धर्मशाला महन्ता गद्दी सदैव संस्कृत-संस्कृतेः प्रसारस्य दिशि कार्य करिष्यति- महन्तः उपेन्द्रपाराशरः
हिमाचलस्य ऊनाजनपदे स्थितायां धर्मशाला महन्ता गद्दयां श्री श्री 1008 नकोदरदासगद्द्याश्रमे हिमाचलसंस्कृताकादम्याः सहयोगेन 11 जुलाई जुलाई तः 15 जुलाई 2024 पर्यन्तं ज्योतिषकर्मकाण्डविषये प्रशिक्षणशिविरं प्रचलति। अस्मिन्नावसरे चतुर्थे दिवसे गद्दयाः वर्तमानमहन्तवर्येण उपेन्द्रपाराशरेण सर्वेषां समागतानां धौतवस्त्रेण मिष्ठान्नेन च स्वागतं कृतम्। तेन स्वीये सम्बोधने उक्तं यत् अस्माकं गद्दयाः द्वाराणि संस्कृतसंस्कृतेः प्रसारार्थं सदैव उद्घाटिताः सन्ति। तेनोक्तं यत् तस्य अन्तर्मनः अनेन कार्यक्रमेण प्रसन्नः अस्ति, यतोहि बहूनि वर्षाणि पूर्वं गद्दयां एकः संस्कृतगुरुकुलः प्रचलति स्म, येन गद्दयाः वातावरणम् आध्यात्मिकं भवति स्म, परञ्च बहूनि वर्षाणि अनन्तरं अकादम्याः सौजन्येनन पुनः तादृशं वातावरणं गद्दयां निर्मितस्ति। कार्यक्रमस्य द्वितीये दिवसे विद्वदस्तु डॉ.लीलाधरवात्सायनः, डॉ.धनीरामसङ्गरः, डॉ.रामकुमारकौलः, डॉ.खेमराजशर्मा,अकादम्याः पूर्वसचिवः डॉ.मस्तरामशर्मा इत्यादयः गणमान्याः कार्यक्रमस्य शोभां वर्धितवन्तः।
धर्मशाला महन्ता गद्दी सदैव संस्कृत-संस्कृतेः प्रसारस्य दिशि कार्य करिष्यति- महन्तः उपेन्द्रपाराशरः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
