HP Board 10th Result 2024 : पञ्चनवतिसहस्राणां छात्राणां प्रतीक्षा समाप्ता, अद्य भविष्यति परिणामस्य घोषणा
हिमसंस्कृतवार्ता:- धर्मशाला।
हिमाचलप्रदेशस्य विद्यालयशिक्षामण्डलेन १० कक्षायाः वार्षिकपरीक्षापरिणामानां विमोचनार्थं सर्वा: सज्जता: सम्पन्ना:। यदि सर्वं सम्यक् भवति तर्हि राज्य- विद्यालय- शिक्षामण्डलं मई ७ दिनाङ्के मंगलवासरे प्रातःकाले दशमीकक्षायाः परिणामं घोषयिष्यति। अवधेयं वर्तते यत् विद्यालयशिक्षामण्डलेन दशमवर्गस्य वार्षिकपरीक्षाः मार्चमासस्य २ दिनाङ्कात् २१ दिनाङ्कपर्यन्तं कृताः आसन्। अस्मिन् काले राज्ये २२५८ परीक्षाकेन्द्राणि स्थापितानि। यत्र प्रायः ९५ सहस्र-अभ्यर्थिनः परीक्षां दत्तवन्तः। द्वादशी कक्षायाः अनन्तरं अधुना हिमाचलप्रदेश- विद्यालय- शिक्षामण्डलं 2023-24 तमस्य वर्षस्य कक्षा-दशम्या: शैक्षणिकसत्रस्य वार्षिकपरिणामं अभिलेखसमये घोषयितुं सज्जं भवति। अस्मिन् समये परीक्षाफलं शीघ्रं घोषयितुं बोर्डप्रबन्धनेन प्रौद्योगिक्यां बहु परिवर्तनं कृतम् आसीत्। अस्मिन् काले मूल्याङ्कनकेन्द्राणां संख्या वर्धिता, मूल्याङ्कनकार्यार्थं नियुक्तानां शिक्षकानां संख्या अपि वर्धिता। केवलं मूल्याङ्कनकेन्द्रेषु उत्तरपत्राणां अङ्कान् आनलाईनरूपेण पोषयितुं व्यवस्था कृता। अपरपक्षे बोर्डसचिवः डा. मेजर विशाल शर्मा इत्यनेन उक्तं यत् दशमीकक्षायाः परिणामः सज्जः अभवत्। शिक्षामण्डलं मंगलवासरे परिणामस्य घोषणां कर्तुं यथाशक्ति प्रयतते।