By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : निर्वाचनप्रचारः – लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः गतदिवसे सायंकाले समाप्तः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : निर्वाचनप्रचारः – लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः गतदिवसे सायंकाले समाप्तः
राष्ट्रीयवार्ताः

National News : निर्वाचनप्रचारः – लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः गतदिवसे सायंकाले समाप्तः

डॉ मनोज शैल
Last updated: 2024/05/30 at 9:30 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National News : निर्वाचनप्रचारः – लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः गतदिवसे सायंकाले समाप्तः

प्रधानमंत्रिणा मोदिना पञ्जाबस्य होशियारपुरे कृता जनसभा

हिमसंस्कृतवार्ता- नवदेहली। 

लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः अद्य सायंकाले समाप्तः। सप्तराज्येषु विस्तृतानि (५७) सप्तपञ्चाशत् संसदीयक्षेत्राणि, एके केन्द्रशासितक्षेत्रं च अस्मिन् चरणीयमतदाने संलग्नानि सन्ति। मतदानञ्च जूनमासस्य प्रथमदिना‌ङ्के भविष्यति। एतेषु क्षेत्रेषु सन्ति उत्तरप्रदेशे पञ्जाबप्रदेशे च १३-१३, पश्चिमबङ्गे ९, बिहारे ८. ओडिशायां ६, हिमाचलप्रदेशे चत्वारि, झारखण्डे त्रीणि, चण्डीगढस्य केन्द्रशासितक्षेत्रे एकैकं आसन्दं च अन्तर्भवति ओडिशाराज्ये द्विचत्वारिंशत् विधानसभासनानि अपि अस्मिन्

चरणे युगपत् एव निर्वाचनं गमिष्यन्ति। सप्तपञ्चाशत् लोकसभासनेभ्य आहत्य चतुरधिकनवशतम् अभ्यर्थिनः सन्ति। विभिन्नराजनैतिकदलानां शीर्षनेतारः मतदातॄन् आकर्षयितुं कोणात्कोणतरं क्षेत्रमपि अत्यजन्तः सन्ति। प्रधानमन्त्री भाजपा इति दलस्य वरिष्ठनेता च नरेन्द्रमोदी पंजाबस्य होशियारपुरनगरे निर्वाचनसभां सम्बोधितवान्। सः काङ्ग्रेस-दलस्य, इण्डी-गठबन्धनस्य च उपरि तुष्टीकरणस्य राजनीतेः आरोपं कृतवान् ।

मोदीमहोदयः अवदत् यत् तुष्टीकरणस्य कृते काङ्ग्रेसपक्षः राममन्दिर-निर्माणस्य निरन्तरं विरोधं करोति, नागरिकतासंशोधन विधेयस्य विरोधं च करोति। प्रधानमन्त्रिणा उक्तं यत् तस्य सर्वकारः दलितानां, अन्य-वंचित वर्गस्य च आरक्षणं हृत्वा केवलं मुस्लिमधर्मावलंबिभ्यः एव दातुं न अनुमन्यते। ओडिशाराज्ये वरिष्ठका‌ङ्ग्रेसनेता राहुलगान्धी अद्य प्रातः बालासोरलोकसभाक्षेत्रस्य अन्तर्गतसिमुलियानगरे विशालजनसभां सम्बोधितवान् यत्र सः आरोपितवान् यत् ओडिशाप्रदेशे सत्ताधारिणः बीजद-दलस्य भाजपायाश्च परस्परराजनैतिकलाभानां कृते गुप्तसहमतिः अस्ति।

प्रधानमंत्रिण: नरेन्द्रमोदिन: त्रिदिवसीया कन्याकुमारी-यात्रा आरब्धा 

हिमसंस्कृतवार्ता। 

प्रधानमन्त्री नरेन्द्रमोदी अद्य आरभ्य तमिलनाडुप्रदेशस्य कन्याकुमार्यां त्रिदिवसीययात्रायां भविष्यति। कन्याकुमार्यां श्रीमोदी शिलास्मारकं गत्वा पुरा यत्र स्वामी विवेकानन्दः ध्यानं कृतवान् तत्रैव ध्यानमण्डपमे ध्यानं करिष्यति। अस्याः शिलायाः स्वामी विवेकानन्दस्य जीवने महती प्रभावः आसीत्। यथा गौतमबुद्धस्य जीवने सारनाथस्य विशेषं स्थानं वर्तते तथैव स्वामी विवेकानन्दस्य जीवने अपि अस्याः शिलायाः स्थानं वर्तते इति जनाः मन्यन्ते। स्वामी विवेकानन्दः देशं परिभ्रमित्वा त्रिदिनानि यावत् ध्यानं कृत्वा अत्रैव विकसितस्य भारतस्य दर्शनं प्राप्तवान् । एतस्मिन् एव स्थाने ध्यानं कृत्वा स्वामी विवेकानन्दस्य विकसितभारतस्य दृष्टिः, जीवन्तं कर्तुं मोदिनः प्रतिबद्धतां दर्शयति। एतत् भारतस्य दक्षिणतमं अग्रभागम् अस्ति। ततः परं भारतस्य सागरीय-पूर्वपश्चिमतटरेखाः अत्रैव मिलन्ति । अत्र हिन्दमहासागरस्य, बङ्ग-खातेः, अर्बुदसागरस्य च मिलनस्थानम् अस्ति। प्रधानमन्त्री नैर्वाचनिक-प्रचारानाम् अन्ते आध्यात्मिकयात्रां कर्तुं प्रसिद्धः अस्ति । तदनुरूपं सः अद्य कन्याकुमारीं प्राप्स्यति। सः एकोनविंशत्यधिकद्विसहस्र-तमे वर्षे केदारनाथं गतवान् आसीत्, चतुर्दशाधिकद्विसहस्र-तमे वर्षे च शिवाजीवर्यस्य- प्रतापगढं गतवान् ।

ऋतुविज्ञानविभाग: – दक्षिणपश्चिमवर्षर्तुः केरलस्य उपरि प्रविश्य अद्य पूर्वोत्तरभारतस्य अधिकांशभागेषु उन्नति याति

हिमसंस्कृतवार्ता। भारतस्य ऋतुविज्ञानविभागेन (IMD) सूचितं यत् दक्षिणपश्चिमवर्षर्तुः केरलस्य उपरि प्रविश्य अद्य पूर्वोत्तरभारतस्य अधिकांशभागेषु उन्नति याति। जूनमासस्य प्रथम-दिनांकः इति सामान्यप्रारम्भदिनात् दिवसैक पूर्व वर्षर्तुः आयाति। आकाशवाणी इत्यनेन सह वार्तालापं कुर्वन् भारतीय ऋतुविज्ञानविभागस्य महानिदेशकः मृत्युंजयमोहापात्रः अवदत् यत् आगामिषु द्वि-त्रिषु दिवसेषु कर्नाटका, तमिलनाडु, पुडुचेरी इत्यादिषु दक्षिणभारतस्य अवशिष्टेषु भागेषु वर्षोंः आरम्भाय अनुकूलाः परिस्थितयः सन्ति। उपहिमालयन पश्चिमबगे, सिक्किमेन च सहितं पूर्वोत्तरभारतस्य सर्वेषु भागेषु अपि वर्षर्तुः आगमिष्यतीति सः अवदत्। तापतरङ्गविषये भारतीय ऋतुविज्ञानविभागेन सूचितं यत् अद्यारभ्य तापतरङ्गस्य परिस्थितेः तीव्रता न्यूनीभवितुं शक्यते। डॉ. मोहपात्रः अवदत् यत् दक्षिणपश्चिमवायुः समीपं गच्छति इति कारणतः वायव्यभारतस्य उपरि वर्षा वज्रवृष्टिः च सम्भवतीति।

भारतीयप्रौद्यौगिकीसंस्थानेन मद्रासेन एकखण्ड-त्रि-आयामी (3D) मुद्रित-प्रचालकेन सह विश्वस्य प्रथमं आग्नेयास्त्र-प्रक्षेपितम्

हिमसंस्कृतवार्ता। एकस्मिन् उल्लेखनीयसिद्धौ भारतीय प्रौद्यौगिकी संस्थान मद्रास- इत्यस्य नवोद्योग-संस्था अग्निकुल-कोस्मोस्-इत्यनेन एकखण्ड-त्रि-आयामी (3D) मुद्रित-प्रचालकेन सह विश्वस्य प्रथमं आग्नेयास्त्र-प्रक्षेपणं कृतम् अस्ति। आग्नेयास्ख-अग्निबाण SOrTeD (SubOrbital Technological Demonstrator) भारतस्य प्रथमः अर्ध-क्रायोजेनिक इति प्रचालक-सञ्चालितः आग्नेयास्त्र-प्रक्षेपणः अपि अस्ति यस्य

पूर्णतया प्रारूपः स्वदेशीयरूपेण निर्मितं च अस्ति आन्ध्रप्रदेशस्य श्रीहरिकोटायां अग्निकुलेन स्थापितात भारतस्य प्रथम निजविकसितात् ‘धनुष’ इति प्रक्षेपणस्थलात् प्रातः सार्धसप्त-वादने प्रक्षेपणं कृतम् । अद्य परीक्षण-उड्डयनस्य उद्देश्यं आन्तरिक स्वोत्पादित-प्रौद्योगिकीनां प्रदर्शनं, महत्त्वपूर्ण-उड्डयन-विवरणानां संग्रहणं, अग्निकुलस्य कक्षीय-प्रक्षेपण-वाहनस्य ‘अग्निबान्-इत्यस्य कृते प्रणालीनां इष्टतमं कार्यं सुनिश्चितं कर्तुं च अस्ति। अग्निबाण- SOrTeD इत्यस्य सफलप्रक्षेपणार्थं अग्निकुल कॉस्मोस् इत्यस्य अभिनन्दनं कुर्वन् इस्रो इत्यस्य अध्यक्षः एस सोमनाथः उक्तवान् यत् अग्निबान् इति द्विचरणीय-प्रक्षेपास्त्रम् अस्ति यस्य क्षमता त्रिशतं किलोग्राम इति भारपर्यन्तं वहनं सप्तशत कि.मी. इति दूरान्त्रञ्च प्रक्षेपणमिति प्रक्षेपास्त्र-प्रचालकम् द्रव-आक्सीजन कैरोसिन इति इंधनेन चालितं भवति ।

प्रधानमंत्रिणा मोदिना प्रदत्ता: शुभकामना:

प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिक-प्रसार-तन्त्र-जाले उक्तं यत् अग्निबान-प्रक्षेपास्त्रस्य सफलप्रक्षेपणं भारतस्य अन्तरिक्षक्षेत्रस्य कृते महत्त्वपूर्णः अवसरः अस्ति अपि च अस्माकं युवशक्तेः विलक्षण-चातुर्यस्य प्रमाणम् अस्ति। श्रीमोदी सर्वेभ्यः शुभकामनाम् अयच्छत्।

जम्मूकश्मीर दुर्घटना : तीर्थयात्रिकान् वहत् बसयानं गभीर-खात्यां पतित्वा न्यूनातिन्यूनं षोडश यात्रिकाः मृताः

हिमसंस्कृतवार्ता। जम्मू-कश्मीरे अद्य अपराले जम्मू-मण्डलस्य अखनूर-उपमण्डलस्य तुङ्गी-मोड़-क्षेत्रे तीर्थयात्रिकान् वहत् बसयानं गभीर-खात्यां पतित्वा न्यूनातिन्यूनं षोडश यात्रिकाः मृताः, पञ्चाशत् जनाः पातिताः च सन्ति। आकाशवाण्याः जम्मूसंवाददाता ज्ञापितवान् यत् व्रणितानाम् उपमण्डलीय-चिकित्सालये अखनूर इत्यत्र स्थानान्तरणं कृतम् अस्ति, यतः गम्भीररूपेण घातितानां जम्मू-नगरस्य शासकीय-चिकित्सा- महाविद्यालयं प्रति प्रेषणं कृतम् अस्ति। मृतानां व्रणितानां च परिचयः निश्चीयते। जम्मूतः रियासीमण्डलस्य शिवखोरीगुहां प्रति गच्छत् एतत् बसयानं अधिकतया उत्तरप्रदेशस्य तीर्थयात्रिकान् वहति स्म, अधिकविवरणं च प्रतीक्षते।

मुष्टामुष्टी- ओलम्पिक-पात्रताप्रतियोगितायां भारतस्य सचिन-सिवाचः प्रवेशं प्राप्तवान्

हिमसंस्कृतवार्ता।   मुष्टामुष्टी-क्रीडायां भारतस्य सचिन-सिवाचः थाईलैण्ड-देशस्य बैंकॉक्-नगरे विश्व-पात्रता-प्रतियोगितायाः प्रागुपान्त्य-चक्रीय-क्रीडायां प्रवेशं प्राप्तवान् । सः तुर्कि-देशस्य बटुहान सिफ्टी इत्यस्मै सर्वसम्मत्या सप्तपञ्चाशत् किलोग्राममिते वर्गे पञ्च-शून्य इत्यंकान्तरालेन पराजितवान् । सः आगामिनि पेरिस्-ओलम्पिक क्रीडायां प्रवेशाय स्पर्धयोः विजयं प्रतीक्षते।

चतुरङ्गक्रीडायां प्रज्ञानानंदेन प्रथमवारं नॉर्वे देशस्य मैग्नस-कार्लसन् इत्येषः पराजितः

हिमसंस्कृतवार्ता।   चतुरङ्गक्रीडायां प्रज्ञानानंदेन शास्त्रीय-स्पर्धायां प्रथमवारं नॉर्वे देशस्य मैग्नस-कार्लसन् इत्येषः पराजितः । अष्टादशवर्षीयः भारतीयः विलक्षण – क्रीडकः चतुर्विंशत्यधिक-द्विसहस्र-तम-वर्षस्य चतुरङ्ग-क्रीडायाः तृतीय-चक्रे प्रथम विश्वक्रमाङ्‌ङ्क क्रीडकं पराजितवान् । अनेन विजयेन सहैव प्रज्ञानानंदः सम्प्रति पञ्च दशमलव पञ्च इत्यङ्कान्तरालेन अग्रे अस्ति।

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article विश्व-तम्बाकू-निषेध-दिवसः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?