विप्रेभ्यः कर्मकाण्डप्रक्रियायां वैदिकसाहित्यस्य ज्ञानमपि आवश्यकम्- डॉ.रणजीतकुमारः
हिमसंस्कृतवार्ताः। हिमाचलसंस्कृताकादम्याः ज्योतिषकर्मकाण्डप्रशिक्षणशिविरे द्वितीये दिवसे शिविरं सम्बोधयन् केन्द्रीय विश्वविद्यालयः धर्मशाला इत्यस्य वेदाचार्येण डॉ.रणजीतकुमारेणोक्तं यत् वैदिकपूजनपद्दतेः संरक्षणमपि अस्माभिः कर्तव्यम्। तेनोक्तं यत् वर्तमानसन्दर्भे कर्मकाण्डप्रक्रियाायाम् अधिकतया पौराणिकविधानस्य समावेशः अधिकतया द्रष्टुं शक्यते, परञ्च वैदिकप्रक्रियायाः ज्ञानं कतिपयेषु विद्वस्तु अस्ति। कर्मकाण्डप्रक्रियायां वैदिकसाहित्यस्य ज्ञानस्योपादेयता विषये डॉ.कुमारेणोक्तं यत् वैदिकसाहित्ये निर्दिष्टानां क्रियाकलापानां विधेः भागस्य ज्ञानम् अत्यावश्यकं वर्तते, तत्रापि मन्त्रार्थस्य उपादेयता अपि मन्त्रोच्चारणकाले अस्माकं मनस्सु भवेत् एतदर्थं प्रयत्नाः विधेयाः। ज्योतिषविषये सम्बोधन् डॉ.शिवकुमारगर्गेण भद्राविचारस्य विषये विशदतया विषयः प्रस्तुतः, तत्रैव कुण्डल्यां भावाधिपतीनां विषये मुक्ततया चर्चा कृता। तेनोक्तं यत् वर्तमानसन्दर्भे फलितज्योतिषसहितं सिद्धान्तज्योषितस्यापि आवश्यकता अस्ति, अतः सदैव पुरोहितेभ्यः सिद्धान्तज्योतिषस्य विषयाणाम् अध्ययनं करणीयमस्ति। ध्यातव्यमस्ति प्रशिक्षणशिविरस्य द्वितीये दिवसे कर्मकाण्डप्रशिक्षणान्तर्गतं नवग्रहपूजनविधानस्य सर्वमपि पक्षं डॉ.रामकुमारकौलेन, डॉ.दीपकुमारेण प.भक्तरामशास्त्रिणा च च प्रतिपादितम्। अस्मिन्नावसरे अकादम्याः सचिवेन डॉ.केशवानन्द कौशलेन, कार्यक्रमसंयोजकेन डॉ.अमनदीप शर्मणा सर्वेषाँ समागतानां विप्राणामभिनन्दनं विधास्य अन्ये वरिष्ठाधिकारिभिः सहितं डॉ.रणजीतकुमारस्य स्मृतिचिह्नेन प्रमाणपत्रेण च सम्मानं कृतम्।
विप्रेभ्यः कर्मकाण्डप्रक्रियायां वैदिकसाहित्यस्य ज्ञानमपि आवश्यकम्- डॉ.रणजीतकुमारः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
1 Comment
1 Comment

भवदीयं कार्यम् अतुल्यम् ।