By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/23 at 11:06 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

 

राष्ट्रीयवार्ता: 

  • लोकसभानिर्वाचनस्य षष्ठचरणस्य प्रचारः गतदिवसे सायंकाले समाप्तः। अस्मिन् चरणे मे २५ दिनाङ्के शनिवासरे ६ राज्येषु, द्वयोः संघप्रदेशयोः च ५८ आसनानां कृते मतदानं भविष्यति। एतेषु बिहारे अष्टौ, हरियाणाप्रदेशे सर्वाणि दश आसनानि, जम्मू-कश्मीरे एकं, झारखण्डे चत्वारि, दिल्लीनगरे सर्वाणि सप्तासनानि, ओडिशायां षट्, उत्तरप्रदेशे १४, पश्चिमबङ्गे अष्टानि च आसनानि सन्ति। अस्मिन् चरणे कुलम् ८८९ अभ्यर्थिनः निर्वाचन-स्पर्धायां सन्ति । 
  • गतदिवसे छत्तीसगढस्य बस्तरसंभागे सुरक्षाबलैः सह सङ्घर्षे सप्त माओवादिनः मृताः। बस्तरक्षेत्रस्य डीआईजी कमलोचन: कश्यप: तथा दंतेवाडा पुलिसाधीक्षक: गौरवराय: अवदताम् यत् परस्परसंघर्ष: नारायणपुरस्य दंतेवाडा सीम्नि अभवत् । 
  • दूरसञ्चारविभागेन प्रायः षट् लक्षं ८० सहस्र मोबाईलसङ्ख्याः अनुकृता अवैधरूपेण च ज्ञाताः। शङ्का अस्ति यत् एता: सङ्ख्याः अमान्यानां, अस्तित्वहीनानां, अनुकृत-परिचयप्रमाणस्य तथा प्रतिरूपं Know Your Customer – KYC इत्यादीनां अभिलेखानां उपयोगेन प्राप्ताः सन्ति। 
  • गतदिवसे दिल्ली-हरियाणा-चण्डीगढ-पञ्जाब-प्रदेशेषु तप्ततापात् किञ्चित् आश्रयं प्राप्तम् इति ऋतुविज्ञानविभागेन उक्तम्। विभागेन आगामिचतुर्दिनानां कृते मुख्यतया राजस्थान-गुजरातयोः अत्यन्तं तापस्य सम्भावना प्रकटिता अस्ति। 
  • अन्ताराष्ट्रीय ओलम्पिकसमित्या ‘Let’s Move India’ इति उपक्रमस्य आरम्भः। अस्य उद्देश्यं पेरिस् ओलम्पिकक्रीडायां क्रीडकानां उत्साहवर्धनार्थं जनान् प्रेरयितुं वर्तते

हिमाचलवार्ता: 

  • केन्द्रीयमन्त्री अमितशाहः २५ मई दिनाङ्के हमीरपुर- काङ्गड़ा- संसदीयक्षेत्रयोः भ्रमणं करिष्यति। एतां सूचनां दत्त्वा भाजपाया: प्रदेशमहासचिवः बिहारीलालशर्मा उक्तवान् यत् अमितशाहः प्रातः ९:३० वादने मेलाप्राङ्गणे अम्ब इत्यत्र तत: ११:३० वादने काङ्गड़ानगरस्य ज़ोरावर स्टेडियम इत्यत्र च सभायाः सम्बोधनं करिष्यति।
  • विपक्षनेता जयरामठाकुरः अवदत् यत् भारतस्य यशस्वी प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे हिमाचलप्रदेशे जनसभां सम्बोधयितुं आगच्छति। प्रधानमन्त्रिणः हिमाचलयात्रायाः कृते कृतज्ञतां प्रकटयन् सः अवदत् यत् सम्पूर्णः हिमाचलप्रदेशः नरेन्द्रमोदिन: स्वागताय उत्सुकः अस्ति। ते स्वस्य लोकप्रियं नेतारं द्रष्टुं श्रोतुं च बहुसंख्ययायाम् आगच्छन्ति।
  • मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् विक्रीतविधायकः देवेन्द्रभुट्टो गतरात्रौ कुटलैहड़- विधानसभाक्षेत्रस्य अन्तः भाजपातः प्राप्तसामग्रीणां लघुपेटिकाम् आनयत्, वयं तस्य अन्वेषणं कुर्मः। अधुना बड़सरे ५५ लक्षरुप्यकाणि गृहीतानि, अधिकानि आपि गृहीतानि भविष्यन्ति। यदि भुट्टो धनं वितरति तर्हि द्विगुणं गृहाण, तत् भवतः धनम् अस्ति। भुट्टों पराजयितुं एकत्रीभूय मतदानं कुर्वन्तु। 
  • लोकसभानिर्वाचनार्थं भारतीय-तिब्बत-सीमा-पुलिसस्य (आईटीबीपी)  पञ्चवाहिन्य:  हिमाचलप्रदेशं प्राप्ता: । मे २५ तः बहिः राज्येभ्यः केन्द्रीयरिजर्वपुलिसबलस्य (सीआरपीएफ) कर्मचारिणः आगमनमपि आरप्स्यते। एते सैनिकाः हिमाचलस्य अन्यराज्यैः सह सीमासु, नियन्त्रणकक्षेषु, गणनाकेन्द्रेषु च नियोजिताः भविष्यन्ति। एतदतिरिक्तं सुरक्षायै १८००० पुलिसकर्मचारिणः १० सहस्रगृहरक्षकाः च नियोजिताः भविष्यन्ति। केन्द्रीयसेनायाः ६३ कम्पन्यः राज्ये सुरक्षां स्वीकुर्वन्ति।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: bjp, him sanskritam, him sanskritam himsanskritnews, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, himsanskritnews headlines, HP NEWS, International news, Lok Sabha Election, National News, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य सामाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, लोकसभा चुनाव, लोकसभा चुनाव 2024, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article लोकसभानिर्वाचनम् – लोकसभानिर्वाचनस्य षष्ठ-सप्तचरणयोः प्रचाराभियानं द्रुतगत्या प्रवर्तते
Next Article HP Election : मोदिन: स्वागतं कर्तुं राज्यस्य जनाः उत्सुका:, सभायां समागमिष्यति विशालः जनसमूहः- जयरामठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?