By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: नैमिषारण्यम् — तीर्थात् आत्मतीर्थपर्यन्तं यात्रा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > उत्तरप्रदेशसंस्करणम् > नैमिषारण्यम् — तीर्थात् आत्मतीर्थपर्यन्तं यात्रा
उत्तरप्रदेशसंस्करणम्धर्मसंस्कृतिःप्रादेशिकवार्ता

नैमिषारण्यम् — तीर्थात् आत्मतीर्थपर्यन्तं यात्रा

सत्येंद्र पाठक:
Last updated: 2026/10/22 at 9:58 PM
सत्येंद्र पाठक:
Share
7 Min Read
SHARE

नैमिषारण्यम् — तीर्थात् आत्मतीर्थपर्यन्तं यात्रा

हिमसंस्कृतवार्ता:- उत्तरप्रदेशसंस्करणम्।

नैमिषारण्यं केवलं तीर्थस्थानं नास्ति, अपितु भारतीयसंस्कृतेः, आध्यात्मिकचिन्तनस्य, ऋषिपरम्परायाश्च सनातनं केन्द्रम् अस्ति। अत्र बाह्यजगतः कोलाहलात् दूरे स्थित्वा मनुष्यः स्वान्तःकरणस्य शान्तिं, स्वात्मनः प्रकाशं च अनुभावयितुं शक्नोति। एषा सा पावनी तपोभूमिः, यस्याः वायुमण्डले ऋषीणां तपस्यायाः स्मृतयः, वनस्पतीषु प्रकृतेः मौनसाधना, प्रत्येकस्मिन् कणे च आध्यात्मिकचेतनायाः अनुभूतिः समुपलभ्यते। अष्टाशीतिसहस्रऋषीणां तपःस्थलीत्वेन विख्यातं नैमिषारण्यं भारतीयज्ञानपरम्परायाः, वैदिकचिन्तनस्य, पुराणविमर्शस्य, आत्मानुसन्धानस्य च अनुपमं केन्द्रम् अस्ति।

 

मनुष्यस्य यात्रा प्रायः बहिर्जगतः आरभ्यते। सः नगरेषु, पर्वतेषु, नदीषु, वनेषु, तीर्थेषु च सुखं, शान्तिं, सन्तोषं च अन्विष्यति। किन्तु जीवनस्य कस्मिंश्चित् गम्भीरे क्षणे सः अनुभवन्ति यत् यस्याः शान्तेः सः बहिर्जगति अन्वेषणं करोति, तस्याः वास्तविकं स्रोतः तस्य स्वस्य अन्तःकरणे एव विद्यमानम् अस्ति। नैमिषारण्यं तस्यैव सत्यस्य बोधं कारयति। अत्र आगत्य मनसि एतादृशी अनुभूतिः जायते, यथा जीवनस्य अनावश्यकः कोलाहलः शनैः शनैः शमं याति, चेतना च स्वस्य मूलस्वरूपं प्रति प्रत्यावर्तते।

 

भारतीयदर्शने तीर्थस्य अर्थः केवलं पवित्रस्थाने गमनं नास्ति, अपितु जीवनस्य सीमाः अतिक्रम्य आत्मोन्नतेः पथि अग्रसरः भवितुम् अपि अस्ति। तीर्थयात्रा तदा सार्थका भवति, यदा मनुष्यः अज्ञानात् ज्ञानं प्रति, अशान्तेः शान्तिं प्रति, अहङ्कारात् आत्मबोधं प्रति च अग्रसरः भवति। नैमिषारण्यस्य आध्यात्मिकं महत्त्वम् अस्मिन् आन्तरिकपरिवर्तने निहितम् अस्ति। अस्याः पावनभूमेः सन्देशः स्पष्टः अस्ति—तपस्या केवलं वने उपविश्य साधनं न, अपितु विचाराणां परिष्कारः, इन्द्रियाणां संयमः, जीवनस्य लोकमङ्गलाय समर्पणं च। यदा मनुष्यः स्वजीवनं सदाचारेण, संयमेन, परोपकारेण च योजयति, तदैव तस्य साधना वास्तविकं स्वरूपं प्राप्नोति।

 

गोमतीनद्याः पावनी धारा, चक्रतीर्थस्य दिव्यं वातावरणम्, भगवत्याः ललितादेव्याः शक्तिमयं सान्निध्यं, प्राचीनऋषिपरम्परायाः स्मृतयश्च साधकस्य हृदये श्रद्धाभावं जागरयन्ति। एषः भावः तं स्वस्य अस्तित्वसम्बद्धानां गम्भीरप्रश्नानाम् अभिमुखं नयति। चक्रतीर्थस्य जलम् इव जीवनस्य गूढं सन्देशं ददाति—जीवनमपि एकं चक्रम् अस्ति, यस्मिन् उत्थानपतनानि, सुखदुःखानि, आशानिराशाश्च निरन्तरं प्रवहन्ति। यः मनुष्यः एतेषां परिवर्तनानां मध्ये अपि स्वविवेकं, धैर्यं, आत्मविश्वासं च अक्षुण्णं रक्षितुं शक्नोति, स एव जीवनस्य वास्तविकां साधनां सम्यगवगच्छति।

 

नैमिषारण्ये अन्तर्मनसः यात्रायां भगवत्याः ललितादेव्याः स्मरणं विशिष्टाम् आध्यात्मिकानुभूतिं जनयति। आदिशक्तेः श्रीचरणयोः समर्पणभावः मनुष्यं बोधयति यत् शक्तिः केवलं बाहुबलस्य अथवा सामर्थ्यस्य नाम नास्ति। सा करुणायाः, धैर्यस्य, विवेकस्य, सृजनशीलतायाः, धर्मरक्षणस्य च आन्तरिकः स्रोतः अपि अस्ति। देव्याः सम्मुखे नतमस्तको भूत्वा मनुष्यः स्वाहङ्कारं त्यजति तथा जीवनस्य जटिलतासु नूतनां आन्तरिकदृढतां प्राप्नोति। एतादृशं समर्पणं पलायनं न, अपितु स्वकर्तव्याणि अधिकया निष्ठया, शुद्धभावेन च निर्वोढुं प्रेरणादायकम् अस्ति।

 

ऋषीणाम् अस्यां तपोभूमौ अन्तर्निहितः अन्यः महत्त्वपूर्णः सन्देशः अपि अस्ति—ज्ञानं तदैव सार्थकं भवति, यदा तत् आचरणे प्रतिबिम्बितं भवति। केवलं शास्त्राणाम् अध्ययनं पर्याप्तं नास्ति; शास्त्रैः प्राप्तः विवेकः अस्माकं व्यवहारे विनयं, वाण्यां माधुर्यं, विचारेषु उदारतां, कर्मसु निष्कामभावं च जनयेत्। यदि तीर्थयात्रायाः अनन्तरमपि अस्माकं मनसि क्रोधः, ईर्ष्या, द्वेषः, अहङ्कारश्च पूर्ववत् तिष्ठन्ति, तर्हि अस्माकं यात्रा अद्यापि अपूर्णा एव। वास्तविकतीर्थयात्रा तदैव पूर्णतां प्राप्नोति, यदा वयं स्वान्तःकरणे विद्यमानान् विकारान् ज्ञात्वा तेषां परिष्काराय दृढं सङ्कल्पं कुर्मः।

 

“आत्मानं विद्धि”—स्वात्मानं जानीहि—इति उपनिषदां सन्देशः अस्याः अन्तर्मनसः यात्रायाः मूलसूत्रम् अस्ति। आत्मज्ञानस्य अर्थः केवलं स्वकीयानाम् इच्छानाम् आकाङ्क्षाणां च परिचयः न, अपितु स्वविचाराणां मूलं, स्वव्यवहारस्य कारणानि, जीवनस्य प्रयोजनं च अवगन्तुम् अपि अस्ति। यदा मनुष्यः स्वयमेव आत्मानं प्रश्नान् प्रष्टुं आरभते—अहं कः अस्मि? मम जीवनस्य प्रयोजनं किम्? मम कर्मभिः समाजाय संसाराय च किं हितं भवति? अहं स्वजीवनं कथम् अधिकं सार्थकं कर्तुं शक्नोमि?—तदैव आत्मचिन्तनस्य वास्तविकं द्वारम् उद्घाट्यते। एतादृशं चिन्तनं मनुष्यं स्वस्य दोषान् ज्ञातुं, गुणान् विकसितुं, जीवनस्य दिशं च निर्धारयितुं समर्थं करोति।

 

नैमिषारण्यस्य नीरववातावरणे मौनस्य महत्त्वम् अपि अधिकतया अनुभूयते। वस्तुतः मौनमपि एका भाषा अस्ति। वृक्षाणां स्थिरता, मन्दिराणां घण्टानादः, मन्त्राणां पावनः स्वरः, साधकानाम् एकाग्रता च मनुष्यं तेन आन्तरिकजगता परिचाययन्ति, यत् बाह्यजगतः कोलाहले प्रायः आच्छादितं भवति। अत्र मौनस्य अर्थः विचारशून्यता न, अपितु स्वविचाराणां प्रति सजगता अस्ति। एकान्तस्य अर्थः संसारात् विमुखता न, अपितु स्वात्मानम् अवगत्य संसारस्य प्रति अधिकम् उत्तरदायित्वं स्वीकर्तुम् अस्ति। यदा मनुष्यः स्वान्तःकरणस्य स्वरं श्रोतुं शिक्षते, तदा सः जीवनस्य अनेकानां प्रश्नानाम् उत्तराणि स्वयमेव अन्वेष्टुं शक्नोति।

 

नैमिषारण्यं अस्मान् एतदपि शिक्षयति यत् अध्यात्मनः परमं लक्ष्यं केवलं व्यक्तिगतशान्तेः प्राप्तिः न, अपितु समस्तसृष्टेः प्रति आत्मीयतायाः विस्तारः अपि अस्ति। यदा अन्तःकरणं निर्मलं भवति, तदा मनुष्यः परेषां दुःखम् अवगन्तुं शक्नोति, सेवायाम् आनन्दम् अनुभवति, स्वार्थात् उपरि उत्थाय लोककल्याणाय चिन्तयति च। ऋषिपरम्परायाः वास्तविकं वैशिष्ट्यम् अपि एतदेव—व्यक्तेः परिष्कारः, समाजस्य उत्थानम्, समस्तमानवतायाः प्रति मङ्गलभावना च। यत्र ज्ञानं करुणया सह मिलति, तत्रैव धर्मस्य वास्तविकं स्वरूपं प्रकटते।

 

अद्यतनस्य तनावपूर्णे, प्रतिस्पर्धापूर्णे, भौतिकोपलब्धिप्रधाने च जीवने नैमिषारण्यस्य प्रासङ्गिकता इतोऽपि वर्धते। आधुनिकमनुष्यस्य समीपे भौतिकसुविधानां बाहुल्यम् अस्ति, किन्तु मानसिकशान्तेः आत्मसन्तोषस्य च अभावः प्रायः अनुभूयते। एतादृशे काले नैमिषारण्यं स्वकीयमूलैः सह पुनः सम्बद्धं भवितुम्, भारतीयज्ञानपरम्परायाः मर्म अवगन्तुम्, जीवनस्य भौतिकाध्यात्मिकयोः पक्षयोः सन्तुलनं स्थापयितुं च प्रेरयति। एतत् बोधयति यत् प्रगतेः वास्तविकः अर्थः केवलं साधनानां वृद्धिः न, अपितु संवेदनशीलतायाः, विवेकस्य, मानवीयमूल्यानां च विकासः अपि अस्ति। बाह्यसमृद्धिः तदैव पूर्णतां प्राप्नोति, यदा तया सह आन्तरिकसमृद्धिरपि वर्धते।

 

मम कृते नैमिषारण्यस्य यात्रा केवलं धार्मिकानुष्ठानं वा तीर्थदर्शनं वा नास्ति, अपितु स्वात्मना सह संवादस्य, चेतनायाः परिष्कारस्य, जीवनस्य प्रयोजनस्य पुनरन्वेषणस्य च अवसरः अस्ति। अत्र आगत्य अनुभूयते यत् इतिहासः केवलम् अतीतस्य स्मृतिः न, अपितु वर्तमानाय दिशं प्रददती जीवनीशक्तिः अपि अस्ति। ऋषीणां साधना, देव्याः आराधना, तीर्थस्य पवित्रता च अस्मान् स्वान्तःकरणे तं प्रकाशम् अन्वेष्टुं प्रेरयन्ति, यः परिस्थितीनां परिवर्तनं सहेतुम् अपि समर्थः भवति तथा कदापि मन्दः न भवति। अयं प्रकाशः विवेकस्य, श्रद्धायाः, सत्यनिष्ठायाश्च प्रतीकः अस्ति।

 

अन्ततः नैमिषारण्यस्य वास्तविकयात्रा पादाभ्यां न, अपितु भावनया पूर्णतां प्राप्नोति; अस्य वास्तविकं दर्शनं नेत्राभ्यां न, अपितु निर्मलेन अन्तःकरणेन भवति। अत्र आगच्छन् प्रत्येकः साधकः स्वसह कतिपयान् प्रश्नान् आनयति। यदि सः श्रद्धया, धैर्येण, आत्मचिन्तनेन च अस्याः पावनभूमेः आध्यात्मिकं सन्देशं हृदये धारयति, तर्हि स्वान्तःकरणे एव अनेकानां प्रश्नानाम् उत्तराणि लब्धुं शक्नोति। तीर्थस्य पवित्रता तदैव अस्माकं जीवने अवतरति, यदा वयं तस्मात् प्रत्यागत्यापि विचाराणां पवित्रतां, व्यवहारे करुणाम्, कर्मसु निष्ठां, हृदये समरसतां च धारयामः। तीर्थदर्शनस्य फलम् अस्माकं जीवनपरिवर्तनेन एव मापनीयम्।

 

नैमिषारण्यस्य एषा अन्तर्मनसः यात्रा वस्तुतः स्वात्मानं प्रति प्रत्यागमनस्य यात्रा अस्ति—अहङ्कारात् आत्मबोधं प्रति, अशान्तेः आत्मशान्तिं प्रति, व्यक्तिगतस्वार्थात् लोकमङ्गलं प्रति च गमनस्य साधना। अतः अस्मात् पावनतपोभूमेः वयं केवलम् आशीर्वादान् एव न, अपितु जीवनसङ्कल्पमपि स्वीकुर्याम। स्वान्तःकरणे ज्ञानदीपं प्रज्वालयेम, स्वाचरणं धर्ममयं कुर्याम, भारतीयज्ञानपरम्परायाः संरक्षणे संवर्धने च योगदानं दद्याम, स्वजीवनं च मानवतायाः सेवायै समर्पयेम।

 

यतो हि नैमिषारण्यं केवलं तत् स्थानं नास्ति, यत्र वयं गच्छामः; नैमिषारण्यं तादृशी अनुभूतिः अस्ति, या अस्माकम् अन्तर्मनसि जागरिता भवति। यदा एषा अनुभूतिः अस्माकम् अन्तःकरणे स्थायिनी भवति, तदैव तीर्थं जीवनस्य अभिन्नम् अङ्गं भवति। तदा च यात्रा केवलं तीर्थदर्शनं न तिष्ठति, अपितु आत्मपरिवर्तनस्य, आत्मोन्नतेः, लोकमङ्गलस्य च सततं साधनं भवति।

 

लेखकः — आचार्यः हरिओमशुक्लः

नैमिषारण्यम्।

You Might Also Like

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयेन महाराष्ट्रस्य दुष्कालपीडितक्षेत्राणां सर्वेषां छात्राणां परीक्षाशुल्क-विमुक्तेः निर्देशाः निर्गताः

Gaggal Airport – तन्त्वारोपणाय (तारबन्दीकरणाय) १.१६ कोटिरूप्यकाणि विमुक्तानि, गगल-विमानपत्तन-विस्तारः प्राप्तवान् गतिम्, लोकनिर्माणविभागः करिष्यति कार्यम्

बालिका संस्कृतविद्यापीठे नवरात्रिमहोत्सवः भजन-कीर्तनैः समायोजितः

सिद्धार्थनगरे निवृत्तिवेतनभोगिभ्यः डिजिटलजीवितप्रमाणपत्रं समर्पयितुं सूचना

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

TAGGED: नैमिषारण्यम् — तीर्थात् आत्मतीर्थपर्यन्तं यात्रा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article बिहारवार्ता-प्रतिबन्धिताभिः औषधिभिः सह एकः अभियुक्तः अधिग्रहीतः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?