By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सिद्धार्थनगरे निवृत्तिवेतनभोगिभ्यः डिजिटलजीवितप्रमाणपत्रं समर्पयितुं सूचना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > उत्तरप्रदेशसंस्करणम् > सिद्धार्थनगरे निवृत्तिवेतनभोगिभ्यः डिजिटलजीवितप्रमाणपत्रं समर्पयितुं सूचना
उत्तरप्रदेशसंस्करणम्प्रादेशिकवार्तासूचना

सिद्धार्थनगरे निवृत्तिवेतनभोगिभ्यः डिजिटलजीवितप्रमाणपत्रं समर्पयितुं सूचना

सत्येंद्र पाठक:
Last updated: 2026/10/13 at 10:00 PM
सत्येंद्र पाठक:
Share
1 Min Read
SHARE

सिद्धार्थनगरे निवृत्तिवेतनभोगिभ्यः डिजिटलजीवितप्रमाणपत्रं समर्पयितुं सूचना

हिमसंस्कृतवार्ता: वृजेश कुमार पाण्डेय। सिद्धार्थनगरम्।

नवम्बर-दिसम्बरमासयोः कोषागारं गन्तुं विना ऑनलाइनमाध्यमेन जीवितप्रमाणपत्रं समर्पयितुं शक्यते।

सिद्धार्थनगरस्य वरिष्ठकोषाधिकारिणा निवृत्तिवेतनभोगिनां सुविधार्थं डिजिटलजीवितप्रमाणपत्रस्य प्रस्तुतिविषये प्रेसविज्ञप्तिः निर्गता। विज्ञप्त्यनुसारं सामान्यतः नवम्बर-दिसम्बरमासयोः कोषागारात् निवृत्तिवेतनं प्राप्नुवन्तः निवृत्तिवेतनभोगिनः स्वस्य जीवितप्रमाणपत्रं समर्पयितुं कोषागारे उपस्थिताः भवन्ति। किन्तु शासनव्यवस्थानुसारं निवृत्तिवेतनभोगिनां कोषागारे व्यक्तिगत रूपेण उपस्थितिः अनिवार्या नास्ति।

निवृत्तिवेतनभोगिनः आधिकारिकजालपुटे https://jeevanpramaan.gov.in⁠� इत्यत्र स्वयमेव प्रवेशं कृत्वा डिजिटलजीवितप्रमाणपत्रं निर्मातुं शक्नुवन्ति। अथवा स्वस्य चलदूरवाण्यां प्ले-स्टोर्-माध्यमेन Jeevan Pramaan तथा Aadhaar Face RD इति अनुप्रयोगद्वयं संस्थाप्य आधारसंख्यां, आधारसम्बद्धं चलदूरवाणीक्रमाङ्कं, ई-मेल्-परिचयं च समर्प्य ओटीपी-माध्यमेन स्वस्य निवृत्तिवेतनसम्बद्धानि विवरणानि पूरयित्वा ऑनलाइनमाध्यमेन जीवितप्रमाणपत्रं समर्पयितुं शक्नुवन्ति।

यदि डिजिटलजीवितप्रमाणपत्रं समर्पयितुं तान्त्रिकी समस्या उत्पद्यते, तर्हि व्यक्तिगतसत्यापनार्थं पीपीओ-सङ्ख्या, फोटोयुक्तं बैंक-पासबुक्, पेनकार्ड्, आधारकार्ड् इत्येतेषां छायाप्रतीतयः तथा एकम् अतिरिक्तं छायाचित्रं स्वसमीपे स्थापयितुं निवृत्तिवेतनभोगिभ्यः सूचितम्।

एतेन व्यवस्थया निवृत्तिवेतनभोगिनः अनावश्यकायासात् मुक्ताः भविष्यन्ति तथा नवम्बर-दिसम्बरमासयोः कोषागारे जायमानात् अत्यधिकजनसम्मर्दात् उत्पद्यमानाभ्यः समस्याभ्यः अपि रक्षिताः भविष्यन्ति।

You Might Also Like

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता

श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः

TAGGED: सिद्धार्थनगरे निवृत्तिवेतनभोगिभ्यः डिजिटलजीवितप्रमाणपत्रं समर्पयितुं सूचना
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article अम्मा रा चरखा-रविन्द्र
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?