By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: लोकसभानिर्वाचनम् – लोकसभानिर्वाचनस्य षष्ठ-सप्तचरणयोः प्रचाराभियानं द्रुतगत्या प्रवर्तते
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > लोकसभानिर्वाचनम् – लोकसभानिर्वाचनस्य षष्ठ-सप्तचरणयोः प्रचाराभियानं द्रुतगत्या प्रवर्तते
राजनैतिकवार्ताराष्ट्रीयवार्ताः

लोकसभानिर्वाचनम् – लोकसभानिर्वाचनस्य षष्ठ-सप्तचरणयोः प्रचाराभियानं द्रुतगत्या प्रवर्तते

डॉ मनोज शैल
Last updated: 2024/05/23 at 12:10 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

लोकसभानिर्वाचनम् – लोकसभानिर्वाचनस्य षष्ठ-सप्तचरणयोः प्रचाराभियानं द्रुतगत्या प्रवर्तते

लोकसभानिर्वाचनस्य षष्ठ-सप्त-चरणयोः प्रचाराभियानं द्रुतगत्या प्रवर्तते। उत्तरप्रदेशे विभिन्नदलानां प्रचारकाः प्रचाराभियाने रताः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य उत्तरप्रदेशस्य बस्ती-जनपदे एकं राजनीतिक-जनसभां समबोधयत्। प्रधानमन्त्री प्रोक्तवान् यत् भाजपा-दलेन पञ्च-निर्वाचनचरणेषु एव बहुमतं समर्जितम्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः जौनपुर-बस्ती-जनपदयोः प्रचारं कृतवान्। सः सुल्तानपुर, सिद्धार्थनगर, बलरामपुर जनपदेषु अपि जनसभाः सम्बोधयिष्यति। लोकसभानिर्वाचनस्य सप्तमे चरणे अष्टराज्याणां केन्द्रशासितप्रदेशानां च चतुरधिक- नवशतं प्रत्याशिनः निर्वाचनद्वन्द्वे भागं भजिष्यन्ति। निर्वाचन आयोगः प्रोक्तवान् यत् सप्तपञ्चाशत्- लोकसभा- निर्वाचनासनेषु पञ्चोत्तरैकशताधिक-द्विसहस्रं प्रत्याशिनः नामाङ्कनं कृतवन्तः। अन्वीक्षणानन्तरं चतुरधिक-नवशतं नामाङ्कनपत्राणि वैधानि प्राप्तानि। सप्तमचरणाय जूनस्य प्रथमदिना‌ङ्के मतदानं भविष्यति। पञ्जाबे सर्वाधिकानि अष्टनवत्युत्तर-पञ्चशतानि नामाङ्कनपत्राणि प्राप्तानि। इतः परं उत्तरप्रदेशस्य त्रयोदश- निर्वाचनासनेषु पञ्चनवत्युत्तर-पञ्चशतं नामाङ्कनपत्राणि प्राप्तानि। निर्वाचनस्य अस्मिन् अन्तिमचरणे उत्तर-प्रदेशपञ्जाबयोः त्रयोदश-त्रयोदश, पश्चिमबङ्गालस्य नव, बिहारस्य अष्ट, ओडिशायाः षट्, हिमाचलस्य चत्वारि, झारखण्डस्य त्रीणि, केन्द्रशासित- प्रदेशस्य चण्डीगढस्य एकं च निर्वाचनासनेषु मतदानं भविष्यति। मतगणना जूनमासस्य चतुर्थदिना‌ङ्के भविष्यति।

निर्वाचनायोगः- प्रमुखप्रचारका: एतादृशं वक्तव्यं न दद्युः येन आदर्श-आचार संहितायाः उल्लङ्घनं स्यात् निर्वाचनायोगेन निर्देश: प्रदत्त: 

हिमसंस्कृतवार्ता – नवदेहली। 

निर्वाचनायोगेन भारतीय जनता पार्टीति दलस्य अध्यक्षः जे.पी. नड्डा इत्यस्मै, कांग्रेस्-अध्यक्षः मल्लिकार्जुन- खरगे इत्यस्मै च निर्देशः प्रदत्तः यत् तौ दलस्य प्रमुख-प्रचारकेभ्यः एकां सञ्चेतनां प्रकाशयेत् यत् ते एतादृशं वक्तव्यं न दद्युः येन आदर्श-आचार संहितायाः उल्लङ्घनं स्यात् । द्वाभ्याम् अध्यक्षाभ्यां प्रेषिते पत्रे, आयोगः प्रोक्तवान् यत् किमपि दलं केऽपि प्रत्याशिनः च एतादृशं भाषणं दद्यात् येन समाजे मतभेदं जायेत् सांप्रदायिकता च प्रवर्धेत्।

 

प्रधानमन्त्री मोदी बृहत्तम-खाद्य-वितरक-तन्त्रांशस्य संस्थापकः दीपिन्दर-गोयलः इत्यस्य प्रशंसाम् अकरोत्

प्रधानमन्त्री नरेन्द्रमोदी भारतस्य एकस्य बृहत्तम-खाद्य-वितरक-तन्त्रांशस्य संस्थापकः दीपिन्दर-गोयलः इत्यस्य प्रशंसाम् अकरोत्। श्री गोयलस्य सार्वजनिक-संदेश-पटले एकं सन्देशं प्रसारयन् प्रधानमन्त्री अवदत् यत् परिश्रमः महतीं ऊर्ध्वतां प्रति नेतुं शक्नोति । सः अवदत् यत् श्री गोयलस्य जीवनयात्रा असंख्य-युवकान् उद्यमशीलतायाः स्वप्नं साकारं कर्तुं प्रेरयति। सः अवदत् यत् स्टार्टअप-संस्थानां समृद्ध्यर्थं अनुकूलं वातावरणं प्रदातुं सर्वकारः प्रतिबद्धः अस्ति ।

सर्वोच्चन्यायालयः धनशोधन-प्रकरणे नियमित-अस्थायी-विमोचन-याचिका प्रख्यापनम् अधिकृत्य तथ्यानां निगूढने आपत्तिं प्रकटितवान् 

सर्वोच्चन्यायालयेन धनशोधन-प्रकरणे नियमित-अस्थायी-विमोचन-याचिका-प्रख्यापनम् अधिकृत्य तथ्यानां निगूढने आपत्तिः प्रकटितः अनन्तरं हेमन्तसोरेनः इत्यनेन प्रवर्तननिदेशालयस्य निगडनं विरुध्य प्रख्यापिता याचना प्रत्यावर्तिता ।

देहल्यां लोकसभायाः सर्वेषु सप्तनिर्वाचनासनेषु विजयम् अधिगमिष्यते – हरदीपसिंहपुरी

भाजपा-दलस्य वरिष्ठनेता केन्द्रियमन्त्री च हरदीपसिंहपुरी अद्य प्रोक्तवान् यत् तस्य दलं दिल्ल्यां लोकसभायाः सर्वेषु सप्तनिर्वाचनासनेषु विजयम् अधिगमिष्यति । नवदिल्ल्यां सम्वाददातृभिः सह जाते सम्वादे सः प्रोक्तवान् यत् भाजपा-दलेन राजधान्यां विगतेषु दश-वर्षेषु चतुर्पञ्चाशत्-सहस्र-कोटि-रूप्यकाणां विकास कार्याणि कृतानि सन्ति । आम आदमी पार्टीति दलस्य कार्यशैलीं विरुध्य अकथयन् श्रीपुरी प्रोक्तवान् यत् अनेन दलेन दिल्ल्याम् आयुष्मान-भारतयोजना-प्रधानमन्त्रीआवासयोजना इति द्वयोः क्रियान्वयनं न कृतम् अपरत्र दिल्ल्याः मुख्यमन्त्रिणा स्वस्मै विलास-वैभव-सम्पन्नं भवनं निर्मितम् ।

पाकिस्तानाधिकृत-कश्मीरः भारतेन सह अस्ति, भारतेन सह भविष्यति, भारतं पुनरेतं स्वस्वामित्वम् आनेष्यति- अमितशाहः

पश्चिम बंगालस्य घातलक्षेत्रे अद्य जनसभां सम्बोधयन् भारतीयजनतापार्टीति दलस्य वरिष्ठनेता केन्द्रियमन्त्री च, अमितशाहः प्रोक्तवान् यत् पाकिस्तानाधिकृत-कश्मीरः भारतेन सह अस्ति, भारतेन सह भविष्यति, भारतं पुनरेतं स्वस्वामित्वम् आनेष्यति च । श्रीशाहः प्रोक्तवान् यत् पश्चिम बंगालस्य तृणमूल-सर्वकारेण जनाः विकासवञ्चिताः कृताः सन्ति। सः प्रोक्तवान् यत् संदेशखालीक्षेत्रस्य घटनया महिलानाम् आत्मसम्मानं घातितम् अस्ति । इतः पूर्वं श्रीशाहेन कांथीक्षेत्रे जनसभा कृता आसीत्। सः पुरुलिया-बांकुरा-लोकसभा-क्षेत्रयोः द्वे जनसभे सम्बोधयिष्यतः ।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: amit shah, bjp, Election commission of India, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, PM Modi, pmo, Pradhanmantri Narendra Modi, Supreme court, अन्तर्राष्ट्रीय समाचार, अमित शाह, चुनाव आयोग, नरेन्द्र मोदी, राष्ट्रीय समाचार, लोकसभानिर्वाचन, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article विद्यालयप्रबन्धनसमित्या ( SMC) बिजन-ढलवान विद्यालयाय विद्युत्व्यजनानि दत्तानि
Next Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?