जलशक्तिविभागस्य विश्रामगृहाणां पञ्जीकरणसेवा अधुना ‘ऑनलाइन’ (अन्तर्जालमाध्यमेन); उपमुख्यमन्त्रिणा कृतं शुभारम्भम्
हिमसंस्कृतवार्ता:- शिमला।
उपमुख्यमन्त्री मुकेश अग्निहोत्री महोदयः जलशक्तिविभागस्य विश्रामगृहाणां (Rest Houses) कृते ‘ऑनलाइन-आरक्षण-प्रणाल्याः’ औपचारिकं शुभारम्भं कृतवान्। एष: आरम्भ: ‘डिजिटल गवर्नेंस’ (वैद्युतीय-शासनम्) इति दिशि एकं महत्त्वपूर्णं पदं वर्तते। अस्मिन् अवसरे मुकेश अग्निहोत्री महोदयः अवदत् यत् अस्याः प्रणाल्याः उद्देश्यं पञ्जीकरणप्रक्रियां सरलां, पारदर्शिनीं, प्रभावशालिनीं च निर्माणं अस्ति, येन विभागीय- अधिकारिभिः सह सामान्यजनाः अपि सुलभतया प्रकोष्ठान् (Rooms) आरक्षितुं शक्नुवन्ति। अस्मिन् अवसरे उपमुख्यमन्त्री उक्तवान् यत् अनया नूतनया व्यवस्थया प्रकोष्ठस्य पञ्जीकरणं केवलं ‘एक- क्लिक’ (एकवारं नोदनेन) माध्यमेन भविष्यति। सः अवदत् यत् अस्याः प्रणाल्याः प्रमुखा विशेषता ‘त्वरितपञ्जीकरणपुष्टिः’ (Instant Confirmation) अस्ति, येन पूर्वमेव दीर्घप्रतीक्षायाः सन्देहस्य च अन्तः भविष्यति। आवेदनस्य कतिपयनिमेषेषु एव पञ्जीकरणस्य स्थितिः ज्ञाता भविष्यति। जलशक्तिविभागस्य सचिवः अभिषेकजैन महोदयः अस्य प्रकल्पस्य विस्तरेण सूचनां ददन् अवदत् यत् विभागस्य समीपे सम्पूर्णे प्रदेशे ८७ विश्रामगृहाणि सन्ति, येषु ३२४ प्रकोष्ठाः उपलब्धः सन्ति।
शुल्कं, पञ्जीकरणविधिश्च-
पञ्जीकरणार्थं विभागस्य आधिकारिक-जालपुटे (Website) jsv.hp.nic.in अथवा jsvresthouse.hp.gov.in इत्यत्र साक्षात् प्रवेशं (Log in) कृत्वा आवेदनं कर्तुं शक्यते। सः अज्ञापयत् यत्- हिमाचली- अतिथीनां कृते: ५०० रूप्यकाणि प्रतिदिनम्। इतर-हिमाचली-अतिथीनां कृते: १००० रूप्यकाणि प्रतिदिनम्। अग्रिमराशिः पञ्जीकरणसमये कुलराशेः ५० प्रतिशतम् अग्रिमरूपेण दातव्यं भविष्यति, अवशिष्टा राशिः च ‘चेक आउट’ (निर्गमन) समये प्रदेया भविष्यति। एतया व्यवस्थया विश्रामगृहाणां उपयोगः वर्धिष्यते विभागस्य आयः अपि वृद्धिं प्राप्स्यति।
स्वच्छतायै SOP प्रणाल्याः प्रयोगः
डिजिटल-व्यवस्थया सह विभागः ५० बिन्दूनां मानक- सञ्चालन- प्रक्रियाम् (SOP) अपि आरब्धवान्। अस्य अन्तर्गतं विश्रामगृहाणां सम्भाषणे स्वच्छतायां च विशेषं ध्यानं दत्तम् अस्ति। शय्यानां स्वच्छता, शौचलयनिर्मलता, विद्युत्- उपकरणानां फिटिङ्ग्स-रक्षणं च सुनिश्चितं भविष्यति। एषा व्यवस्था आगन्तुकानां कृते उत्तमं आधारभूत-संरचना पारदर्शिनीं सेवां च प्रदास्यति।
