HP EDUCATION DEPARTMENT – १४ वर्षपुरातने ए.सी.पी.-विवादे शिक्षाविभागस्य निर्णयः, विद्यालयप्रवक्तृभ्यः प्राप्स्यते वेतनलाभः
हिमसंस्कृतवार्ता: — शिमला । हिमाचलप्रदेश-विद्यालयीय-शिक्षा-निदेशालयेन प्रदेशस्य प्रवक्तृभिः सम्बद्धस्य १४ वर्षपुरातनस्य सुदीर्घकालात् प्रलम्बितस्य ‘एश्योर्ड करियर प्रोग्रेशन’ (ACP) इत्यस्य प्रकरणस्य निर्णयं कुर्वता वेतनलाभं प्रदातुं निर्णयः गृहीतः। वित्तविभागस्य दिशानिर्देशानुसारं पात्राणां प्रवक्तृणां वेतनं ‘ए.सी.पी.’ योजनायाः (४-९-१४) अन्तर्गतं पुनर्निर्धारयिष्यते, यत्रैव नियमितीकरणस्य भिन्न-पूर्वतिथीनाम् आधारेण प्रदत्ताः ए.सी.पी.-लाभाः प्रतिगृह्यिष्यन्ते।
उच्च-शिक्षा-निदेशालयेन बुधवासरे प्रसारितेन आदेशानुसारम् एषः निर्णयः वित्तविभागस्य वर्ष २०१२ तथा २०१४ तमे वर्षे कृतानां स्पष्टीकरणानाम् आधारेण स्वीकृतः। आदेशे प्रतिपादितं यत् पात्रप्रवक्तृभ्यः ८ अगस्त २०१२ पर्यन्तं ‘नोशनल’ (काल्पनिक) आधारेण तथा च ९ अगस्त २०१२ दिनाङ्कतः वास्तविक-वित्तीय-लाभः प्रदास्यते। आदेशस्य प्रतिलिपयः महालेखाकारकार्यालयं (AG Office), उपनिदेशकान्, सम्बद्धान् विद्यालयान् च प्रति प्रेषिताः, येन लाभान्वितानां प्रकरणानाम् उपरि आगामिकार्यविधिं कर्तुं शक्येत।
एषः विषयः बहुभ्यः वर्षेभ्यः प्रलम्बितः आसीत् विभिन्नस्तरेषु च स्पष्टीकरणानि याच्यन्ते स्म। अधुना आदेशप्रसारणेन प्रभावितानां शिक्षकाणां वित्तीयलाभप्राप्तेः मार्गः सुगमः जातः। सम्प्रति सर्वे लाभाः ‘ऑडिट’ (लेखापरीक्षा) सत्यापनस्य अधीनाः भविष्यन्ति। यदि भविष्ये कस्यापि प्रकारस्य अतिरिक्तभुक्ति: त्रुटिः वा सम्मुखम् आगमिष्यति, तर्हि सम्बद्धाय अधिकारिणे कर्मचारिणे वा सम्पूर्णा राशिः एकांशेन प्रतिप्रदातव्या भविष्यति। एतदर्थं लाभान्वितेभ्यः लिखितं प्रतिज्ञापत्रं (‘अण्डरटेकिंग’) ग्रहीतुं सेवापुस्तिकायां च तस्य अङ्कनं कर्तुं निर्देशाः दत्ताः सन्ति। प्रतिज्ञापत्रस्य पूर्णात् परमेव अवशिष्टराशेः (एरियर इत्यस्य) भुक्ति: विधास्यते।
