स्थलसेनाध्यक्षः जनरल धीरजसेठः नेपालस्य प्रधानमन्त्रिणा बालेन्द्रशाहेन सह अमिलत्
भारतीयस्थलसेनाध्यक्षः जनरल धीरजसेठः अद्य काष्ठमण्डपे (काठमाण्डू) नेपालस्य प्रधानमन्त्रिणा बालेन्द्रशाहेन सह मेलनम् अकरोत्। एतत् मेलनं तस्य चतुर्दिवसीय-नेपाल-यात्रायाः अवसरे अभवत्। नेपालस्य प्रधानमन्त्रिकार्यालयस्य अनुसारं, सा एका शिष्टाचार-भेटः आसीत्। अस्मिन् अवसरे नेपाले भारतस्य राजदूतः नवीनश्रीवास्तवः अपि उपस्थितः आसीत्। नेपालस्य राष्ट्रपतिः रामचन्द्रपौडेलः ह्यः जनरल धीरजसेठाय नेपालीसेनायाः ‘मानद-जनरल’ इत्युपाधिं समर्पितवान्। जनरल सेठः नेपालसेनाध्यक्षस्य जनरल अशोकराजसिग्देलस्य औपचारिक-निमन्त्रणेन रविवासरे काष्ठमण्डपं प्राप्तवान् आसीत्। नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः नेपालस्य रक्षामन्त्रालयस्य कार्यभारमपि वहति।
स्थलसेनाध्यक्षः जनरल धीरजसेठः नेपालस्य प्रधानमन्त्रिणा बालेन्द्रशाहेन सह अमिलत्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
