By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : Himsanskritnews  आरक्षणस्य नाम्नि मत-प्राप्तये राजनीतिं करोति कांग्रेसदलम् – प्रधानमंत्री मोदी  पापुआ न्यू गिनी साहाय्यम् – भारतेन एक-लक्षम् अमरीकी डॉलर मितस्य साहाय्य-राशेः घोषणा कृता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : Himsanskritnews  आरक्षणस्य नाम्नि मत-प्राप्तये राजनीतिं करोति कांग्रेसदलम् – प्रधानमंत्री मोदी  पापुआ न्यू गिनी साहाय्यम् – भारतेन एक-लक्षम् अमरीकी डॉलर मितस्य साहाय्य-राशेः घोषणा कृता
राष्ट्रीयवार्ताः

National News : Himsanskritnews  आरक्षणस्य नाम्नि मत-प्राप्तये राजनीतिं करोति कांग्रेसदलम् – प्रधानमंत्री मोदी  पापुआ न्यू गिनी साहाय्यम् – भारतेन एक-लक्षम् अमरीकी डॉलर मितस्य साहाय्य-राशेः घोषणा कृता

डॉ मनोज शैल
Last updated: 2024/05/28 at 10:52 PM
डॉ मनोज शैल
Share
6 Min Read
SHARE

National News : Himsanskritnews

  1. आरक्षणस्य नाम्नि मत-प्राप्तये राजनीतिं करोति कांग्रेसदलम् – प्रधानमंत्री मोदी
  2. पापुआ न्यू गिनी साहाय्यम् – भारतेन एक-लक्षम् अमरीकी डॉलर मितस्य साहाय्य-राशेः घोषणा कृता
  3. चक्रवातस्य रेमल इत्यस्य प्रभावेण दुरापादित-घटनासु षड्-जनाः मृत्युमुपगताः
  4. लोकसभा-निर्वाचनम् – जून मासस्य चतुर्थ दिवसानन्तरं भ्रष्टजनान् विरुध्य कठोर-कार्याचरणं विधास्यये – प्रधानमंत्री मोदी
  5. राष्ट्रियान्वीक्षणाभिकरणेन अन्तर्जालापराधेन च सम्बद्धं पञ्च- जनाः निगडिता:।
  6. आयुषक्षेत्रस्य विकासाय अधिकशोधस्य आवश्यकता वर्तते- आयुष मन्त्रालय:

चक्रवातस्य रेमल इत्यस्य प्रभावेण दुरापादित-घटनासु षड्-जनाः मृत्युमुपगताः

चक्रवातस्य रेमल इत्यस्य प्रभावेण पश्चिम बङ्गाले दुरापादित-घटनासु षड्-जनाः मृत्युमुपगताः। तत्र झञ्झावातेन प्रबल- वृष्ट्या च जनजीवनं पर्याकुलितं विद्यते। सामुद्रिकं जलं कृषिक्षेत्रे मत्स्य-पलन-क्षेत्रे च समागतम्। अत्रान्तरे जनाः प्रशासनिक-साहाय्य- केन्द्रेभ्यः गृहं प्रति प्रस्थीयन्ते। अपरत्र मिजोरम-राज्ये अद्य प्रातः दुरापन्ने भूस्खलने द्वादश जनाः मृत्युमुपगताः। इदं भूस्खलनं राजधान्याः आइजोल-नगरात् चतुर्किलोमीटर-दूरस्थे ह्निमे-क्षेत्रे दुरापन्नम्। तत्र साहाय्योद्धार-कार्यं सजवं विधीयते। अवधेयं यत् प्रेमल- चक्रवातेन गतरात्रौ प्रबलवृष्टिः झञ्झावातश्च समागतौ। अपि च असम-राज्ये रेमल चक्रवात-कारेण विविध-जनपदेषु प्रबल-संचेतना प्रसारिता। प्रभावित जनपदेषु विद्युत्सेवा गत निशीथात् स्थगिता अस्ति। तत्र विद्यालयाः अपि दिन द्वयं यावत् विहिताः सन्ति। पूर्वोत्तर- क्षेत्रस्य रेलसेवा अपि अनेन चक्रवातेन दुष्प्रभाविता वर्तते।

पापुआ न्यू गिनी साहाय्यम् – भारतेन एक-लक्षम् अमरीकी डॉलर मितस्य साहाय्य-राशेः घोषणा कृता

विनाशकारं भूस्खलनं निध्याय भारतेन पापुआ न्यू गिनी राष्ट्र साहाय्य पुनर्वास-पुनर्निर्माण-प्रयासान् समर्थितुं एक-लक्षम् अमरीकी डॉलर मितस्य साहाय्य-राशेः घोषणा कृता। पापुआ न्यू गिनी इत्यत्र एंगा प्रान्ते अस्य मासस्य चतुर्विंशे दिने एकं विनाशकारं भू-स्खलनं जातम्। अस्मिन् भू-स्खलने शतशो जनाः आपीडिताः तत्र जनधन-हानिश्च सञ्जाता। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् प्राकृतिक-आपत् कारणेन समुत्पन्ने काठिन्य-समये भारतं पापुआ न्यू गिनी देशेन सह विद्यते। मन्त्रालयेनोक्तं यत् आपत्- हानेः न्यूनीकरणं प्रबन्धनं च भारतस्य हिन्द-प्रशान्त महासागर-नीतेः आई.पी.ओ.आई. इत्यस्याः एकः मुख्य-स्तम्भः वर्तते। अस्य घोषणा नवदशोत्तर-द्विससहस्र-तमे वर्षे नवम्बर-मासे प्रधानमन्त्रिणा नरेन्द्र-मोदिना कृतासीत्। भारतं मानवीय साहाय्यं प्रति आपदोद्धारं प्रति च वचनबद्धम् अस्ति।

राष्ट्रियान्वीक्षणाभिकरणेन अन्तर्जालापराधेन च सम्बद्धं पञ्च- जनाः निगडिताः

(एन.आई.ए) इति राष्ट्रियान्वीक्षणाभिकरणेन मानव-तस्करणेन अन्तर्जालापराधेन च सम्बद्धं गुल्मं विरुध्य अभियाने पञ्च- जनाः निगडिताः। राज्यारक्षि-बलानां संयुक्त कार्याचरणे षड्-राज्येषु केन्द्र-शासित प्रदेशेषु च पञ्चदश स्थलेषु अन्वीक्षणं कृतम्। एते आरोपिणः बडोदरा-गोपालगञ्ज-दक्षिण-पश्चिम दिल्ली-गुरुग्राम-चण्डीगढ़-नगरेभ्यः निगडिताः। एते सर्वे तस्मै गुल्माय कार्य कुन्वन्ति स्म यः भारतीय-युवभ्यः आजीविकायाः वृथा-आश्वासनं प्रदाय विदेशेषु नयति स्म। विदेशं च उपेत्य एतान् यूनः लाओस कम्बोडिया-प्रभूति स्थलेषु अवैध गतिविधिषु कार्यं कर्तुं वदति स्म। संयुक्त-कार्याचरणे आ‌ङ्ङ्किकोपकरणानि पारगमन-पत्राणि छद्म- प्र-पत्राणि आपत्तिजनक-सामग्री च जडीकृताः। अस्मिन् प्रकरणे विविध-राज्येषु अष्ट प्राथमिक्यः पञ्जीकृताः। अस्य मासस्य आरम्भे राष्ट्रियान्वीक्षणाभिकरणेन अन्वीक्षणे ज्ञातं यत् अस्य गुल्मस्य व्यापकान्ताराष्ट्रिय-सम्बन्धाः सन्ति। अस्मिन् प्रकरणे इतोपि अन्वीक्षणं विधीयते।

लोकसभा-निर्वाचनम् – जून मासस्य चतुर्थ दिवसानन्तरं भ्रष्टजनान् विरुध्य कठोर-कार्याचरणं विधास्यये – प्रधानमंत्री मोदी

लोकसभानिर्वाचनस्य सप्तमान्तिमचरणाय च प्रचाराभियानं तीव्रतया प्रचलति। राजनीतिक दलानां शीर्षनेतारः जनसभाः मार्ग-प्रदर्शनं च कुर्वन्ति। अस्मिन् चरणे जूनमासस्य प्रथमे दिनाङ्‌के अष्ट-राज्यानां सप्तपञ्चाशत् लोक-सभासनेभ्यः मतदानं भविष्यति। मतगणना तदनु जूनमासे चतुर्थे दिवसे भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् जून मासस्य चतुर्थ दिवसानन्तरं भ्रष्टजनान् विरुध्य कठोर-कार्याचरणं विधास्यते। झारखण्डस्य दुमका-विमान-पत्तन-प्राङ्गणे एकां जनसभां सम्बोधयन् प्रधानमन्त्री अवदत् यत् झारखण्ड-मुक्ति-मोर्चा-दलेन, कांग्रेस-दलेन च झारखण्डं लुष्ठितम्। भ्रष्ट- मन्त्रिणाम् संसत्सदस्यानाम् अधिकारिणाम् च स्थलेषु अन्वीक्षणे बृहन्मात्रायां धनं प्राप्तम्। पश्चिम बंगालस्य बारासात बसिरहाट च लोकसभासनयोः प्रत्याशिनयोः समर्थन अद्य उत्तर चतुर्विंशतिः परगना जनपदे भाजपेति दलस्य वरिष्ठनेता प्रधानमंत्री नरेन्द्र मोदी एकां जनसभां संबोधितवान्। अस्मिन् अवसरे श्री मोदी अवदत् यत् तस्य शासनकाले भ्रष्टाचारस्य प्रति शून्यसहिष्णुता वर्तते। प्रधानमन्त्री उक्तवान् यत् काङ्ग्रेसदलं विपक्षिणां इण्डि संयुतिः च सामान्यजनानाम् विषये न चिन्तयति, ते केवलम् आत्मनः चिन्तामेव कुर्वन्ति। सः अवदत् यत् पश्चिमबङ्गालस्य मतुआ समुदायस्य जनेभ्यः सीएए-इत्यन्तर्गतं नागरिकता दीयते। सममेव उक्तं यत् तदीय-प्रशासने महिलाः सशक्ताः भवन्ति इति। अपरत्र बिहारस्य मुख्यमंत्री नितीश कुमारः नालन्दा-लोकसभासनस्य अष्टवन क्षेत्रे जनसभां सम्बोधयन् लालू-प्रसाद यादवम् आलोचयत्। आर.जे.डी. प्रमुखः लालू-यादवः अवोचत् यत् ऐषमः निर्वाचनम् आरक्षणं संविधानं च संरक्षितुं वर्तते। अन्यत्र उत्तरप्रदेश-मुख्यमन्त्री योगी-आदित्यनाथः गोरखपुरस्य प्रत्याशिनः रविकिशनस्य पक्षे प्रचारम् अकरोत्।

आरक्षणस्य नाम्नि मत-प्राप्तये राजनीतिं करोति कांग्रेसदलम् – प्रधानमंत्री मोदी 

प्रधानमन्त्री अथ च भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता नरेन्द्र मोदी कांग्रेस-दलम् अधिक्षिपत् यत् तत् दलम् आरक्षणस्य नाम्नि मत-प्राप्तये राजनीतिं करोति। एकस्मिन् वार्ता-अभिकरणेन सह स्वीय-साक्षात्कारे श्रीमोदी उक्तवान् यत् विपक्षिणः मत-प्राप्तये राजनीतिं विधाय भारतीय संविधानस्य मूल-भावनायाः उल्लङ्घनं दधते। अमुना प्रोक्तं यत् विपक्षिणः अनुसूचित- जातिभ्यः अनुसूचित जनजातिभ्यः पश्च-वर्तिभ्यः च छलं कुर्वन्ति। श्री-मोदी अवदत् यत् सः एतेषां समुदाय-जनानाम् अधिकाराणां रक्षायै योत्स्यति। अपि च प्रवर्तन निदेशालयस्य केन्द्रीयान्वीक्षणाभिकरणस्य आयकर विभागस्य च प्रयोग-विषयक-विपक्षिणाम् आरोपस्य निराकरणं विदधता प्रधानमन्त्री अवोचत् यत् तदीयं प्रशासनं भ्रष्टाचार-निराकर्तुं कार्याचरणे विश्वसिति। लोकसभायां जम्मू- कश्मीरे प्रबल-मतदान-विषये श्री मोदी अवोचत् यत् तस्मै सन्तोषप्रदः अयम् वर्तते। कश्मीरवासिनः उत्साह-पूर्वकं मतदाने प्रतिभागम् अकुर्वन्। आत्मनिर्भर-लक्ष्यान्तर्गतं स्वदैशिक-प्रतिभासंवर्धनं वृत्यवसर-क्षमतानां च संवर्धनमिति प्रशासनस्य उद्देश्यं वर्तते। 

आयुषक्षेत्रस्य विकासाय अधिकशोधस्य आवश्यकता वर्तते- आयुष मन्त्रालय:

हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।

आयुष मन्त्रालयस्य सचिवः वैद्यराजेश कोटेचा उक्तवान् यत् आयुषक्षेत्रस्य विकासाय अधिकशोधस्य आवश्यकता वर्तते। सः अवदत् यत् विगतदशवर्षेषु मन्त्रालयेन शोध- आधारितकार्यं कृतम्। सः नवदेहल्यां चिकित्साविज्ञानं, टेक्नो नवीनतायां फार्मा रिसर्च (प्रगति-२०२४) इत्यस्य च उद्घाटनं कृत्वा पत्रकारान् सम्बोधयन् आसीत्।  आयुषमन्त्रालयस्य शोधसंस्थायाः आयुर्वेदिक- विज्ञान- संशोधन- केन्द्रीयपरिषद्द्वारा अस्य आयोजनस्य आयोजनं कृतम्। तेनोक्तं यत् अस्मिन् क्षेत्रे वैश्विकमानकानां पूर्तये सर्वेषां हितधारकाणां दायित्वं वर्तते यत् ते मिलित्वा कार्यं कुर्यु:। सः अवदत् यत् आयुषमन्त्रालयः अपि देशं पारम्परिकौषधीषु सक्षमं कर्तुं कार्यं कुर्वन् अस्ति।

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय समाचार, लोकसभा चुनाव, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Himachal News : Himsanskritnews  भारते सशक्तनेतृत्वस्य, स्थिरसर्वकारस्य च आवश्यकता, यतोहि विश्वे प्रचलन्ति द्वन्द्वाः- विदेशमन्त्री HP Election: केन्द्रात् हिमाचलाय प्रदत्तस्य धनस्य सम्पूर्णं विवरणं ग्रहीष्यते – जेपीनड्डा HP Election 2024 : अनुरागठाकुर: स्पष्टं कुर्यात् यत्  तलवाड़ा-हमीरपुरम् कदा प्राप्स्यति रेलयानम् आकाशात् प्रचण्डताप: निरन्तरं वर्षति, अधुनापि कोऽपि उपशमः नास्ति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?