By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

डॉ मनोज शैल
Last updated: 2026/09/13 at 9:39 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

हिमसंस्कृतवार्ता — न्यूयोर्क:।

संयुक्तराष्ट्र-सुरक्षा-परिषदः आतङ्कवाद-विरोधी-समित्याः कार्यकारी-निदेशालयेन (CTED) प्रकाशितेन एकेन नूतनेन प्रतिवेदनेन स्पष्टीकृतं यत् आतङ्कवादी-समूहाः अधुना बालकान् यूनश्च स्व-जाले पातयितुं क्रीडा-मञ्चानां, वीभत्स-हिंसक-सामग्र्याः, नकारवादि-अन्तर्जाल-उपसंस्कृतेश्च आश्रयं गृह्णन्ति।

“सन्देश-प्रेषणात् परम्- कार्यात्मक-आधारभूत-संरचनात्वेन आतङ्कवादी-दुष्प्रचारः” (Beyond Messaging: Terrorist Propaganda as Operational Infrastructure) इति शीर्षकेण प्रकाशिते अस्मिन् प्रतिवेदने विज्ञापितं यत् आतङ्कवादी-सङ्घटनानि नूतन-सदस्यानां संयोजनाय, कट्टरता-प्रसाराय, धन-सङ्ग्रहणाय, रणनीतिक-योजनाभ्यः, स्व-प्रभाव-क्षेत्रेषु शासन-गतिविधीनां दृढीकरणाय च दुष्प्रचारस्य व्यापकम् उपयोगं कुर्वन्ति। प्रतिवेदनानुसारम् एते समूहाः अस्य दुष्प्रचारस्य उपयोगं केवलं सञ्चार-माध्यमत्वेन न कुर्वन्ति, अपि तु स्व-अभियानानां प्रमुख-आधारभूत-संरचना-रूपेण कुर्वन्ति।

 

अन्तर्जाल-मञ्चेषु वर्धते चरमपन्थि-चिन्तनम्

प्रतिवेदने प्रतिपादितं यत् युवा-सन्ततेः मस्तिष्के प्रभावम् उत्पादयितुं क्रीडा-मञ्चातिरिच्य अन्तर्जाल-पर्यावरणे (Online Ecosystem) हिंसक-चरमपन्थि-विचारधाराणां समन्वयः, तान्त्रिक-लैङ्गिक-हिंसा, महिला-विरोधि-मञ्चानां च दुरुपयोगः महती चिन्तायाः विषयः सञ्जातः अस्ति। विशेषतया आफ्रिका-देशेषु तथा मध्य-दक्षिण-एशिया-क्षेत्रेषु सक्रियाः आतङ्कि-गुल्माः स्थानीय-समस्यानाम् अनुचित-लाभं स्वीकर्तुं, स्वस्य प्रामाणिकतां साधयितुं, धन-सङ्ग्रहं विधातुं च अस्य दुष्प्रचारस्य आश्रयं लभन्ते।

निदेशालयेन सचेतितं यत् आतङ्कि-समूहानां द्रुतगत्या परिवर्तमानानां पद्धतीनां तथा च सदस्य-देशानां, वैधानिक-तन्त्राणां, अङ्कीय-मञ्चानां च प्रतिक्रि या-क्षमतायाः मध्ये महत् ‘अन्तरं’ समुत्पन्नम् अस्ति। प्रतिवेदने अस्य उपरि बलं दत्तं यत् अन्ताराष्ट्रिय-मानवाधिकार-नियमानां परिधौ स्थित्वा आतङ्कवाद-विरोधी-प्रयासेषु दुष्प्रचारः केवलं पाठ्य-सामग्री न मन्तव्यः, अपि तु आतङ्कवादस्य प्रमुख-सञ्चालक-रूपेण मत्वा अस्य निवारणं कर्तव्यम्।

You Might Also Like

कृषकाणाम् आय-संवर्धनाय प्रयासाः; मक्का-गोधूमयो: च निर्धारयिष्यते न्यूनतम-समर्थन-मूल्यम् (MSP)

लद्दाख-सौर-ऊर्जा-परियोजना हिमाचलस्य कृते सङ्कटः, परियोजनायाः पुनर्परीक्षणाय मुखरिताः स्वराः

विपक्ष-नेतुः जयराम-ठाकुरस्य गर्जनम् — हिमकेयर-योजनायाः अन्वेषणं कलङ्कयितुं केवलं नाटकम्; २०२७ तमे वर्षे भाजपा-दलस्य भविष्यति सर्वकारः

महत्तम-चिन्तायाः निवारणम् – स्थायिनः भविष्यन्ति शिक्षा-विभागस्य एते कर्मचारिणः; सर्वकारेण नियमितीकरणाय दत्ता स्वीकृतिः

शारीरिक-शिक्षा-शिक्षकाणां पृष्ठ-शेष-पदानां (बैकलॉग) ‘जॉब-ट्रेनी’-माध्यमेन पूरणे प्रतिबन्ध:, उच्चन्यायालयेन सर्वकारात् उत्तरं याचितम्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article कृषकाणाम् आय-संवर्धनाय प्रयासाः; मक्का-गोधूमयो: च निर्धारयिष्यते न्यूनतम-समर्थन-मूल्यम् (MSP)
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?