By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/28 at 10:43 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयावार्ता: 

  • चक्रवातस्य रेमल इत्यस्य प्रभावेण पश्चिम बङ्गाले दुरापादित-घटनासु षड्-जनाः मृत्युमुपगताः। तत्र झञ्झावातेन प्रबल- वृष्ट्या च जनजीवनं पर्याकुलितं विद्यते। सामुद्रिकं जलं कृषिक्षेत्रे मत्स्य-पलन-क्षेत्रे च समागतम्। अत्रान्तरे जनाः प्रशासनिक-साहाय्य- केन्द्रेभ्यः गृहं प्रति प्रस्थीयन्ते।
  • विनाशकारं भूस्खलनं निध्याय भारतेन पापुआ न्यू गिनी राष्ट्र साहाय्य पुनर्वास-पुनर्निर्माण-प्रयासान् समर्थितुं एक-लक्षम् अमरीकी डॉलर मितस्य साहाय्य-राशेः घोषणा कृता। पापुआ न्यू गिनी इत्यत्र एंगा प्रान्ते अस्य मासस्य चतुर्विंशे दिने एकं विनाशकारं भू-स्खलनं जातम्। अस्मिन् भू-स्खलने शतशो जनाः आपीडिताः तत्र जनधन-हानिश्च सञ्जाता। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् प्राकृतिक-आपत् कारणेन समुत्पन्ने काठिन्य-समये भारतं पापुआ न्यू गिनी देशेन सह विद्यते।
  • प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् जून मासस्य चतुर्थ दिवसानन्तरं भ्रष्टजनान् विरुध्य कठोर-कार्याचरणं विधास्यते। झारखण्डस्य दुमका-विमान-पत्तन-प्राङ्गणे एकां जनसभां सम्बोधयन् प्रधानमन्त्री अवदत् यत् झारखण्ड-मुक्ति-मोर्चा-दलेन, कांग्रेस-दलेन च झारखण्डं लुष्ठितम्। भ्रष्ट- मन्त्रिणाम् संसत्सदस्यानाम् अधिकारिणाम् च स्थलेषु अन्वीक्षणे बृहन्मात्रायां धनं प्राप्तम्।
  • आयुष मन्त्रालयस्य सचिवः वैद्यराजेश कोटेचा उक्तवान् यत् आयुषक्षेत्रस्य विकासाय अधिकशोधस्य आवश्यकता वर्तते। सः अवदत् यत् विगतदशवर्षेषु मन्त्रालयेन शोध- आधारितकार्यं कृतम्। सः नवदेहल्यां चिकित्साविज्ञानं, टेक्नो नवीनतायां फार्मा रिसर्च (प्रगति-२०२४) इत्यस्य च उद्घाटनं कृत्वा पत्रकारान् सम्बोधयन् आसीत्।
  • राष्ट्रियान्वीक्षणाभिकरणेन मानव-तस्करणेन अन्तर्जालापराधेन च सम्बद्धं गुल्मं विरुध्य अभियाने पञ्च- जनाः निगडिताः। राज्यारक्षि-बलानां संयुक्त कार्याचरणे षड्-राज्येषु केन्द्र-शासित प्रदेशेषु च पञ्चदश स्थलेषु अन्वीक्षणं कृतम्। एते आरोपिणः बडोदरा-गोपालगञ्ज-दक्षिण-पश्चिम दिल्ली-गुरुग्राम-चण्डीगढ़-नगरेभ्यः निगडिताः।

हिमाचलवार्ता: 

  • हिमाचलप्रदेशस्य राजधानीं शिमलानगरम् आगतः विदेशमन्त्री एस. जयशंकरः अवदत् यत् विश्वस्य तनावपूर्णा स्थितिः अस्ति, प्रचलन्तः द्वन्द्वाश्च शीघ्रमेव समाप्ताः भवितुम् अर्हन्ति तथा च अस्मिन् परिदृश्ये भारते स्थिरसर्वकारस्य  तथा च “जालसंजालेन, प्रतिष्ठया, सम्मानेन च सह” दृढस्य शक्तिशालिनः च नेतु: सर्वकारस्य च आवश्यकता वर्तते।
  • भाजपादलस्य राष्ट्रीयाध्यक्ष: जगतप्रकाशनड्डा मंगलवासरे विभिन्नासु निर्वाचनजनसभासु राज्यस्य काङ्ग्रेससर्वकारस्य, इण्डी-गठबन्धनस्य च उपरि प्रबलं मौखिकम् आक्रमणं कृतवान्। नड्डा इत्यनेन उक्तं यत् इण्डी गठबन्धनं भ्रष्टजनानाम् एकः समागमः अस्ति। तेषां बहवः नेतारः कारागारे सन्ति, बहवः प्रतिभूतिरूपेण च सन्ति। राज्यसर्वकारं कोणं कृत्वा सः अवदत् यत् आपदायै, निर्माणाय, मार्गनिर्माणाय, आवासनिर्माणाय च केन्द्रेण दत्तस्य बजटस्य पूर्णतया विवरणं ग्रहीष्यते।
  • हिमाचले ऋतुना विश्रामः न दत्तः। मंगलवासरे द्वितीयदिनं यावत् तापमानं सर्वोच्चस्तरं प्राप्तवान्। शिमलानगरे अपि तापमानस्य महती वृद्धिः दृष्टा अस्ति । राजधानीं परितः वनेषु अग्निः अपि अत्र तापमानं प्रभावितं कृतवान् अस्ति । बहुकालानन्तरं राजधान्यां तापमानं ३० डिग्री सेल्सियसं अतिक्रान्तम् अस्ति ।
  • सतपाल रायजादा इत्यस्य अतिरिक्तं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गगरेट-कुटलैहड़-बडसर इत्यत्र राकेश कालिया, विवेक शर्मा, सुभाष ढटवालिया इत्येतेषां पक्षे मतदानस्य निवेदनं कृतवान् । सः अवदत् यत् अनुरागठाकुरः २० वर्षाणि यावत् सांसदः भूत्वा गच्छति, परन्तु रेलमार्गः ऊनातः तलवाड़ापर्यन्तं न गत: न च हमीरपुरं यावत्। अनुरागः असत्यस्य साहाय्येन स्वराजनीतिं चालयति। मोदी अनुरागः च दशवर्षपूर्वं उक्तवन्तौ यत् रेलमार्गः एकवर्षेण तलवाड़ानगरं प्राप्स्यति, तेषां कृते जनसामान्यं वक्तव्यं यत् इदानीं सञ्चिका किमर्थं मग्ना अस्ति।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, himsanskritnews headlines, International news, National News, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य सामाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, लोकसभा चुनाव, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Election : मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः वदेत्  ५५ लक्षरूप्यकाणि कुत्र प्राप्तानि कुत्र च गतानि – जयरामठाकुरः
Next Article National News : Himsanskritnews  आरक्षणस्य नाम्नि मत-प्राप्तये राजनीतिं करोति कांग्रेसदलम् – प्रधानमंत्री मोदी  पापुआ न्यू गिनी साहाय्यम् – भारतेन एक-लक्षम् अमरीकी डॉलर मितस्य साहाय्य-राशेः घोषणा कृता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?