By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मोदीसर्वकारेण हिमाचलस्य विकासाय प्रदत्ता उड्डयन-क्षमता, प्रदेशे प्रचलति ‘सूटकेस-सर्वकारः’ – सञ्जयटण्डनः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > मोदीसर्वकारेण हिमाचलस्य विकासाय प्रदत्ता उड्डयन-क्षमता, प्रदेशे प्रचलति ‘सूटकेस-सर्वकारः’ – सञ्जयटण्डनः
राजनैतिकवार्ताहिमाचलवार्ता

मोदीसर्वकारेण हिमाचलस्य विकासाय प्रदत्ता उड्डयन-क्षमता, प्रदेशे प्रचलति ‘सूटकेस-सर्वकारः’ – सञ्जयटण्डनः

डॉ मनोज शैल
Last updated: 2026/07/06 at 10:26 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मोदीसर्वकारेण हिमाचलस्य विकासाय प्रदत्ता उड्डयन-क्षमता, प्रदेशे प्रचलति ‘सूटकेस-सर्वकारः’ – सञ्जयटण्डनः

हिमसंस्कृतवार्ता: — धर्मशाला ।

भारतीयजनतापक्षस्य (भाजपा) प्रदेश-सहप्रभारिणा सञ्जयटण्डनेन सोमवारवासरे ‘पण्डित दीनदयाल उपाध्याय प्रशिक्षण महाअभियान’ इत्यस्य अन्तर्गतं पालमपुर-जालन्धर-धर्मशालामण्डलस्य प्रशिक्षणवर्गे मुख्यतिथिरूपेण भागः गृहीतः। अस्मिन् अवसरे भाजपाप्रदेशोपाध्यक्षः हिमाचलप्रदेशविधानसभायाः पूर्वतन्-अध्यक्षः विपिनसिंहपरमारः विशेषरूपेण उपस्थितः आसीत्। स्वकीये सम्बोधने सञ्जयटण्डनेन कथितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्त्वे केन्द्रसर्वकारेण हिमाचलप्रदेशस्य, विशेषतः काङ्गड़ा-संसदीयक्षेत्रस्य सर्वाङ्गीणविकासाय अभूतपूर्वः सहयोगः प्रदत्तः अस्ति। तेन प्रोक्तं यत् केन्द्रसर्वकारेण हिमाचलाय विकास-स्वास्थ्य-मार्ग-शिक्षा-आधारभूतसंरचनानां क्षेत्रेषु ऐतिहासिकाः उपहाराः दत्ताः, परन्तु वर्तमान-काङ्ग्रेससर्वकारः एतेषां संसाधनानां प्रभावी-उपयोगं कर्तुं पूर्णतया विफलः संजातः।

तेन प्रतिपादितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्त्वे हिमाचलप्रदेशाय एम्स (AIIMS) बिलासपुरं, मेडिकल डिवाइस पार्क, हाइड्रो इंजीनियरिंग कॉलेज, राष्ट्रियमार्गाणाम् विस्तारं समेताः सहस्रशः कोटिरूप्यकाणां विकासपरियोजनाः समर्पिताः सन्ति। यत्रैव सद्यः एव केन्द्रसर्वकारेण हिमाचलप्रदेशाय ३,९२० कोटिरूप्यकाणां केन्द्रीयसहायता अपि उपलब्धं कारिता। एतदतिरिच्य ‘प्रधानमंत्री ग्राम सडक़ योजना’ इत्यस्याः अन्तर्गतं वर्ष २०२५-२६ मध्ये प्रदेशाय २,२४७ कोटिरूप्यकाणां व्ययेन २९४ मार्गपरियोजनाः स्वीकृताः, यासु केन्द्रसर्वकारस्य प्रायः २,०१९ कोटिरूप्यकाणां योगदानं वर्तते।

सञ्जयटण्डनेन कथितं यत् केन्द्रसर्वकारेण प्राकृतिकविपदाम् अवसरेष्वपि हिमाचलप्रदेशाय सर्वविधं साहाय्यं प्रदत्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वयं प्रदेशस्य भ्रमणं कृत्वा साहाय्य-पुनर्वासकार्येभ्यः १,५०० कोटिरूप्यकाणां विशेष-साहाय्य-प्रदत्तस्य (पैकेज) घोषणा कृता तथा च राष्ट्रियमार्गाणां, प्रधानमंत्री आवासयोजनायाः, एसडीआरएफ (SDRF) इत्यस्य कृषकाणां च कृते अतिरिक्तसाहाय्यं प्रदातुं निर्णयः विहितः।

तेन आरोपः कृतः यत् प्रदेशसर्वकारः केन्द्रात् प्राप्तायाः धनराशेः समुचितम् उपयोगं कर्तुं विफलः जातः, येन कारणेन विकासकार्याणि प्रभावितानि सन्ति। तेन उक्तं यत् काङ्ग्रेससर्वकारः केवलं घोषणासु प्रचारं यावत् एव सीमितः अस्ति, यत्रैव धरातले (भूमितले) जनतायै अपेक्षितः लाभः न प्राप्यते।

सञ्जयटण्डनेन प्रतिपादितं यत् हिमाचलप्रदेशे भ्रष्टाचारः चरमे वर्तते अद्य च प्रदेशे एकः भ्रष्टः सर्वकारः प्रचलति, यं जनता ‘सूटकेस-सर्वकारः’ इति नाम्ना ज्ञातुम् आरब्धवती अस्ति। तेन कथितं यत् काङ्ग्रेसस्य एव नेतारः सार्वजनिकरूपेण अयम् आरोपं कुर्वन्ति यत् प्रदेशसर्वकारः प्रत्येकस्मिन् मासे पञ्च सूटकेस-पेटिकाः पूरयित्वा देहलीं प्रेषयति। यदा स्वयं काङ्ग्रेसस्य नेतारः स्वसर्वकारस्य उपरि एतादृशान् गम्भीरारोपान् उत्थापयन्ति, तदा प्रदेशस्य जनता अवगन्तुं शक्नोति यत् सर्वकारस्य कार्यप्रणाली कीदृशी वर्तते।

तेन उक्तं यत् भारतीयजनतापक्षः कार्यकर्तृ-आधारितं सङ्घटनं वर्तते तथा च पण्डितदीनदयालस्य ‘अन्त्योदय’ विचारं नीत्वा समाजस्य अन्तिमव्यक्तिं यावत् प्राप्तुं कटिबद्धः अस्ति। प्रशिक्षणवर्गाणाम् उद्देश्यं कार्यकर्तॄन् वैचारिकरूपेण सशक्तं विधातुं, सङ्घटनात्मकक्षमतायाः विकासं कर्तुं जनसेवायै च भूयः प्रभावीकरणं वर्तते। अस्मिन् अवसरे भाजपायाः अनेके वरिष्ठाधिकारिणः, जनप्रतिनिधयः, प्रशिक्षणवर्गस्य कार्यकर्ताराश्च उपस्थिताः आसन्।

You Might Also Like

आर.सी.एस. उड्डयनयोजना – कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते हेलिकॉप्टर-सेवा आरब्धा

रजनीपाटिलमहोदया अवदत्- सङ्घटनस्य जनानाम् उपेक्षाभावाः आसन्, मुख्यमन्त्रिणा मन्त्रिभिः च साकं वार्तालापः कारितः

हिमाचल-मानसूनकाल: – २४ घण्टाः सक्रिया भविष्यति आपदा-सहायता-दूरभाषसङ्ख्या, एकस्मिन् आह्वाने एव प्राप्स्यते साहाय्यम्, दिशानिर्देशाः प्रसारिताः

हिमाचलप्रदेशे महत् प्रशासनिकपरिवर्तनम्, १८ आईएएस तथा १६ एचएएस अधिकारिणां स्थानान्तरणम्

HP Congress – हिमाचल-काङ्ग्रेसेन सङ्घटनस्य दृढीकरणाय निर्मितं मार्गचित्रम्, राज्ये सद्यः एव भविष्यति मन्त्रिमण्डलविस्तारः

TAGGED: bjp, BJP Himachal, Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, भाजपा, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल भाजपा, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article आर.सी.एस. उड्डयनयोजना – कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते हेलिकॉप्टर-सेवा आरब्धा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?