श्रीमद्भागवतप्रवचनम् -१२
(तृतीयोऽध्यायः)
नारदः अब्रवीत् – इदानीमहं भक्तिज्ञानविरागाणां स्थापनार्थं श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि । यज्ञोऽयं मया कुत्र कर्तव्यः, भवद्भिः तत्स्थानम् उच्यताम् । भवन्तः वेदपारगाः सन्ति, तस्मात् शुकशास्त्रमहिमा कीदृशोऽस्ति इति मां श्रावयन्तु । एतदपि उच्यतां यत् श्रीमद्भागवतकथा कियद्भिः दिवसैः श्राव्या, श्रावणविधिः च कः ?
सनकादयः अकथयन् – नारदवर्य ! त्वम् अतीव विनीतः, विवेकी च असि । शृणु, एतत्सर्वं वदिष्यामः। हरिद्वारसमीपे आनन्दनामकं तटमस्ति । तत्र अनेके ऋषयः निवसन्ति, तथा देवताः, सिद्धजनाः चापि तेषां सेवां कुर्वन्तः तिष्ठन्ति । विविधवृक्षलतादीनां स्थितिकारणतः तत्स्थलं सघनं, नवकोमलवालुकं च वर्तते । तत् तटम् सुरम्यम्, एकान्तक्षेत्रं च वर्तते, तत्र च अनवरतं स्वर्णमयकमलानां सुगन्धः प्रसरति । तत्र स्थितानां वन्यपशूनां चेतसि अपि पारस्परिकः वैरभावः न विद्यते । तत्र भवान् विशेषप्रयत्नं विना हि ज्ञानयज्ञम् आरभताम्, तस्मिन् स्थाने कथातः अपूर्वरसः उत्पद्यते । भक्तिरपि निर्बलाभ्यां जराजीर्णकाययुक्ताभ्यां स्वपुत्राभ्यां सह तत्र आगमिष्यति । यतोहि यत्र श्रीमद्भागवतकथा प्रवर्तते, तत्र भक्त्यादयः सज्जनाः स्वयमेव उपस्थिताः भवन्ति । श्रवणेन्द्रिये यदा कथाध्वनिः पतिष्यति, तदा एते त्रयः अपि तरुणाः भविष्यन्ति, नात्र सन्देहः इति ।
सूतः शौनकं प्रति अकथयत् – एवम् उक्त्वा नारदेन सह सनकादयः श्रीमद्भागवतामृतस्य पानार्थं ततः सत्वरं निर्गत्य गङ्गातटं प्राप्तवन्तः। यदा ते तत्र उपस्थिताः आसन्, तदा भूलोकः, देवलोकः, ब्रह्मलोकः चेति सर्वत्र च कथाविषयकः प्रचारः, जनेषु कोलाहलः च समुद्भूतः । ये, ये भगवत्कथारसिकाः, विष्णुभक्ताः आसन्, ते सर्वे श्रीमद्भागवतकथामृतस्य पानार्थं तत्र धावन्तः समागतवन्तः । भृगुः, वसिष्ठः, च्यवनः, गौतमः, मेधातिथिः, देवलः, देवरातः, परशुरामः, विश्वामित्रः, शाकलः, मार्कण्डेयः, दत्तात्रेयः, पिप्पलादः, योगेश्वरौ व्यासपराशरौ, छायाशुकः, जाजलिः, जह्रुः इत्यादयः सर्वे प्रधानमुनयः स्वकीयैः स्त्रीपुत्रशिष्यैः सह महता प्रेम्णा तत्र समागतवन्तः । तदुपरि वेदः, उपनिषदः, मन्त्राः, तन्त्राः, सप्तदशपुराणानि, षट्शास्त्राणि चापि मूर्तिमन्तः भूत्वा तत्र समुपस्थिताः अभवन् इति, शुभम् । (माहात्म्यम् – ०३/०१-१५)
— नारदः ।
श्रीमद्भागवतप्रवचनम् -१२।। श्रीशुकदेवेन कथितं भागवतकथामृतम् अनुसृत्य यत्नपूर्वकं समुज्ज्वलं च ज्ञानयज्ञं करिष्यामि
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
