By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: CM Sukhu : कसौलीक्षेत्रे विद्रोहिणामुपरि आक्रमणं कृतवान् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > CM Sukhu : कसौलीक्षेत्रे विद्रोहिणामुपरि आक्रमणं कृतवान् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
राजनैतिकवार्ताहिमाचलवार्ता

CM Sukhu : कसौलीक्षेत्रे विद्रोहिणामुपरि आक्रमणं कृतवान् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/05/06 at 11:40 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

CM Sukhu : कसौलीक्षेत्रे विद्रोहिणामुपरि आक्रमणं कृतवान् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता – सोलनम्। कसौलीविधानसभाक्षेत्रस्य पट्टाबरौरीस्थाने निर्वाचनसभां सम्बोधयन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः भाजपायाः उपरि आक्षेपं कृत्वा अवदत् यत् भाजपया हिमाचलप्रदेशे अश्वव्यापारराजनीतिं प्रारभ्य राज्यस्य संस्कृतिः कलङ्किता अस्ति। सः अवदत् यत् दलद्रोहं कृत्वा राजनैतिकविपण्यां षट् काङ्ग्रेसविधायकाः विक्रीताः, अधुना अश्वव्यापारराजनीतेः पूर्णतया विरामं कर्तुं राज्यस्य मतदातॄणां दायित्वम् अस्ति। यदि अश्वव्यापारस्य राजनीतिकर्तृभ्य: इदानीं पाठ: न पाठ्यते तर्हि भविष्ये अपि सा निरन्तरं भविष्यति।

सः अवदत् यत् काङ्ग्रेसस्य धनशक्तिः नास्ति, परन्तु जनशक्तिः एव दलस्य बलम् अस्ति। लोकतन्त्रस्य उद्धाराय एतद् निर्वाचनम् अस्ति, आगामिनिर्वाचने राज्यस्य मतदातार: एकं राज्यसभासनस्य चोर्यम् कर्तर्यै भाजपायै दण्डं दास्यन्ति, चत्वारि अपि लोकसभासनानि काङ्ग्रेसपक्षाय दास्यन्ति। सः अवदत् यत् भाजपाजनाः मतक्रयणार्थं धनम् आनयिष्यन्ति। भवन्तः धनं धारयन्ति परन्तु केवलं काङ्ग्रेसपक्षस्य प्रत्याशिने मतदानं कुर्वन्ति।

मुख्यमन्त्री उक्तवान् यत् कलङ्किताः जनाः जनसञ्चारं कृत्वा जनभावनाभिः सह क्रीडन्ति। सः अवदत् यत् दलद्रोहं कृत्वा विक्रीतविधायकः एकमासपर्यन्तं राज्यात् बहिः धावति स्म, तस्य परिवारजनाः अपि तस्य विषये चिन्तिताः आसन्। यस्मिन् दिने बजटं पारितव्यम् आसीत् तस्मिन् दिने चण्डीगढतः सीआरपीएफ-संरक्षणे आगतः भाजपा-प्रदेशाध्यक्षः राजीवबिन्दलः विधानसभायाः द्वारं भग्नवान् । कलङ्किताः जनाः सभाम् आगत्य स्वस्य उपस्थितिं चिह्नितवन्तः ततः बजटे मतदानं विना पलायितवन्तः। विक्रीतविधायकाः नूतनानि वस्त्राणि सज्जीकृतवन्त: आसन् यतोहि ते मन्त्रिणः भविष्यन्ति इति चिन्तयन्ति स्म, परन्तु तेषां विधानसढासदस्यता एव निरस्तजातम्। ततः यदा कलङ्किताः विधायकाः सर्वोच्चन्यायालयस्य समीपं गतवन्तः तदा न्यायालयः अपि तान् क्षमाम् नाङ्गीकृतवान् ।

सः अवदत् यत् एकस्मिन् दिने सहसा कलङ्किताः जनाः दिल्लीं गत्वा भाजपा-ध्वजं धारयन्ति स्म। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् प्रथमवारं स्वतन्त्रविधायकाः त्यागपत्रं हस्ते गृहीत्वा विरोधं कुर्वन्ति, न्यायालयं गच्छन्ति च। सः अवदत् यत् साधारणकुटुम्बस्य पुत्रः युद्धं कर्तुम् इच्छति इति कारणतः सः राजनैतिकषड्यंत्रेभ्यः न बिभेति। मुख्यमन्त्री उक्तवान् यत् तस्य युद्धं मादकद्रव्यतस्कराणां, खननतस्कराणां, भूतस्कराणां च विरुद्धम् अस्ति, सः यत्किमपि मूल्येन राज्यस्य जनानां हितस्य रक्षणं करिष्यति।

सः अवदत् यत् मुख्यमन्त्री भूत्वा जयरामठाकुरः पञ्चवर्षपर्यन्तं निद्रां कृत्वा चोराणां द्वाराणि उद्घाटितवान्। तानि पिधाय वर्तमानसर्वकारेण २२०० कोटिरूप्यकाणां अतिरिक्तं राजस्वं प्राप्तम्, राज्यस्य अर्थव्यवस्थायां विंशतिप्रतिशतम् उन्नतिः अभवत् । अधुना सार्वजनिकधनं जनसामान्यं मध्ये वितरितं भवति। महिलानां कृते १५०० रुप्यकाणां वृत्ति:, गोपालकानां कृते प्रतिमासं १२०० रूप्यकाणि, १.१५ लक्षं विधायकानाम् गृहनिर्माणार्थं ३ लक्षरूप्यकाणि, ७० वर्षाणाम् उपरि वृद्धानां निःशुल्कचिकित्सा, मनरेगा इत्यस्य दैनिकवेतने ६० रुप्यकाणां ऐतिहासिकवृद्धिः, न्यूनतमं समर्थनमूल्यं दुग्धस्य, कर्मचारिभ्यः ४ प्रतिशतं डीए, पुलिसकर्मचारिणां आहारधनस्य पञ्चगुणं वृद्धिः, राज्यसर्वकारेण एतत् सर्वं एतेन अतिरिक्तराजस्वेन कृतम्।

सः अवदत् यत् सर्वेषां कर्मचारिणां अवशिष्टांशं मुक्तं भवति तथा च वर्तमानराज्यसर्वकारेण अद्यावधि ७००० विधवाभ्यः अवशिष्टांशं पूर्णतया भुक्तं कृतम् अस्ति। राज्यसर्वकारेण प्रथमे एव मन्त्रिमण्डलसभायां पुरातनवृत्ति: पुनः स्थापिता तथा च हिमाचलभाजपानेतारः दिल्लीं गत्वा केन्द्रात् ९००० कोटिरूप्यकाणां एनपीएसं पुनः प्राप्तुं बाधाः सृजन्ति। सः अवदत् यत् वर्तमानराज्यसर्वकारेण १५ मासेषु यावत्य: योजनाः आनिताः तावत्य: योजनाः विगत ७५ वर्षेषु कदापि न आनीताः।

मुख्यमंत्री सुक्खुः अवदत् यत् आपदाकाले भाजपानेतारः राज्यस्य आपदाग्रस्तपरिवारेभ्यः पृष्ठं कृतवन्तः, अहं तु राजधर्मस्य अनुसरणं कृतवान्। सः अवदत् यत् भाजपानेतृभ्यः देहलीनगरं गत्वा आपदापीडितानां जनानां आर्थिकसाहाय्यं दातुं अनुरोधं कृतवान् परन्तु ते तत् न कृतवन्तः। आपदाग्रस्तानां जनानां पुनर्स्थापनार्थं राज्यसर्वकारेण स्वसम्पद: ४५०० कोटिरूप्यकाणां संकुलं दत्तम्। सः अवदत् यत् शिमला-सांसदः सुरेशकश्यपः आपदापीडितानां जनानां आर्थिकसहायतां दातुं एकमपि डीओ-पत्रं न लिखितवान्।

सः अवदत् यत् भवत: सांसद: आपदि भवता सह न आसीत् सांसदं पाठं पाठयितुं समयः आगतः। मुख्यमन्त्री उक्तवान् यत् लोकसभानिर्वाचने काङ्ग्रेसस्य प्रत्याशी विनोदसुल्तानपुरी विजयी भवतु, अहं स्वयं कसौली विधानसभाक्षेत्रस्य विकासं पश्यामि। सः अवदत् यत् वर्तमानराज्यसर्वकारेण निराश्रितबालानां कृते विधानं निर्माय तेषां शिक्षायाः परिचर्यायाः च व्ययः वहितः। राजस्वविधानेषु परिवर्तनं कृत्वा एकलक्षाधिकाः इंतकालः, सप्तसहस्राधिकाः च तकसीमस्य लम्बितप्रकरणाः त्रिमासेषु निराकृताः।

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, Congress, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, HP Congress, HP NEWS, HP Politics, HPCM, hpgovt, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, लोकसभा चुनाव, लोकसभा चुनाव 2024, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Politics : त्यागपत्रं स्वीकृतं भवतु वा निरस्तं वा, उभयपरिस्थितौ निर्वाचनं भवितुं निश्चितम्- निर्दलीयविधायक:
Next Article देशस्य विश्वविद्यालयेषु प्राध्यापकाणां चयनप्रक्रियाविषये प्रश्नमुत्थापितवान् राहुलगान्धी, कुलपतिभिः तस्य विरुद्धं लिखितं मुक्तपत्रम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?