By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: VASANT PANCHAMI 2026 – मातुः सरस्वत्याः आराधनायाः महापर्व: बसन्तपञ्चम्याः पुण्यकालः २३ जनवरी प्रातः ०२:२९ वादनात्- प्रो. बिहारीलाल: शर्मा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > VASANT PANCHAMI 2026 – मातुः सरस्वत्याः आराधनायाः महापर्व: बसन्तपञ्चम्याः पुण्यकालः २३ जनवरी प्रातः ०२:२९ वादनात्- प्रो. बिहारीलाल: शर्मा
दिवसविशेषःधर्मसंस्कृतिःप्रादेशिकवार्ता

VASANT PANCHAMI 2026 – मातुः सरस्वत्याः आराधनायाः महापर्व: बसन्तपञ्चम्याः पुण्यकालः २३ जनवरी प्रातः ०२:२९ वादनात्- प्रो. बिहारीलाल: शर्मा

डॉ मनोज शैल
Last updated: 2026/01/20 at 9:36 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

VASANT PANCHAMI 2026 – मातुः सरस्वत्याः आराधनायाः महापर्व: बसन्तपञ्चम्याः पुण्यकालः २३ जनवरी प्रातः ०२:२९ वादनात्- प्रो. बिहारीलाल: शर्मा

हिमसंस्कृतवार्ता:- वाराणसी।

सम्पूर्णानन्द- संस्कृत- विश्वविद्यालयस्य (वाराणसी) कुलपतिः प्रो. बिहारीलालशर्मा जनसामान्यं सूचितवान् यत् विद्या- ज्ञान- वाचां अधिष्ठात्री देवी मातुः सरस्वत्याः कृते समर्पितः पावनः बसन्तपञ्चमी पर्वः अस्मिन् वर्षे गुरुवारवासे, २३ जनवरी २०२६ दिनाङ्के शास्त्रीयविधि-विधानेन श्रद्धया च मानयिष्यते। कुलपतिः प्रो. शर्मा उक्तवान् यत् विश्वविद्यालयस्य ज्योतिषविभागेन उपलब्धैः प्रामाणिकपञ्चाङ्गैः, धर्मशास्त्रीय- मान्यताभिः ज्योतिषीयगणनाभिः च अनुसारं बसन्तपञ्चमी (माघशुक्ल पञ्चमी) तिथिः २२ जनवरी २०२६ दिनाङ्कस्य मध्यरात्रौ २३ जनवरी दिनाङ्कस्य प्रातः ०२:२९ वादने आरप्स्यते, या २४ जनवरी २०२६ दिनाङ्कस्य प्रातः ०१:४६ वादनं यावत् प्रभावी भविष्यति। एवं प्रकारेण एषा तिथिः २३ जनवरी दिनाङ्के सम्पूर्णदिवसं, २४ जनवरी दिनाङ्कस्य प्रातः ०१:४६ वादनं यावत् विद्यमाना भविष्यति। सः स्पष्टं कृतवान् यत् शास्त्रीय- सिद्धान्तस्य “तिथिं समनु प्राप्त उदयं याति भास्करः” इत्यस्यानुसारं, २३ जनवरी २०२६ दिनाङ्के पञ्चमीतिथेः सूर्योदयेन सह संयोगः भवति, अतः अयमेव दिवसः बसन्तपञ्चमीपर्वणे श्रीसरस्वतीपूजनाय च मुख्यरूपेण मान्यः भविष्यति। अपि च, मध्यरात्रौ अपि पञ्चमीतिथिः अवशिष्टा अस्ति, अतः २४ जनवरी २०२६ दिनाङ्के सूर्योदयं यावत् विद्यारम्भः, ज्ञानदानम्, जप-तपः पूजनादिकर्माणि च कर्तुं शक्यन्ते। प्रो. शर्मा सूचितवान् यत् ज्योतिषीयदृष्ट्या अस्मिन् वर्षे बसन्तपञ्चम्यां मकरराशौ सूर्यस्य मीनराशौ च चन्द्रस्य संयोगः, पूर्वाभाद्रपदनक्षत्रं तथा शिवयोगस्य विशेषप्रभावः वर्तते, यत् ज्ञान- विद्या- बौद्धिकसाधनायै अत्यन्तं शुभं मन्यते। विशेषरूपेण २३ जनवरी २०२६ दिनाङ्के प्रातः ०७:५६ वादनात् अपराह्णे ०१:५९ वादनं यावत् श्रीसरस्वतीपूजनाय विद्यारम्भाय च श्रेष्ठमुहूर्तः उपलब्धः अस्ति। कुलपतिः प्रो. शर्मा अवदत् यत् बसन्तपञ्चमी भारतीयसंस्कृतौ ऋतुपरिवर्तनस्य, नवचेतनायाः, सृजनशीलतायाः, कलायाः बौद्धिकजागरणस्य च प्रतीकपर्व अस्ति। अयं दिवसः विद्यार्थिनां, शिक्षकाणां, साधकानां शोधार्थिनां च कृते विशेषरूपेण कल्याणकारी मन्यते। अस्मिन् अवसरे शिक्षणसंस्थाभिः विद्यालयैः सांस्कृतिकसङ्घटनैः च विविधाः धार्मिक-सांस्कृतिक-शैक्षणिककार्यक्रमाः आयोज्यन्ते। अन्ते प्रो. बिहारीलालशर्मा जनसामान्यं प्रति आह्वानं कृतवान् यत् ते उपर्युक्ततिथिं, पुण्यकालं मुहूर्तं च ध्यानं निधाय मातुः सरस्वत्याः आराधनां कुर्वन्तु तथा च बसन्तपञ्चमीपर्व श्रद्धा- शान्ति- ज्ञानसाधना- उल्लासैः सह मानयन्तु।

You Might Also Like

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

हिमाचलदर्शनम्- हाटकोटीमन्दिरम्

TAGGED: cmo himachal, Daily Sanskrit News, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himsanskritnews, himsanskritnews headlines, narendra modi, National News, national News Headlines, News Headlines, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, sanskrit University, Today Sanskrit Nerws, varta, vartah, VASANT Panchami, अन्तर्राष्ट्रीय समाचार, आज के संस्कृत समाचार, दैनिक समाचार, प्रो. बिहारी लाल शर्मा, बसंत पंचमी, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, वसंत पंचमी, वाराणसी, संपूर्णानंद संस्कृत विश्वविद्यालय, संस्कृत विश्वविद्यालय, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article जलशक्तिविभागस्य विश्रामगृहाणां पञ्जीकरणसेवा अधुना ‘ऑनलाइन’ (अन्तर्जालमाध्यमेन); उपमुख्यमन्त्रिणा कृतं शुभारम्भम्
Next Article BJP President – भाजपायाः राष्ट्रियाध्यक्षत्वेन मम निर्वाचनं एकस्य साधारणकार्यकर्तुः असाधारणयात्रायाः सम्मानः अस्ति- नितिननवीनः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?