By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Election : मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः वदेत्  ५५ लक्षरूप्यकाणि कुत्र प्राप्तानि कुत्र च गतानि – जयरामठाकुरः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Election : मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः वदेत्  ५५ लक्षरूप्यकाणि कुत्र प्राप्तानि कुत्र च गतानि – जयरामठाकुरः
राजनैतिकवार्ताहिमाचलवार्ता

HP Election : मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः वदेत्  ५५ लक्षरूप्यकाणि कुत्र प्राप्तानि कुत्र च गतानि – जयरामठाकुरः

डॉ मनोज शैल
Last updated: 2024/05/27 at 10:32 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HP Election : मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः वदेत्  ५५ लक्षरूप्यकाणि कुत्र प्राप्तानि कुत्र च गतानि – जयरामठाकुरः

हिमसंस्कृतवार्ता- हमीरपुरम्। 

पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः हमीरपुरस्य बड़सरे जनसभां सम्बोधयन् अवदत् यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: कथयति यत् निर्वाचनकाले बडसरे ५५ लक्षरूप्यकाणि प्राप्तानि। यस्य विषये सः अमूर्तान् आरोपान् कृतवान् अस्ति। सुक्खु:, तद् धनं कुतः प्राप्तम् इति कथयतु। भवन्तः केन सह मिलितवन्तः? केन तत् गृहीतम् ? कथं गृहीतम् ? कस्मिन् पुलिस-स्थानके प्रकरणं पञ्जीकृतम् आसीत् ? कस्य संस्थायाः पञ्जीकरणं कृतम् ? तत् धनं कुत्र गतम् ? अहं प्रत्येकस्मिन् स्तरे पृष्टवान्। माध्यमैः, अधिकारिभिः, सर्वैः उपायैः च ज्ञात्वा स्पष्टं जातं यत् एतादृशी घटना नाभवत् । एतादृशं ग्रहणम् अभिलेखे नास्ति तथा च मुख्यमन्त्री अन्यैः अशोभनवस्तूना सह धनं पुनः प्राप्तम् इति प्रेसवक्तव्यमपि प्रकाशितवान्। मुख्यमन्त्री भूत्वा एतादृशं मिथ्यावचनं वदन् अपि मुख्यमन्त्रीपदस्य गौरवस्य विरुद्धम् अस्ति। मुख्यमन्त्री एतादृशं प्रकटं असत्यं वदति, शिष्टाचारविरुद्धं व्यवहारं करोति तस्मात् अधिकं लज्जाजनकं किमपि न भवितुम् अर्हति । मुख्यमन्त्री केवलं असत्यं वदन् सार्धैकवर्षं यावत् सर्वकारं चालितवान्।

जयराम ठाकुरः अवदत् यत् यदा काङ्ग्रेस-विधायकाः मुख्यमन्त्रिणः असफलतायाः कारणेन दलं त्यक्तवन्तः तदा आरभ्य मुख्यमन्त्री किमपि वदति। कल्पितकथां निर्माय ते अधुना भाजपाप्रत्याशिनां कृते दोषं ददति। एतादृशानां निराधारवार्तानां कारणेन सः विपदि भवितुं गच्छति। अनेके भाजपानेतारः तस्य विरुद्धं आपराधिकं मानहानिप्रकरणं कृतवन्तः, यस्य प्रक्रिया प्रचलति। अतीव शीघ्रमेव तेषां असत्यस्य उत्तरं दातव्यं भविष्यति। राज्यस्य जनाः सर्वकारस्य प्रत्येकं असफलतायाः उत्तरं दातुं सज्जाः सन्ति। निर्वाचनानन्तरं यदा नरेन्द्रमोदी तृतीयवारं प्रधानमन्त्री भविष्यति तदा काङ्ग्रेससर्वकारः अपि हिमाचलात् प्रस्थास्यति।

जयराम ठाकुरः उक्तवान् यत् सार्धैवर्षस्य सर्वकारे काङ्ग्रेसेन केवलं असत्यं उक्तम्। राज्यस्य मातृशक्तिः, युवा, कृषकाः, उद्यानपालका: च सर्वे वञ्चिताः अभवन् । केवलं प्रतिमासं ऋणं गृहीतवान् परन्तु एकं अपि विकासकार्यं न कृतवान्। निर्वाचितप्रतिनिधिनां अपमानं कृत्वा मित्रैः सर्वकारः चालितः आसीत् । निर्वाचितविधायकानां वचनं न श्रुतम्। जनहितसम्बद्धानि कार्याणि तै:  परामर्शितानि तानि स्थगितानि । ये पार्षदनिर्वाचने विजयं प्राप्तुं न शक्नुवन्ति ते भवतः हितसम्बद्धं कार्यं स्थगितवन्तः। यदा विधायकानाम् जनहितकार्यं न भवति, मन्त्रिणां दलस्य अध्यक्षस्य च कार्यं न भवति तदा विधायकः किं करिष्यति? सर्वे स्वरं उत्थापितवन्तः परन्तु उपेक्षिताः। अद्य यत्किमपि भवति, तस्य उत्तरदायी मुख्यमंत्री सुक्खु एव अस्ति। तस्य गृहमण्डलस्य केवलं त्रयः विधायकाः एव तस्य विरुद्धाः सन्ति, एतेन तस्य कार्यपद्धतिः का इति स्पष्टं भवति। जयराम ठाकुरः अवदत् यत् सम्प्रति मुख्यमन्त्री हिमकेयर, सहारा इत्यादीनां योजनानां स्थगितीकरणस्य, युनां कृते कार्याणि न दत्तस्य, चयन-आयोगस्य विघटनस्य, युनां परिणामान् न मुक्तस्य, मातृभगिनीनां वञ्चना इत्यादीनां लज्जाजनकानाम् कार्याणां निवारणस्य उत्तरं दातव्यम् अस्ति। राज्यस्य जनेभ्य: अपि उत्तरं दातव्यम् अस्ति। राज्यस्य जनाः तालाकारसर्वकारे तालाबन्दी कर्तुं सज्जाः सन्ति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: bjp, BJP Himachal, election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himachal Pradesh, Himsanskritnews, HP Politics, Jai Ram Thakur, LokSabha Election, sukhvinder Singh sukhu, भाजपा, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, विपक्षनेता जयरामठाकुरः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल चुनाव
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal News : हिमाचले अत्यन्तं तापः, सप्तस्थानेषु तापमानं ४० पारम् गतम्
Next Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?