By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: जलशक्तिविभागस्य विश्रामगृहाणां पञ्जीकरणसेवा अधुना ‘ऑनलाइन’ (अन्तर्जालमाध्यमेन); उपमुख्यमन्त्रिणा कृतं शुभारम्भम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > जलशक्तिविभागस्य विश्रामगृहाणां पञ्जीकरणसेवा अधुना ‘ऑनलाइन’ (अन्तर्जालमाध्यमेन); उपमुख्यमन्त्रिणा कृतं शुभारम्भम्
हिमाचलवार्ता

जलशक्तिविभागस्य विश्रामगृहाणां पञ्जीकरणसेवा अधुना ‘ऑनलाइन’ (अन्तर्जालमाध्यमेन); उपमुख्यमन्त्रिणा कृतं शुभारम्भम्

डॉ मनोज शैल
Last updated: 2026/01/20 at 9:28 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

जलशक्तिविभागस्य विश्रामगृहाणां पञ्जीकरणसेवा अधुना ‘ऑनलाइन’ (अन्तर्जालमाध्यमेन); उपमुख्यमन्त्रिणा कृतं शुभारम्भम्

हिमसंस्कृतवार्ता:- शिमला।

उपमुख्यमन्त्री मुकेश अग्निहोत्री महोदयः जलशक्तिविभागस्य विश्रामगृहाणां (Rest Houses) कृते ‘ऑनलाइन-आरक्षण-प्रणाल्याः’ औपचारिकं शुभारम्भं कृतवान्। एष: आरम्भ: ‘डिजिटल गवर्नेंस’ (वैद्युतीय-शासनम्) इति दिशि एकं महत्त्वपूर्णं पदं वर्तते। अस्मिन् अवसरे मुकेश अग्निहोत्री महोदयः अवदत् यत् अस्याः प्रणाल्याः उद्देश्यं पञ्जीकरणप्रक्रियां सरलां, पारदर्शिनीं, प्रभावशालिनीं च निर्माणं अस्ति, येन विभागीय- अधिकारिभिः सह सामान्यजनाः अपि सुलभतया प्रकोष्ठान् (Rooms) आरक्षितुं शक्नुवन्ति। अस्मिन् अवसरे उपमुख्यमन्त्री उक्तवान् यत् अनया नूतनया व्यवस्थया प्रकोष्ठस्य पञ्जीकरणं केवलं ‘एक- क्लिक’ (एकवारं नोदनेन) माध्यमेन भविष्यति। सः अवदत् यत् अस्याः प्रणाल्याः प्रमुखा विशेषता ‘त्वरितपञ्जीकरणपुष्टिः’ (Instant Confirmation) अस्ति, येन पूर्वमेव दीर्घप्रतीक्षायाः सन्देहस्य च अन्तः भविष्यति। आवेदनस्य कतिपयनिमेषेषु एव पञ्जीकरणस्य स्थितिः ज्ञाता भविष्यति। जलशक्तिविभागस्य सचिवः अभिषेकजैन महोदयः अस्य प्रकल्पस्य विस्तरेण सूचनां ददन् अवदत् यत् विभागस्य समीपे सम्पूर्णे प्रदेशे ८७ विश्रामगृहाणि सन्ति, येषु ३२४ प्रकोष्ठाः उपलब्धः सन्ति।

शुल्कं, पञ्जीकरणविधिश्च-

पञ्जीकरणार्थं विभागस्य आधिकारिक-जालपुटे (Website) jsv.hp.nic.in अथवा jsvresthouse.hp.gov.in इत्यत्र साक्षात् प्रवेशं (Log in) कृत्वा आवेदनं कर्तुं शक्यते। सः अज्ञापयत् यत्- हिमाचली- अतिथीनां कृते: ५०० रूप्यकाणि प्रतिदिनम्। इतर-हिमाचली-अतिथीनां कृते: १००० रूप्यकाणि प्रतिदिनम्। अग्रिमराशिः पञ्जीकरणसमये कुलराशेः ५० प्रतिशतम् अग्रिमरूपेण दातव्यं भविष्यति, अवशिष्टा राशिः च ‘चेक आउट’ (निर्गमन) समये प्रदेया भविष्यति। एतया व्यवस्थया विश्रामगृहाणां उपयोगः वर्धिष्यते विभागस्य आयः अपि वृद्धिं प्राप्स्यति।

स्वच्छतायै SOP प्रणाल्याः प्रयोगः

डिजिटल-व्यवस्थया सह विभागः ५० बिन्दूनां मानक- सञ्चालन- प्रक्रियाम् (SOP) अपि आरब्धवान्। अस्य अन्तर्गतं विश्रामगृहाणां सम्भाषणे स्वच्छतायां च विशेषं ध्यानं दत्तम् अस्ति। शय्यानां स्वच्छता, शौचलयनिर्मलता, विद्युत्- उपकरणानां फिटिङ्ग्स-रक्षणं च सुनिश्चितं भविष्यति। एषा व्यवस्था आगन्तुकानां कृते उत्तमं आधारभूत-संरचना पारदर्शिनीं सेवां च प्रदास्यति।

You Might Also Like

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, deputy chief minister, Deputy CM, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, उपमुख्यमंत्री मुकेश अग्निहोत्री, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP PANCHAYAT ELECTION – पंचायतनिर्वाचनस्य सज्जतायै त्वरिता, क्रमसूची- आदि औपचारिकता: सम्पन्नां कर्तुं कथितम्
Next Article VASANT PANCHAMI 2026 – मातुः सरस्वत्याः आराधनायाः महापर्व: बसन्तपञ्चम्याः पुण्यकालः २३ जनवरी प्रातः ०२:२९ वादनात्- प्रो. बिहारीलाल: शर्मा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?