By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/30 at 9:24 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • निर्वाचनप्रचारः – लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः गतदिवसे सायंकाले समाप्तः। प्रधानमंत्रिणा मोदिना पञ्जाबस्य होशियारपुरे कृता जनसभा।
  • प्रधानमन्त्री नरेन्द्रमोदी अद्य आरभ्य तमिलनाडुप्रदेशस्य कन्याकुमार्यां त्रिदिवसीययात्रायां भविष्यति। कन्याकुमार्यां श्रीमोदी शिलास्मारकं गत्वा पुरा यत्र स्वामी विवेकानन्दः ध्यानं कृतवान् तत्रैव ध्यानमण्डपमे ध्यानं करिष्यति। अस्याः शिलायाः स्वामी विवेकानन्दस्य जीवने महती प्रभावः आसीत्।
  • भारतस्य ऋतुविज्ञानविभागेन (IMD) सूचितं यत् दक्षिणपश्चिमवर्षर्तुः केरलस्य उपरि प्रविश्य अद्य पूर्वोत्तरभारतस्य अधिकांशभागेषु उन्नति याति। जूनमासस्य प्रथम-दिनांकः इति सामान्यप्रारम्भदिनात् दिवसैक पूर्व वर्षर्तुः आयाति।
  • एकस्मिन् उल्लेखनीयसिद्धौ भारतीय प्रौद्यौगिकी संस्थान मद्रास- इत्यस्य नवोद्योग-संस्था अग्निकुल-कोस्मोस्-इत्यनेन एकखण्ड-त्रि-आयामी (3D) मुद्रित-प्रचालकेन सह विश्वस्य प्रथमं आग्नेयास्त्र-प्रक्षेपणं कृतम् अस्ति।
  • प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिक-प्रसार-तन्त्र-जाले उक्तं यत् अग्निबान-प्रक्षेपास्त्रस्य सफलप्रक्षेपणं भारतस्य अन्तरिक्षक्षेत्रस्य कृते महत्त्वपूर्णः अवसरः अस्ति अपि च अस्माकं युवशक्तेः विलक्षण-चातुर्यस्य प्रमाणम् अस्ति। श्रीमोदी सर्वेभ्यः शुभकामनाम् अयच्छत्।
  • मुष्टामुष्टी- ओलम्पिक-पात्रताप्रतियोगितायां भारतस्य सचिन-सिवाचः प्रवेशं प्राप्तवान्।
  • चतुरङ्गक्रीडायां प्रज्ञानानंदेन शास्त्रीय-स्पर्धायां प्रथमवारं नॉर्वे देशस्य मैग्नस-कार्लसन् इत्येषः पराजितः ।

हिमाचलवार्ता:

  • हिमाचलप्रदेशे अभिलेखविध्वंसकतापस्य मध्ये ऋतौ परिवर्तनं जातम्। गुरुवासरे अपराह्ने राज्यराजधानी शिमलानगरे वर्षा अभवत्। वर्षाकारणात् ऋतु: शीतलः जातः। गतरात्रौ लाहौल-शिखरेषु लघुहिमपातः अभवत्। ऋतुविज्ञानकेन्द्रं शिमलाद्वारा गुरुवासरात् एकसप्ताहं यावत् राज्यस्य अनेकेषु भागेषु वर्षा भविष्यति इति पूर्वानुमानं कृतम्।
  • कुल्लुजनपदस्य रायसनस्य समीपे पैराग्लाइड-यानं कुर्वन् ऊर्ध्वतः पतित्वा एकः पर्यटकः मृतः। मृतकस्य परिचय: ५७ वर्षीयः गौतम खरात: पुत्रः कृष्णखरात: इति ज्ञातम्। मृतः महाराष्ट्रस्य ठाणेमण्डलस्य निवासी आसीत्। पुलिसैः शवः स्वनिग्रहे गृहीत्वा दुर्घटनायाः अन्वेषणं आरब्धम् अस्ति।
  • हिमाचले जूनमासस्य प्रथमदिनाङ्के आयोज्य लोकसभा- मतदानं दृष्ट्वा  शुष्कदिवसस्य घोषणा कृता अस्ति। आदेशानुसार मई 30 दिनांकत: सायं 6 वादनतः 1 जून दिनाङ्कस्य सायं 6 वादनपर्यन्तं अथवा मतदानप्रक्रियायाः समाप्तिपर्यन्तं शुष्कदिवसः प्रयोज्यः भविष्यति। तथैव जूनमासस्य ४ दिनाङ्कः अपि शुष्कदिवसः इति घोषितः अस्ति।
  • मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः निर्वाचनप्रचारस्य अन्तिमे दिने चक्रवात- भ्रमणं कृत्वा देहराया: मुहाले धरमपुरस्य चलोथरायां, सुजानपुरे, कुटलैहड़स्य समलाडायां, कोटे च जनसभा: सम्बोधितवान्। मुख्यमन्त्री उक्तवान् यत् विक्रीतस्य कमलस्य पुष्पीकरणं न भविष्यति। विक्रयणीयकाङ्ग्रेसविधायकान् नामपत्रं दत्त्वा भाजपाया: वास्तविककार्यकर्तारः निराशाः भवन्ति। लोकसभया सह भाजपायाः षट् विधानसभासनेषु पराजयस्य सम्मुखीकरणं कर्तव्यं भविष्यति।
  • विपक्षस्य नेता जयरामठाकुरः मण्डीजनपदस्य करसोगनगरे भूतल-परिवहनमन्त्री नितिनगडकरी इत्यस्य कृते आयोजितायां जनसभायाम् अवदत् यत् आगामिसमये सम्पूर्णे हिमाचले एकलक्षकोटिरूप्यकाणां परियोजनाः प्रचलन्ति येन राज्ये यातायातस्य सरलता सुलभं भविष्यति। राज्यस्य प्रत्येकं कोणं उत्तममार्गैः, कन्दराभि:, रज्जुमार्गैः च सम्बद्धं भविष्यति। अस्माकं मध्ये राजमार्गपुरुषः नितिनगडकरी एतद् सर्वम् अददत्। एषा नरेन्द्रमोदी इत्यस्य प्रतिज्ञा अस्ति।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Election : हिमाचले काङ्ग्रेससर्वकारः, अतः आपदि केन्द्रात् सहायता न प्राप्ता – प्रियंका गांधी। देशस्य संविधानं लोकतन्त्रं च संकटे अस्ति, जनाः परिवर्तनं इच्छन्ति – शशि थरूर:
Next Article National News : निर्वाचनप्रचारः – लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः गतदिवसे सायंकाले समाप्तः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?