By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Bye Election : सोमवासरे निर्वाचनप्रचार: स्थगितः भविष्यति, जुलै १० दिनाङ्के मतदानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Bye Election : सोमवासरे निर्वाचनप्रचार: स्थगितः भविष्यति, जुलै १० दिनाङ्के मतदानम्
राजनैतिकवार्ताहिमाचलवार्ता

HP Bye Election : सोमवासरे निर्वाचनप्रचार: स्थगितः भविष्यति, जुलै १० दिनाङ्के मतदानम्

डॉ मनोज शैल
Last updated: 2024/07/08 at 5:45 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Bye Election : सोमवासरे निर्वाचनप्रचार: स्थगितः भविष्यति, जुलै १० दिनाङ्के मतदानम्

हिमसंस्कृतवार्ता: – शिमला। 

 

हिमाचलप्रदेशे १० जुलै दिनाङ्के भाव्य उपनिर्वाचनानां निर्वाचनकोलाहलः सोमवासरे स्थगितः भविष्यति। गुरुवासरे सायं ५ वादनानन्तरं राजनैतिकदलानि सभाः, जनसभाः च कर्तुं न शक्ष्यन्ति। तथापि द्वारे द्वारे अभियानं निरन्तरं भविष्यति। देहरा, हमीरपुरं, नालागढ-क्षेत्रेषु उपनिर्वाचनस्य सज्जता निर्वाचनविभागेन सम्पन्ना अस्ति। बुधवासरे त्रिषु विधानसभाक्षेत्रेषु ३१५ मतदानकेन्द्रेषु प्रातः ७ वादनतः सायं ६ वादनपर्यन्तं मतदानं भविष्यति। ये जनाः मतदानकक्षस्य बहिः पङ्क्तौ स्थिताः सन्ति ते सर्वे जनाः मतदानं कर्तुं शक्नुवन्ति।

निर्वाचनविभागेन देहरायां १००, हमीरपुरे ९४, नालागढे १२१ मतदानकेन्द्राणि स्थापितानि सन्ति। २०२४ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के प्रकाशितानां मतदातासूचीनां अन्तर्गतं उपनिर्वाचने कुलम् २,५९,३४० मतदातारः मतदानं करिष्यन्ति । नालागढविधानसभाक्षेत्रस्य सर्वाधिकं ९४,७५५ मतदातार:, देहरायां ८६५२० मतदातारः, हमीरपुरे च ७८,०६५ मतदातारः मतदानं करिष्यन्ति। देहरायां ८५ वर्षाणाम् उपरि १४८७, हमीरपुरे १०६०, नालागढे ७८७ मतदातार: सन्ति । १८-१९ आयुवर्गे देहरायां २०४७, हमीरपुरे २२०८, नालागढे २२६८ मतदातारः सन्ति । एतदतिरिक्तं त्रिषु विधानसभाक्षेत्रेषु ७२ मतदातारः सन्ति येषां आयुः १०० वर्षाणाम् अधिकः अस्ति ।

राज्यस्य दृष्टिः देहरायाम्

देहरा विधानसभाक्षेत्रे कुलम् पञ्च प्रत्याशिन: निर्विचनस्पर्धियां  सन्ति। एतेषु मुख्यस्पर्धा काङ्ग्रेसपक्षस्य कमलेशठाकुराया: भाजपापक्षस्य होशियारसिंहस्य च मध्ये अस्ति। एतस्य अतिरिक्तं सुलेखादेवी, अंकेशसयालः, अधिवक्ता संजयशर्मा च निर्दलीयप्रत्याशीरूपेण भाग्यस्य प्रयासं कुर्वन्ति। मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: पत्नी कमलेशठाकुर काङ्ग्रेसपक्षतः निर्वाचनं गृह्णाति। एतादृशे सति एतत् आसनं उष्णपीठं जातम् अस्ति तथा च राज्यस्य सर्वत्र जनानां नेत्राणि अस्मिन् आसने एव सन्ति।

 

हमीरपुर- विधानसभाक्षेत्रम्

हमीरपुरविधानसभाक्षेत्रे त्रयः प्रत्याशिन: निर्वाचनक्षेत्रे सन्ति। अत्र मुख्या स्पर्धा भारतीयजनतापक्षस्य काङ्ग्रेसपक्षस्य च मध्ये भवति । भारतीयजनतापार्टीति दलस्य आशीष: शर्मा, कांग्रेसपार्टीति दलस्य डॉ. पुष्पेन्द्रवर्मा व निर्दलीय: प्रत्याशी नंदलालशर्मा च निर्वाचनप्राङ्गणे सन्ति। २०१७ तमे वर्षे अपि काङ्ग्रेसस्य डॉ. पुष्पेन्द्रवर्मा, आशीषशर्मा च स्पर्धां कृतवन्तः । परन्तु तदा आशीषशर्मा निर्दलीयप्रत्याशीरूपेण निर्वाचनं कृतवान् आसीत् । २०१७ तमे वर्षे नरेन्द्रठाकुरः भाजपा प्रत्याशी आसीत्।

 

नालागढ़- विधानसभाक्षेत्रम्

नालागढविधानसभाक्षेत्रस्य उपनिर्वाचने कुलपञ्च प्रत्याशिन: निर्वाचनसमरे सन्ति। हरदीपसिंह बावा कांग्रेसतः, केएल ठाकुरः भाजपातः, किशोरीलालशर्मा स्वाभिमान पार्टीतः, हरप्रीतसिंहः विजयसिंहः च निर्दलीयप्रत्याशीरूपेण निर्वाचनप्राङ्गणे सन्ति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, HP Bye Election, HP Election, HP Election department, HP NEWS, दिव्य हिमाचल समाचार, निर्वाचन आयोग, विधानसभा उप चुनाव, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल उप चुनाव, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Weather : शिमलायां वृष्टि:, कुल्लौ भूस्खलनेन गोशाला पतिता, चत्वारि गृहाणि संकटे सन्ति
Next Article HP Politics : भाजपायाः कश्चन अपि पदं राज्ये कार्यं न करिष्यति, काङ्ग्रेसः त्रीणि अपि आसनानि जेष्यति – प्रतिभासिंह
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?