By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतम् भारतस्य सनातन-ज्ञानचेतनायाः, सांस्कृतिक-अस्मितायाः जीवनदर्शनस्य च अमर-सम्पदा— कुलपतिः प्रो. बिहारीलालशर्मा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > संस्कृतम् भारतस्य सनातन-ज्ञानचेतनायाः, सांस्कृतिक-अस्मितायाः जीवनदर्शनस्य च अमर-सम्पदा— कुलपतिः प्रो. बिहारीलालशर्मा
प्रादेशिकवार्तासंस्कृतगतिविधयः

संस्कृतम् भारतस्य सनातन-ज्ञानचेतनायाः, सांस्कृतिक-अस्मितायाः जीवनदर्शनस्य च अमर-सम्पदा— कुलपतिः प्रो. बिहारीलालशर्मा

डॉ मनोज शैल
Last updated: 2026/11/19 at 7:02 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

संस्कृतम् भारतस्य सनातन-ज्ञानचेतनायाः, सांस्कृतिक-अस्मितायाः जीवनदर्शनस्य च अमर-सम्पदा— कुलपतिः प्रो. बिहारीलालशर्मा

संस्कृतच्छात्रेभ्यः महान् उपहारः, शास्त्री-आचार्य-उपाधिधारकाः अपि अधुना टीजीटी-पीजीटी-नियुक्तीषु पात्राः

हिमसंस्कृतवार्ता — वाराणसी।

पारम्परिक-संस्कृतशिक्षापद्धत्या अध्ययनं कुर्वतां छात्राणां वर्षाणां शैक्षिकसाधनायै, प्रतिभायै परिश्रमाय च उचितसम्मानं दापयितुं तथा तान् आधुनिकवृत्तेः अवसरैः सह योजयितुं दिशि उत्तरप्रदेशशासनेन एकः अतीव महत्त्वपूर्णः स्वागतयोग्यश्च निर्णयः स्वीकृतः अस्ति। अस्य अन्तर्गततया सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य वाराणस्याः शास्त्री-आचार्य-उपाधीनां क्रमशः स्नातक-स्नातकोत्तर-उपाधिभ्यां (B.A. तथा M.A.) समकक्षतां स्वीकुर्वता संस्कृतविषयस्य टी.जी.टी. (TGT) पी.जी.टी. (PGT) च शिक्षकनियुक्तीषु तेषाम् अर्हतां ग्राह्यतां च स्पष्टीकर्तुं शासनस्तरात् आवश्यकं कार्याचरणं विहितम् अस्ति। अनेन निर्णयेन संस्कृतच्छात्राणां भविष्यं प्रति नूतनाशायाः विश्वासस्य च सञ्चारः सञ्जातः अस्ति।

कुलपतिना प्रकटितः शासनस्य हार्दिकः आभारः

अस्मिन् दूरदर्शिणि सकारात्मक-उपक्रमे च विश्वविद्यालयस्य कुलपतिः प्रो. बिहारीलालशर्मा उत्तरप्रदेशशासनं प्रति हार्दिकम् आभारं कृतज्ञतां च प्रकटितवान् अस्ति। सः अवदत् यत् संस्कृतं केवलम् अस्माकं प्राचीनज्ञानपरम्परायाः अमूल्या सम्पदा एव नास्ति, अपि तु भारतस्य सनातन-ज्ञानचेतनायाः, सांस्कृतिक-अस्मितायाः, जीवनमूल्यानां जीवनदर्शनस्य च अमरः आधारः वर्तते। संस्कृतच्छात्रेभ्यः तेषाम् अर्जितशैक्षिकयोग्यतायाः अनुरूपं सम्मानं, परिचयः अवसराश्च प्राप्तुम् अत्यन्तम् आवश्यकम् अस्ति। कुलपतिः विश्वासं प्रकटितवान् यत् शासनस्य एतादृशैः सकारात्मकनिर्णयैः संस्कृतशिक्षायाः प्रतिष्ठा सुदृढा भविष्यति, देववाण्याः संस्कृतस्य संरक्षणाय, संवर्धनाय व्यापकप्रसाराय च नूतना ऊर्जा लप्स्यते तथा छात्राणाम् उज्ज्वलभविष्यस्य मार्गः प्रशस्तः भविष्यति।

आयोगं प्रति निर्गमितं शासनस्य महत्त्वपूर्णं पत्रम्

देवभाषायाः संस्कृतस्य गौरवशालिन्याः शैक्षिकपरम्परायाः संरक्षणाय अस्मिन् क्रमे माध्यमिकशिक्षायाः सचिवया किञ्जलसिंहया (माध्यमिकशिक्षा-अनुभाग-०५) १३ नवम्बर्, २०२६ दिनाङ्के ‘उत्तरप्रदेश-शिक्षा-सेवा-चयन-आयोगाय, प्रयागराजाय’ एकं महत्त्वपूर्णं पत्रं प्रेषितम् अस्ति। अस्मिन् पत्रे शास्त्री (संस्कृतम्) उपाधिधारिणां कृते विज्ञापनसंख्या ०७/२०२६ इत्यस्य अन्तर्गततया सहायकाध्यापक-पदाय (संस्कृतम्) आवेदनं कर्तुं कापि कठिनता न भवेत् इति स्पष्टीकुर्वता वर्तमाननियुक्तिविज्ञापने आवश्यकं संशोधनं कर्तुं विषयः उत्थापितः अस्ति। निःसन्देहम्, अयम् उपक्रमः केवलम् उपाधीनां समकक्षतायाः प्रशासनिकविषयः नास्ति, अपि तु भावि-सन्तते: उज्ज्वलभविष्यस्य नूतनां दिशां ददत् प्रशंसनीयः प्रयासः अस्ति।

You Might Also Like

SSVV Varanasi – शास्त्री-आचार्य-उपाधीनां समकक्षतां शिक्षकनियुक्तिषु च पात्रतां स्पष्टीकर्तुं दिशि शासनस्य महत्त्वपूर्णः उपक्रमः

सेनायाः उपरि टिप्पण्या क्रुद्धः प्रतिपक्षः, उद्घोषणं कृत्वा सदनात् कृतं बहिर्गमनम्, उक्तम्—क्षमां याचेत् जगतसिंहनेगी

निम्नस्तरस्य औषधीनां निर्मातॄणां विरुद्धं भविष्यति कठोरा कार्यविधि:, सर्वकारेण निर्गमिताः दिशानिर्देशाः

भव्यया शोभायात्रया अन्ताराष्ट्रिय-रेणुका-मेलापकः आरब्धः, सहस्रशः जनाः अभवन् मातृ-पुत्रयोः मिलनस्य साक्षिणः

जनगणना-२०२७ इत्यस्मिन् संस्कृतभाषायाः समुचितम् अभिलेखनं व्यापकजनजागरूकता च इत्येतदर्थं समस्तान् संस्कृतानुरागिनः प्रति आह्वानम्

TAGGED: \हिमाचल के आज के समाचार, cmo himachal, cmo himachal Pradesh. HP News, Daily Sanskrit News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal government, Himachal news, Himachal Sanskrit Academy, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, Himsanskritvarta, narendra modi, National News, national News Headlines, News Headlines, pmo, Prof. Bihari Lal Sharma, sampurnanand Sanskrit University, Sanskrit news, sanskrit news channel, sanskrit News pdf, sanskrit University, Today Sanskrit Nerws, varta, vartah, vcssv official, अन्तर्राष्ट्रीय समाचार, आज के संस्कृत समाचार, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, दैनिक समाचार, प्रो. बिहारी लाल शर्मा, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, वाराणसी, संपूर्णानंद संस्कृत विश्वविद्यालय, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article जनगणना-२०२७ इत्यस्मिन् संस्कृतभाषायाः समुचितम् अभिलेखनं व्यापकजनजागरूकता च इत्येतदर्थं समस्तान् संस्कृतानुरागिनः प्रति आह्वानम्
Next Article भव्यया शोभायात्रया अन्ताराष्ट्रिय-रेणुका-मेलापकः आरब्धः, सहस्रशः जनाः अभवन् मातृ-पुत्रयोः मिलनस्य साक्षिणः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?