By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Politics : भाजपायाः कश्चन अपि पदं राज्ये कार्यं न करिष्यति, काङ्ग्रेसः त्रीणि अपि आसनानि जेष्यति – प्रतिभासिंह
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Politics : भाजपायाः कश्चन अपि पदं राज्ये कार्यं न करिष्यति, काङ्ग्रेसः त्रीणि अपि आसनानि जेष्यति – प्रतिभासिंह
राजनैतिकवार्ताहिमाचलवार्ता

HP Politics : भाजपायाः कश्चन अपि पदं राज्ये कार्यं न करिष्यति, काङ्ग्रेसः त्रीणि अपि आसनानि जेष्यति – प्रतिभासिंह

डॉ मनोज शैल
Last updated: 2024/07/08 at 5:48 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Politics : भाजपायाः कश्चन अपि पदं राज्ये कार्यं न करिष्यति, काङ्ग्रेसः त्रीणि अपि आसनानि जेष्यति – प्रतिभासिंह

हिमसंस्कृतवार्ता: – शिमला।

 

हिमाचलप्रदेशस्य काङ्ग्रेसस्य अध्यक्षा प्रतिभासिंह अवदत् यत् राज्यस्य त्रिषु अपि विधानसभा- उपनिर्वाचनेषु काङ्ग्रेसः विशालबहुमतेन विजयं प्राप्नोति। हमीरपुर-देहरा-नालागढाणां मतदातार: काङ्ग्रेसपक्षे प्रवृत्ताः सन्ति, राज्ये काङ्ग्रेससर्वकारं सुदृढं कर्तुं जनाः एकीकृताः सन्ति। उपनिर्वाचनत्रयानन्तरं राज्ये काङ्ग्रेसविधायकानां संख्या ४१ भवितुं गच्छति। प्रतिभासिंह अत्र प्रसारिते वक्तव्ये उक्तवती यत् भारतीयजनतापक्षस्य कोऽपि राजनैतिकं पदं राज्ये अधुना कार्यं कर्तुं न गच्छति। सा अवदत् यत् राज्ये उपनिर्वाचनानां कृते भाजपा पूर्णतया उत्तरदायी अस्ति, अतः सा कदापि अस्मात् मुक्तः न भविष्यति। सा उक्तवती यत् पूर्वनिर्वाचिता: त्रयः विधायकाः  स्वमतदातृणां विश्वासं भङ्गं कृतवन्तः यस्य कृते ते तान् निर्वाचितवन्तः। अत एव क्षेत्रस्य जनाः तान् कदापि न क्षमिष्यन्ति। एते त्रयः पूर्वविधायकाः स्वकर्मणां कृते जनानां पुरत: क्षमायाचनां कुर्वन्तु इति उक्तवती। प्रतिभासिंह दलस्य पदाधिकारिभ्य: व कार्यकर्तृभ्य: च उक्तवती यत् निर्वाचने त्रीणि दिनानि अवशिष्टाणि अतः कांग्रेसं प्रति भाजपाया: दुष्प्रचारात् मतदातृभ्य: सचेतयता दलं प्रति स्वनिष्ठा पूर्णदायित्वेन कर्तव्या अस्ति। सा उक्तवती यत् राज्ये काङ्ग्रेस-सर्वकारेण कर्मचारिभ्यः ओपीएस-पुनर्स्थापनं कृत्वा महिलाभ्यः १५०० रूप्यकाणां मानदं प्रदत्तं कृत्वा स्वस्य प्रतिज्ञा पूर्णा कृता अस्ति। सा उक्तवती यत् काङ्ग्रेसः पूर्णतया जनहिताय समर्पिता अस्ति। भाजपा मिथ्यावक्तव्यं कृत्वा जनान् भ्रामयितुम् असफलतया प्रयतते। भाजपायाः नीतिं अभिप्रायं च जनाः सम्यक् अवगताः सन्ति यत् सत्तां ग्रहीतुं राज्ये पूर्णबहुमतेन काङ्ग्रेससर्वकारस्य अस्थिरीकरणस्य प्रयासः कृतः तत् राज्यस्य लोकतन्त्रस्य जनमतस्य च अपमानः आसीत् यत् कदापि न भवितुम् अर्हति। राज्यस्य काङ्ग्रेससर्वकारः पूर्णतया सशक्तः अस्ति, तस्य कार्यकालं सफलतया सम्पन्नं भविष्यति।

You Might Also Like

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति

TAGGED: Congress, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP Congress, HP NEWS, HP Politics, Pratibha Singh, कांग्रेस, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल कांग्रेस, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Bye Election : सोमवासरे निर्वाचनप्रचार: स्थगितः भविष्यति, जुलै १० दिनाङ्के मतदानम्
Next Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?