पूर्वराष्ट्रपतेः डोनाल्ड-ट्रम्पस्य उपरि आक्रमणस्य विषये अहं चिन्तितः अस्मि- नरेन्द्रमोदी।
पेन्सिल्वेनियानगरे निर्वाचनसभायाः समये अमेरिका- देशस्य पूर्वराष्ट्रपतिः डोनाल्ड-ट्रम्पः गोलिकाभिः आहतः। अस्मिन् आक्रमणे ट्रम्पः घातितः अस्ति, तथापि तस्य स्थितिः सुष्ठु: अस्ति। अस्मिन् आक्रमणे देशस्य प्रधानमन्त्री नरेन्द्रमोदी प्रतिक्रियाम् अददात्। सः X (पूर्वं ट्विट्टर्) इत्यत्र अवदत् यत् मम मित्रस्य पूर्वराष्ट्रपतेः डोनाल्ड-ट्रम्पस्य उपरि आक्रमणस्य विषये अहम् अत्यन्त: चिन्तितः अस्मि। अहं घटनायाः दृढतया निन्दां करोमि। राजनीतौ लोकतन्त्रे च हिंसायाः स्थानं नास्ति। अहं तस्य शीघ्रं स्वस्थतां कामयामि। अस्माकं विचाराः प्रार्थनाश्च मृतानां, आहतानाम्, अमेरिकनजनानाम् च परिवारैः सह सन्ति।
आक्रमणे गोलिका डोनाल्ड-ट्रम्पस्य दक्षिणकर्णे आहतवती।
व्यापारिकः दिग्गजः पूर्वराष्ट्रपतिः च डोनाल्ड-ट्रम्पः निर्वाचनसभायां भाषणं ददाति स्म, तदैव केनापि तस्य उपरि आक्रमणं कृतम्। ततः सहसा आक्रमणकर्त्ता तस्योपरि भुशुण्डीमाध्यमेन अग्निप्रहारं कृतवान्। अस्मिन् आक्रमणे गोलिका तस्य दक्षिणकर्णे आहतवती। तस्य कर्णयोः रक्तस्य स्फुटाः दृश्यन्ते। आक्रमणस्य अनन्तरं तत्क्षणमेव सुरक्षाधिकारिणः तं मञ्चात् अवतारयित्वा सुरक्षितस्थानं नीतवन्तः। तदनन्तरं तस्य चिकित्सा अपि कृता। अस्मिन् विषये गुप्तसेवाजनाः अवदन् यत् तेषां स्थितिः सम्यक् अस्ति। सः संकटात् बहिः अस्ति।