By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Election : मोदिन: स्वागतं कर्तुं राज्यस्य जनाः उत्सुका:, सभायां समागमिष्यति विशालः जनसमूहः- जयरामठाकुरः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Election : मोदिन: स्वागतं कर्तुं राज्यस्य जनाः उत्सुका:, सभायां समागमिष्यति विशालः जनसमूहः- जयरामठाकुरः
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

HP Election : मोदिन: स्वागतं कर्तुं राज्यस्य जनाः उत्सुका:, सभायां समागमिष्यति विशालः जनसमूहः- जयरामठाकुरः

डॉ मनोज शैल
Last updated: 2024/05/24 at 8:34 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Election : मोदिन: स्वागतं कर्तुं राज्यस्य जनाः उत्सुका:, सभायां समागमिष्यति विशालः जनसमूहः- जयरामठाकुरः

केन्द्रीयमन्त्री अमितशाहः २५ मई दिनाङ्के हमीरपुर- कांगड़ा- संसदीयक्षेत्रयो: निर्वाचनसभां करिष्यति

हिमसंस्कृतवार्ता- लघ्वीकाशी मण्डी। 

विपक्षनेता जयरामठाकुरः अवदत् यत् भारतस्य यशस्वी प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे हिमाचलप्रदेशे जनसभां सम्बोधयितुं आगच्छति। प्रधानमन्त्रिणः हिमाचलयात्रायाः कृते कृतज्ञतां प्रकटयन् सः अवदत् यत् सम्पूर्णः हिमाचलप्रदेशः नरेन्द्रमोदिन: स्वागताय उत्सुकः अस्ति। ते स्वस्य लोकप्रियं नेतारं द्रष्टुं श्रोतुं च बहुसंख्ययायाम् आगच्छन्ति। जनसभां प्राप्य प्रधानमन्त्रिणः वचनं श्रुत्वा कस्यचित् असुविधायाः सम्मुखीकरणं न भवति इति सर्वत्र दलकार्यकर्तारः नियोजिताः सन्ति। सर्वेषां दायित्वं नियतं भवति, सर्वे स्वकार्य्ये संलग्ना: भवन्ति। यथा नरेन्द्रमोदिन: हिमाचलस्य प्रति विशेषः स्नेहः अस्ति, तथैव राज्यस्य जनाः अपि प्रधानमन्त्रिणं प्रति विशेषस्नेहं ददति।

जयराम ठाकुरः अवदत् यत् नरेन्द्र मोदी हिमाचलस्य सिरमौरमण्डलस्य नाहनस्य एतिहासिके चौगानप्राङ्गणे, मण्डीनगरस्य पड्डले च जनसभां सम्बोधयितुम् आगच्छति। अस्मिन् काले राज्यस्य प्रत्येकं कोणात् बहुसंख्याकाः जनाः जनसभास्थानं प्राप्नुवन्ति। प्रधानमन्त्रिणा हिमाचलस्य विकासाय सर्वदा प्राधान्यं दत्तम्। अद्यत्वे हिमाचले चतुर्मार्गात् कन्दरामार्गजालपर्यन्तं विश्वस्तरीयमूलसंरचना विकसिता अस्ति। पीएमजीएसवाई इत्यस्य अन्तर्गतं अभिलेखमार्गाः निर्मीयन्ते। एम्स इत्यादीनि संस्थानि वा IITs IIMs इत्यादीनि संस्थानानि भवेयुः, Triple IT and PGI Satellite Centers हिमाचलस्य जनानां जीवने परिवर्तनं आनयन्ति। एतदतिरिक्तं प्रधानमन्त्रिणा प्रचुरौषधवाटिका, चिकित्सोपकरणवाटिका (मेडिकल डिवाइसेस पार्क) इत्येतयोः माध्यमेन हिमाचलस्य अर्थव्यवस्थायाः नूतनं अध्यायं लिखितुं मार्गः प्रशस्तः अस्ति।

विपक्षनेता उक्तवान् यत् सः आपदाकाले हिमाचलस्य जनै: सह स्थितवान्। नरेन्द्रमोदी प्रत्येकं जीवनं रक्षितुं, आपदापश्चाच्च आश्रयस्य, पुनर्वासस्य, पुनर्निर्माणस्य च कृते यथाशक्ति समर्थनं कृतवान्। एतदर्थं पुनः तस्मै धन्यवादं ददामि। आगामिषु कालेषु हिमाचलस्य विकासाय समाना प्राथमिकता भवतु इति सुनिश्चित्य चतुर्शताधिकानि आसनानि प्राप्य तृतीयवारं नरेन्द्रमोदी प्रधानमन्त्री भवितुम् आवश्यकम्। हिमाचलस्य चतुर्णामसानानां चतुर्णां समर्थनं प्राप्तुं बहूनां भाजपा- अभ्यर्थीनां विजयाय मतदानं कर्तव्यम् अस्ति।

केन्द्रीयमन्त्री अमितशाहः २५ मई दिनाङ्के हमीरपुर- कांगड़ा- संसदीयक्षेत्रयो: निर्वाचनसभां करिष्यति।

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

केन्द्रीयमन्त्री अमितशाहः २५ मई दिनाङ्के हमीरपुर- काङ्गड़ा- संसदीयक्षेत्रयोः भ्रमणं करिष्यति। एतां सूचनां दत्त्वा भाजपाया: प्रदेशमहासचिवः बिहारीलालशर्मा उक्तवान् यत् अमितशाहः प्रातः ९:३० वादने मेलाप्राङ्गणे अम्ब इत्यत्र तत: ११:३० वादने काङ्गड़ानगरस्य ज़ोरावर स्टेडियम इत्यत्र च सभायाः सम्बोधनं करिष्यति। बिहारीलाल उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिन:  सभायाः अनन्तरम् अमितशाहस्य सभया कार्यकर्तृषु उत्साहः उत्पन्नः भविष्यति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: amit shah, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP Election, HP NEWS, HP Politics, narendra modi, PM Modi, pmo, Pradhanmantri Narendra Modi, अमित शाह, नरेन्द्रमोदी, प्रधानमंत्री, प्रधानमन्त्री नरेन्द्र मोदी, भाजपा, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल चुनाव
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HPCM- ‘धनलोलुपतायां विधायकपदं विक्रीतवान् देवेन्द्रभुट्टो’ प्रतिवारं PMGSY निविदा याचते स्म’
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?