीष्यति, यत्र प्रमुख एआई-विपणीनां मुख्याधिकारिणः समुपस्थिताः भविष्यन्ति।
प्रधानमन्त्री नरेन्द्रमोदी फ्रांस-देश-प्रवासस्य भागत्वेन पेरिस-नगरं प्राप्तवान्
प्रधानमन्त्री नरेन्द्रमोदी फ्रांस-देश-प्रवासस्य भागत्वेन अद्य सायं पेरिस-नगरं प्राप्तवान् । तत्रत्यः भारतीय-समुदायः तदीय-स्वागतार्थं महत् उत्साहेन सज्जो वर्तते। अद्य प्रधानमन्त्री प्रमुख-विपणीनां मुख्यकार्यकारिभिः सह चर्चा करिष्यति, या मध्याह्नपर्यन्तं प्रचलिष्यति । तदनन्तरं, सः यूरोप-महाद्वीपस्य प्रमुख-प्रौद्योगिकि मञ्चे ‘विवा-टेक-शिखरसम्मेलने’ भागं ग्रहीष्यति, तत्र च स्व-सम्बोधनं प्रदास्यति। सायं काले असौ एकस्मिन् सामुदायिक कार्यक्रमे भारतीय-प्रवासिभिः सह संवादं विधास्यति।
