कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयेन महाराष्ट्रस्य दुष्कालपीडितक्षेत्राणां सर्वेषां छात्राणां परीक्षाशुल्क-विमुक्तेः निर्देशाः निर्गताः
महाराष्ट्र-शासनस्य निर्देशानामवज्ञां कुर्वतां महाविद्यालयानां विरुद्धं कार्यविधे: सचेतना
हिमसंस्कृतवार्ता — डॉ. रेणुका बोकारे, नागपुरम्।
महाराष्ट्रराज्यस्य चतुस्त्रिंशतः (३४) मण्डलानां पञ्चषष्ट्यधिक-द्विशत-तहसीलेषु (२६५ उपमण्डलेषु) दुष्कालस्य (अनावृष्टेः) स्थितिः घोषिता वर्तते। अस्यां पृष्ठभूमौ सम्बद्धक्षेत्राणां छात्रेभ्यः आर्थिक-शान्तिप्रदानस्य (साहाय्यप्रदानस्य) उद्देशेन परीक्षाशुल्कस्य विमुक्तये उच्चशिक्षा-निदेशालयेन तथा च महाराष्ट्रशासनेन निर्देशाः निर्गताः। महाराष्ट्रस्य मुख्यमन्त्रिणः देवेन्द्रफडणवीस-महोदयस्य भूमिकानुरूपं छात्रेभ्यः परीक्षाशुल्कं न ग्रहीतव्यम्। शासनस्य निर्देशानामवज्ञां कृत्वा शुल्कसङ्ग्रहणं कुर्वतां महाविद्यालयानां विरुद्धं नियमानुगुणं विधिकार्यविधि: विधास्यते, इति स्पष्टा सचेतना प्रदत्ता।
कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयेन विश्वविद्यालय-सम्बद्धेभ्यः सर्वेभ्यः महाविद्यालयेभ्यः एकं विशेषपरिपत्रकं निर्गमय्य दुष्कालपीडित-तहसीलक्षेत्राणां छात्रेभ्यः परीक्षाशुल्के विमुक्तिप्रदानाय निर्देशाः दत्ताः। सहैव, येभ्यः छात्रेभ्यः पूर्वमेव परीक्षाशुल्कं सङ्गृहीतं वर्तते, तेभ्यः सम्बद्धछात्रेभ्यः शुल्कं प्रत्यर्पयितुम् (प्रतिदातुम्) अपि समादिष्टम्। शासनस्य परिपत्रकस्य सम्पूर्णतया परिपालनं सुनिश्चितं कर्तुं दायित्वं विश्वविद्यालयस्य कार्यसमितिः निर्वहति।
शासनस्य परिपत्रकं सद्यःप्रभावेण (तत्कालप्रभावेण) प्रवर्तयितुं विश्वविद्यालयस्य कार्यसमित्या सर्वेभ्यः महाविद्यालयेभ्यः परीक्षाशुल्कसम्बद्धानां समस्यानां समाधानाय प्रतिमहाविद्यालयं विशेषप्रकोष्ठं स्थापयितुं तथा च महाविद्यालयस्तरे नोडल-अधिकारिणं नियोजयितुं निर्देशाः प्रदत्ताः।
विश्वविद्यालयस्तरे निर्मितायाः कार्यसमित्याः अध्यक्षताम् अधिष्ठात्री प्रो. कविता-होले-महोदया करोति। समितेः सदस्येषु प्रो. कलापिनी-अगस्ती, प्रो. हरेकृष्ण-अगस्ती, प्रो. प्रसाद-गोखले, कुलसचिवः डॉ. रोशन-अलोने, उपकुलसचिवः डॉ. सुमित-कठाळे तथा च परीक्षानियन्त्रकः नोडल-अधिकारी च डॉ. जयवन्त-चौधरी सम्मिलिताः सन्ति।
शिक्षा कस्यामपि परिस्थितौ बाधिता न भवेत्। दुष्कालपीडितमण्डलानां छात्राणां प्रति संस्कृतविश्वविद्यालयः सम्पूर्णतया संवेदनशीलः अस्ति। छात्रेषु आर्थिकभारः मा आपतेत् तेषां शिक्षायां च कापि बाधा नोत्पद्येत, एतदर्थं शासनस्य निर्णयस्य कठोरतया परिपालनं कर्तुं निर्देशाः माननीयेन कुलगुरुणा डॉ. अतुल-वैद्य-महोदयेन विश्वविद्यालयप्रशासनाय प्रदत्ताः सन्ति।
