कतर-देशस्य पूर्व-अमीर-शेख-हमद-बिन-खलीफा-अल-थानी-महोदयस्य निधने भारते राष्ट्रीयशोकः घोषितः, भारतपक्षतः कतरं गमिष्यति केन्द्रीयमन्त्री किरेन रिजिजू
भारतदेशेन कतर-देशस्य पूर्व-अमीर-शेख-हमद-बिन-खलीफा-अल-थानी-महोदयस्य निधने श्रद्धाञ्जलिं समर्पयता अद्य एकदिवसीयः राष्ट्रीयशोकः घोषितः अस्ति। ह्यः कतर-देशस्य पूर्व-अमीर-शेख-हमद-बिन-खलीफा-अल-थानी-महोदयस्य निधनम् अभवत्। शोकदिवसे देशे तेषु सर्वेषु भवनेषु राष्ट्रध्वजः अर्धझुकितः (अर्धनामितः) स्थास्यति यत्र नियमितरूपेण राष्ट्रध्वजः उड्डीयते। अद्य किमपि आधिकारिकं मनोरञ्जनकार्यक्रमं न भविष्यति।प्रधानमन्त्री नरेन्द्रमोदी पूर्व-अमीर-शेख-हमद-बिन-खलीफा-अल-थानी-महोदयस्य निधने शोकं प्रकटयन् अवदत् यत् सः एकः दूरदर्शी नेता आसीत्, येन कतर-देशः विकासस्य समृद्धेः च नूतनशिखरं प्रापितः।विदेशमन्त्रालयेन एकेन वक्तव्येन उक्तं यत् संसदीयकार्य-अल्पसंख्यककार्यमन्त्री किरेन रिजिजू भारतसर्वकारस्य पक्षतः कतर-देशाय शोकं प्रकटयितुं तत्र गच्छन् अस्ति।
कतर-देशस्य पूर्व-अमीर-शेख-हमद-बिन-खलीफा-अल-थानी-महोदयस्य निधने भारते राष्ट्रीयशोकः घोषितः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
